योगदर्शनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(योग इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
योगशास्त्रस्य प्रणेता पतञ्जलिः

योगदर्शनं (Yoga) दर्शनेषु अन्यतमम् । अस्य योगशास्त्रस्य रचयिता महर्षिः पतञ्जलिः । अयं पतञ्जलिः जीवः ईश्वरश्चेति तत्वद्वयं स्वीकरोति । अतः एव अस्य दर्शनस्य "सेश्वरसांख्यदर्शनम्" इति नामान्तरम् । अस्यैव शास्त्रस्यापरं नाम "सांख्यप्रवचनम्"इति । एतद्दर्शनं पतञ्जलिना प्रणीतत्वात् "पातञ्जलदर्शनम्" इत्यपि व्यवहारयोग्यं भवति । यद्यपि पतञ्जलेः पूर्वाचार्याः हिरण्यगर्भयाज्ञवल्क्यादयः अनेके आचार्याः योगशास्त्रस्य प्रवक्तारः आसन्, अथापि जनसाधारणानां कृते पतञ्चलिरेव तं योगशास्त्रं सूत्ररुपेण ग्रन्थीकृत्य सम्यक् सरलरीत्या व्याजहार इति हेतोः अस्य योगदर्शनस्य "पातञ्जलदर्शनम्" इति नाम सयुक्तिकं तिष्ठति ।

हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

योगशास्त्रपरिचयः[सम्पादयतु]

अस्मिन् योगशास्त्रे चत्वारः पादाः सन्ति । तेषां नामानि क्रमाद् भविष्यन्ति -समाधिपादः, साधनपादः विभूतिपादः, कैवल्यपादश्चेति । प्रथमे पादे भगवान् पतञ्जलिः -‘अथ योगानुशासनम्’,[१] इति शास्त्रारम्भस्य प्रतिज्ञां करोति । अनन्तरं योगस्य परिभाषा अस्ति -"योगश्चित्तवृत्तिनिरोधः" [२] इति । चित्तवृत्तयः-प्रमाणविपर्ययविकल्पादयः । एतेषां निर्वर्तनं योगशब्दार्थः । समाधिशब्दस्यार्थः -सम्यक् आधानम् इति, अर्थात् चित्तस्य स्वात्मस्वरुपे अवस्थापनमिति । योगवासिष्ठे सामाधिलक्षणमेवमभिहितम्-
''''इमं गुणसमाहारमनात्मत्वेन पश्यतः'
'अन्तः शितलता यस्य समाधिरिति कथ्यते'
इति । द्वितीये साधनपादे -" तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः" (यो० सू०-१) इत्यादि सूत्रद्वारा चञ्चलचित्तपुरुषाणां तपः स्वाध्यायादि क्रियायोगः एवं यमनियमादिबहिरङ्गसाधनभूतानां तत्त्वानामुल्लेखः वर्णितः । अत्र तपः इति शब्देन चान्द्रायणादिक्लेशकारकस्य तपसः अर्थावबोधो न भवति, यतः चान्द्रयणादयः शरीरे क्लेशजनकत्वात् तेन चित्तस्य ऐकाग्य्रं न तिष्ठति । अत्र तपः शब्दार्थः इत्यंभूतः भवति-हितकारकं स्वल्पं सात्विकभोजनं तथा शीतोष्णसुखदुःखादीनां सहनं एवमिन्द्रियाणां निरोधात्मक यद्भवति तत्तपः इत्युच्यते । योगशास्त्रे तपः प्रसन्नकरणात्मकं वर्तते न तु पीडात्मकम् । स्वाध्यायस्यार्थः-मोक्षशास्त्राध्ययनं या नियमपूर्वकं प्रणवादिजपानुष्ठानमिति । ईश्वर-प्रणिधानं नाम परमात्मनः अनुचिन्तनम् अथवा परमात्मनि सर्वकर्मणां समर्पणम् इति भवति । सर्वेषु क्रियायोगेषु ईश्वरप्रणिधानं नाम क्रियायोगः उत्तमः इति स्वीक्रियते । "यद्यत् कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्" इति ईस्वरप्रणिधानयुक्तः पुरुषः सर्वकर्माणि ईश्वारा-र्पितसेवाबुध्या करोति इत्यादयः विषयाः प्रतिपादिताः । तृतीये विभूतिपादे -जन्मान्तज्ञानं, भूतभविष्यदर्थकं ज्ञानं, अन्तर्धानम् इत्यादि अनेकप्रकाराः सिद्धयः उपन्यस्ताः । चतुर्थे कैवल्यपादे -"जन्मोषधिमन्त्रतपः समाधिजाः सिद्धयः" [३] इति सूत्रेण पञ्चानां सिद्धीनां वर्णनं करोति । देवतानां सिद्धिः जन्मना एव जायते । एवं पक्षिणामाकाशे उड्डयनं पशूनां जलतरणमित्यादि जन्मतः एव प्रसिद्धः । ओषधेभ्यः सिद्धिः प्राप्यते । आयुर्वेद, रसेश्वरदर्शनादिषु सिद्धिरियं वर्णिता । मन्त्रेण एवं तपोबलेन सिद्धीनां प्राप्तिवर्णनं तन्त्रादिशास्त्रेषु मिलिष्यति । समाधेः सिद्धिः शास्त्रस्यास्य गौणविषयभूता भविष्यति । यमनियमादि अष्टाङ्गोपासनेन यदा योगवृक्षः फलति तदा पूर्णभावनया समाधिरुपफलपरिपकानन्तरं प्रकृति-पुरुषयोः भेदात्मकः साक्षात्कारः सिध्यति । तदानीं असंगः पुरुषः स्वस्वरुपावस्थानेन तिष्ठतीति कृत्वा आत्यन्तिकदुःखविनाशरुपः मोक्षः सिध्यति । अस्मिन् योगशास्त्रे षड्विंशतितत्त्वानि भवन्ति । यथा सांख्याभ्युपगतानि पञ्चविंशतितत्त्वानि, एतेषामतिरिक्तत्वेन एकः ईश्वरः अस्तीति ईश्वरतत्त्वमपि पतञ्जलिरयं स्वीकरोति इत्यतः अस्य नाम सेश्वरवादी सांख्यः इति । ईश्वरस्य लक्षणमेव प्रतिपादयति पतञ्जलिः क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः (यो० सू० १-२४) इति ।

वैदिकी जीवनपद्धतिः धर्मार्थकाममोक्षरुपिणि पुरुषार्थचतुष्टये आश्रिता वर्तते । अन्तिमः पुरुषार्थः एव जीवनस्य अन्तिमम् उद्देश्यम् अस्ति । तदर्थमेव दर्शनशास्त्राणां प्रवृत्तिजार्यते यद्यपि सर्वाणि दर्शनानि स्व-स्वसिद्धान्तानुसारं मोक्षस्य निरुपणमकुर्वन् तथापि योगदर्शनं मोक्षस्य कृते साक्षात्कृतयत्नो विधीयते । मोक्षस्य निरूपणमकुर्वन् तथापि योगदर्शनं मोक्षस्य कृते साक्षात्कृतयत्नो विधीयते । मोक्षस्य कृते एव योगस्य उदयः सञ्जातः । इदं तात्पर्यं ‘योग’ पदस्य व्युत्पत्त्याऽपि स्पष्टमस्ति । “युज् समाधौ” धातोः योगशब्दस्य निष्पत्तिः संजाता । आत्मनः परमात्मनि विलय एव योग उच्यते । यदा त्रिविधदुःखानाम् एकान्तिकी आत्यन्तिकी च निवृत्तिर्भवति, तदा आत्मा स्वरुपे विलीनो भवति । तत्पश्चात् जननमरणादयः पुनर्न जायन्ते ।

अस्य आत्मसाक्षात्कारस्य शास्त्रीयं मार्गदर्शकं योगशास्त्रमस्ति । समाधेरवस्थायाः अपरः पर्यायो योगः एवास्ति । चित्तवृत्तिः बाह्मजगतः अपवार्य आन्तरतत्त्वे स्थिरयेत् इत्याकारकोऽयं योगमार्गोऽत्र प्रतिपादितः । योगदर्शनं वैदिकदर्शनमस्ति यतो हि वेदेषु उपनिषत्सु च योगस्य सोपायं वर्णनं प्राप्यते । प्राचां ऋषीणां त्रैकालिकज्ञानस्य मूलमिदं योगदर्शनमस्ति, अतोऽस्य प्राचीनता असन्दिग्धा प्रतीयते । यदा वेदानाम् अपौरुषेयत्वं परीक्ष्यते तदा योगः एव तेषां अपौरुषेयत्वस्य साधक इति सिद्ध्यति । यतो हि ऋषयोऽपि योगेन एव मन्त्राणां साक्षाद्दर्शनं कृतवन्तः । ते मन्त्रप्रणेतारो नासन् ।

अस्य अलौकिकवेदज्ञानजन्ययोगदर्शनस्य क्रियान्वयनं समाधिं विना नैव सम्भवति, अतः योगोवेदादपि प्राचीनं प्रतीयते । यद्यपि योगोऽपि एकं विशिष्टं ज्ञानमस्ति तथा च वेदाः अपि ज्ञानरुपाः सन्ति । ज्ञानस्य कदापि विनाशो नैव जायते । वेदाः अनादिज्ञानरुपाः वर्तन्ते । तेषामालोके योगमार्गस्य दर्शनम् अभवत् येन पश्चात् अदृष्टज्ञानम् अन्तर्निहितं ज्ञानं वा पुनः प्रकाशितम् । वैदिकदर्शनेषु योगस्य महत्त्वपूर्णां स्थानमस्ति । अवैदिकैः जैनबौद्धादिदर्शनैरपि अस्य महत्त्वं स्वीकृतं, स्वसम्प्रदायेषु च सादरं योगस्य प्रतिष्ठापना विहिता । उदाहरणार्थं जैनदर्शनस्याचार्येण ’उमास्वामिना हेमचन्द्रेण’ च योगप्रक्रियाया विषयो विस्तरेण प्रतिपादितः । हठयोगानुगामिनि नाथसम्प्रदायेऽद्यापि योगस्य व्यावहारिकः अभ्यासो विधीयते ।

योगदर्शनस्य विकासः[सम्पादयतु]

योगदर्शनस्य प्रणेता महर्षिः पतञ्जलिः आसीत् । तद्र्चना योगसूत्रनाम्ना प्राप्यते । “ अथ योगानुशासनम्” इति सूत्रेण योगसूत्रस्य प्रारम्भो भवति । अनुशासन शब्दस्यार्थोऽस्ति-उद्दिष्टसिद्धान्तानां प्रतिपादनम् । अतएव इदमनुमानं स्वाभाविकं जायते यत् योगस्य सिद्धान्ता पूर्वम् उपदिष्टाः । याज्ञवल्क्यस्मृतिग्रंथे उल्लेखोऽस्ति यत् महायोगी हिरण्यगर्भ एव सर्वप्रथमं योगस्य उपदेशं प्रददौ । महर्षिणा पतञ्जलिना तस्योपदेशस्यैव सुव्यवस्थितं निरुपणं कृतम् ।

महाभाष्यस्य प्रणेता वैय्याकरणः पतञ्जलिरेव योगसूत्रस्य कर्त्ता आसीत् इति तथ्यम् अनेकैः प्रमाणैः सिदध्यति । यद्यपि सांख्ययोगौ एकीभूतौ मन्येते तथापि योगशास्त्रे सांख्य प्रतिकूलस्य स्फोटवादसिद्धान्तस्य समर्थनं विहितम् स्फोटवादः व्याकरणशास्त्रे सुचर्चितोऽस्ति अतः योगसूत्रकर्त्ता पतञ्जलिः स्फोटवादस्य प्रणेता महाभाष्यकार एकैवावर्तत । पतञ्जलेः स्थितिकालः ईस्वीपूर्वं द्वितीयशताब्दी स्वीक्रियते । यद्यपि कैश्चिद् विद्वद्भिः योगसूत्रस्य चतुर्थपादे विज्ञानवादस्य खण्डनमस्ति अतः योगसूत्राणां रचनाकालः बौद्ध-आचार्यात् मैत्रेयात् परवर्ती स्वीकृतः, किन्तु तन्मतं युक्तियुक्तं नास्ति , यतोहि बौद्धविज्ञानवादस्य अवधारणायाः पूर्वमपि विज्ञानवादस्य उल्लेखः प्राप्यते यथा छान्दोग्योपनिषदि ।

योगसूत्रस्य चत्वारः पादाः सन्ति –(१) समाधिपादः (२) साधनपादः (३) विभूतिपादः (४) कैवल्यपादश्च । प्रथमे समाधिपादे चित्तवृत्तीनां समाधिभेदानां च वर्णनं विद्यते । द्वितीये साधनपादे क्रियायोग- क्लेशनाशोपायानां योगाङ्गानां च प्रतिपादनमस्ति । तृतीये विभूतिपादे धारणा –ध्यान –समाधिरुपाणां अवशिष्टानां विशिष्टयोगाङ्गनां प्रतिपादनेन सह योगाभ्यासजन्य –अदृश्यशक्तिनाम् अर्थात् विभूतीनामपि वर्णनं प्राप्यते । चतुर्थे कैवल्यपादे समाधिसिद्धि-निर्वाणचित्त-विज्ञानवादखण्डन –कैवल्यादयो विषयाः विस्तरेण निरुपिताः सन्ति ।

  1. समाधिपादः
  2. साधनापादः
  3. विभूतिपादः
  4. कैवल्यपादः

पतञ्जलिविरचितस्य योगसूत्रस्य एको भाष्यग्रन्थः प्रसिद्धोऽस्ति । तस्य नामास्ति व्यासभाष्यम् इति । योगसूत्राणां रहस्यं स्फुटीकर्त्तुम् अस्य भाष्यग्रन्थस्य अपयोगिता प्रामाण्यं च स्वीक्रियते । यद्यपि व्यासभाष्ये क्लिष्टताया आधिक्यमस्ति तथापि दुर्वहं नास्ति, यतो हि अस्य भाष्यस्यापि अनेके टीकाग्रन्थाः प्राप्यन्ते । वाचस्पतिमिश्रस्य तत्त्ववैशारदी “ विज्ञानभिक्षोः” “योगवार्तिकम् “ च श्रेष्ठौ टीकाग्रन्थौ स्तः । एतदतिरिक्तं हरिहरानन्द आरण्यक विरचिता एका अन्या टीका “ भास्वती” नाम्नाऽपि प्राप्यते । तत्त्ववैशारदी” विषयीकृत्य कालान्तरे राघवानन्देन “पातञ्जलयोगरहस्यम्” इति नाम्ना टीकाग्रन्थो रचितः ।

योगसूत्रमधिकृत्यापि अनेकाः टीकाः प्राप्यन्ते । यथा –भोजविरचिता भोजवृत्तिः, भावगणेशविरचिता वृत्तिः, रामानन्दयतिविरचिता मणिप्रभा, अनन्तपण्डितरचिता योगचन्द्रिका, सदाशिवेन्द्रसरस्वतीकृत “योगसुधाकराख्ये”, नागोजिभट्टः विरचिता ब्राह्मवृत्तिः, बृहतीवृत्तिश्च, ओमानन्दतीर्थप्रणीतः योगप्रदीपश्चेति ।

उपर्युक्ताः सर्वाः टीका अनुभविभिः योगसाधकैः रचिताः सन्ति । योगसूत्राणां परिज्ञानाय आसां सर्वासां टीकानामुपयोगिता प्रतीयते । स्वामिना ओमानन्दतीर्थेन लिखिते योगप्रदीपग्रंथे विस्तृतभूमिकायां योगस्य स्वरुपम् उपस्थाप्य ग्रन्थस्य अपादेयता संवर्धिता । इयं टीका गीताप्रेस, गोरखपुरतः प्रकाशिताऽस्ति ।

योगस्वरुपम्[सम्पादयतु]

योगस्वरुपम्-“योगश्चिवृत्तेर्निरोधः “ इति योगस्य परीभाषा योगसूत्रकारेण उदाहृता । चितञ्च क्षिप्त –मूढ –विक्षिप्त –एकाग्र –निरुद्धाख्यासु पञ्चभूमिषु विद्यमानं भवति । क्षिप्तभूमिः रजोगुणबहुला वर्तते । एषाऽवस्था दैत्य-दानव –उन्मत्तजनानां च भवति । मूढभूमिः तमोगुणबहुला भवति । इयं राक्षस-पिशाच-मदोन्मत्तानां जायते । विक्षिप्तभूमिः सत्त्वप्रधाना किन्तु रजोयुक्ता अपि भवति । इयं प्रथमभूस्थितानां योगिनां देवानां च चित्तभूमिरस्ति । इयं निरुद्धसत्त्वप्रधाना मन्यते । चित्तस्य सर्वासु वृत्तीषु उपरुद्धासु तत्तद्वृत्तीनां संस्कारमात्रेण युक्तं चितं निरुद्धं भवति । एषैव अन्तिमा भूमिरस्ति । चित्तवृत्तयोऽपि पञ्चविधाः प्रतिपादिताः –(१) प्रमाणवृत्तिः (२) विपर्ययवृत्तिः(३) विकल्पवृत्तिः (४) निद्रावृत्तिः (५) स्मृतिवृत्तिश्चेति । इमा रागद्वेषादिक्लेशानां कारणरुपाः सन्ति, तेषां विनाशिन्योऽपि भवन्ति, अतः आसां वृत्तीनां वर्गीकरणं द्विधा प्रतिपादितम् –क्लिष्टा अक्लिष्टाश्चेति ।

प्रमाणानि-योगदर्शने सांख्यसम्मतानां त्रयाणां प्रमाणानामेव स्वीकृतिरस्ति । अत्रापि इतरप्रमाणानाम् अन्तर्भावः एषु प्रत्यक्षानुमानशब्दाख्येषु त्रिष्वेव प्रमाणेषु जायते ।
विपर्ययः –वस्तुनो विपरीतम् अथवा मिथ्याज्ञानं विपर्ययोऽस्ति ।
विकल्पः –शब्दज्ञानेनोत्पन्नः किन्तु वस्तुशून्यो विकल्पः कथ्यते । यथा चैतन्यमेव पुरुषस्य स्वरुपमस्ति ।
निद्रा-वस्तुनोऽभावस्य ज्ञापयित्री वृत्तिः निद्रा इत्युच्यते ।
स्मृतिः-अनुभूतविषयाणां तस्मिन्नेव रुपे स्मरणं स्मृतिदिति कथ्यते । आसां वृत्तीनां विरोधादेव आत्मस्वरुपस्य दर्शनं भवति । अर्थात् सांसारिकदुःखानाम् आत्यन्तिकं निवृत्तिश्च जायते । आसां वृत्तीनां निरोधो अभ्यासेन वैराग्येण च भवति । वैराग्येण विवेकस्य उदयो भवति । अभ्यासेन च चित्तं सत्त्वे प्रतिष्ठति ।

अङ्गानि[सम्पादयतु]

चित्तवृत्तीः स्थिरयितुं योगाभ्यास आवश्यको भवति । तत्कृते योगाङ्गानां अभ्यासो विधीयते । योगस्य अष्टौ अङ्गानि अभिमतानि-

  1. यमः
  2. नियमः
  3. आसनम्
  4. प्राणायामः
  5. प्रत्याहारः
  6. धारणा
  7. ध्यानम्
  8. समाधिः

मुख्याः विषयाः[सम्पादयतु]

समाधिः[सम्पादयतु]

चित्तवृत्तेर्निरोध एव समाधिरुच्यते । समाधिर्द्विधा वर्तते –सम्प्रज्ञातसमाधिः, असम्प्रज्ञातसमाधिश्चेति । सम्प्रज्ञातसमाधिः –कस्मिंश्चिद् एकस्मिन् वस्तुनि चित्तस्य स्थैर्थं जाग्रतावस्था च इतरवृत्तीनां क्षये सति सम्प्रज्ञातः सबीजो वा समाधिर्भवति । अस्य समाधेश्चत्वारो भेदाः सन्ति –(१) वितर्कानुगतः (२) विचारानुगतः (३) आनन्दानुगतः (४) अस्मितानुगतश्च । एषु चित्तं स्थूलेभ्यः सूक्ष्मेषु आलम्बनेषु तिष्ठति ।

असम्प्रज्ञातसमाधिः –वृत्तीनां परमेण वैराग्येण निरोधे सति ज्ञातृ-ज्ञान-ज्ञेयानां भेदोपशमे सति चालम्बनस्य संस्कारमात्रे अवशिष्टे असम्प्रज्ञातः समाधिर्भवति । इयं निर्बीजसमाधिरपि उच्यते । अस्याम् अवस्थायां क्लेशाः नैव तिष्ठन्ति, न च कर्माशयाः । असम्प्रज्ञातसमाधेरपि भेदद्वयम् अस्ति-भवप्रत्ययः उपायप्रर्ययश्च । अविधावशात् निरोधस्माधिः ‘भवप्रत्यय’ नाम्ना विज्ञायते ।अतएव रक्त मांस मेद –अस्थि-मज्जा शुक्रादिषाट्कौषिकस्य शरीरस्य पतनोपरान्तम् इन्द्रियेषु अथवा भूतेषु लीनाः संस्कारमात्रेण सहिताश्च जीवा ‘विदेह’ संज्ञका भवन्ति । श्रद्धा –वीर्य- स्मृति – समाधि-प्रज्ञाभ्य उत्पन्नः उपायप्रत्ययः योगिभिः प्राप्यते । इयमेकान्तिकी दुःखनिवृत्तिर्नास्ति । अत्र अविद्यायाः विनाशेन क्लेशाः अपि विनश्यन्ति । अतः चित्तं ज्ञाने प्रतिष्ठते ।

चित्तस्य निरोधं प्रति गत्यवरोधकाः चित्तविक्षेपाः भवन्ति । यथा-रोगः, अकर्मण्यता, भ्रान्तिदर्शनम्, निरुद्धाप्राप्ति, समाधौ चेतसः अस्थैर्यम् इत्यादि । चित्तविक्षेपग्रस्ताः जनाः दुःखं दौर्मनस्यं कम्पनं श्वासप्रश्वासादिनां चानुभवन्ति । अतः एषामवरोधाय चित्तस्य तत्त्वे स्थापयितुं अभ्यास कार्यः । सर्वेषु प्राणिषु- मैत्रीभाव, करुणाभावश्च, पुण्यात्मनः प्रति प्रसन्नता, पापकारिणामुपेक्षा च करणीयाः ।

असमाहितचित्ताः अपिजनाः तपः-स्वाध्याय, ईश्वरप्रणिधानादिभिः योगे प्रवर्तन्ते। फलस्वरुपं समाधिभावस्य उदयः क्लेशानां विनाशश्च जायेते । क्लेशाः प्रायेण अविद्यायाः आच्छादिताः भवन्ति । तद् मिथ्याज्ञानं भ्रान्तिरपि कथ्यते । क्लेशः पञ्चधा प्रतिपादितः –अविद्या, अस्मिता, रागः, द्वेषः, अभिवेशश्च । अनात्मपदार्थः आत्माऽस्तीति अविद्या वर्तते । द्रष्ट्रादृश्ययोरभिन्नताऽस्तीति अस्मिता वर्तते । सुखस्य उत्कटेच्छा रागो भवति । दुःखहेतुभ्यः ईर्ष्याभावो द्वेषः । मृत्योर्भयश्चाभिनिवेशो भवति ।

परिणामविचारः[सम्पादयतु]

परिणामः त्रिविधः । धर्मपरिणामः, लक्षणपरिणामः, अवस्थापरिणामश्चेति ।

  • धर्मपरिणामः -धर्मे पूर्वधर्मतिरोभावेन धर्मान्तरप्रादुर्भावः धर्मपरिणामः ।
  • लक्षणपरिणामः - विद्यमानधर्मेषु लक्षणमेकं त्यक्त्वा लक्षणान्तरस्वीकरणेन यः परिणामः सः लक्षणपरिणामः ।
  • अवस्थापरिमाणः - वर्तमानं यल्लक्षणं तस्य अवस्थान्तरं त्यक्त्वा अन्यावस्थायां परिणामत्वेन वर्तमानत्वम् ।

अविद्याविचारः[सम्पादयतु]

विद्यायाः अभावः अविद्या इति व्युत्पत्या निर्मक्षिकम् इत्यत्र अव्ययीभावसमासेन मक्षिकानामभावः यथा प्रतीयते तथा पूर्वपदप्रधानग्रहणेन अविद्या पदशब्दार्थः विद्याभावः इति सिध्यति । अथवा न विद्या अविद्या इति विग्रहे नञ् तत्पुरुशसमासः प्रयुज्यते तर्हि विद्याविरोधित्वेन अन्यः अर्थः उच्यते । यथा, अब्राह्मणः अराजपुरुषः इत्यादिषु ।

पुरुषस्य कैवल्यम्[सम्पादयतु]

एकतायाः नाम कैवल्यमिति । प्रकृतेः कार्यभूतमहत्तत्वादीनां विलयेन, एवं पुरुषेण सह प्रकृतेः आत्यन्तिकवियोगेन एव प्रकृतेः एकाकित्वं सिद्धम् । पुरुषस्य कैवल्यमेतद् भवति यत् आत्मा स्वात्मनि वर्तमानानि समस्तोपाधिकस्वरूपाणि त्यक्त्वा स्वमूलस्वरूपे स्थायित्वेन वर्तमानत्वमिति ।


योगस्य तत्त्वानि[सम्पादयतु]

योगदर्शने प्रतिपादितः ईश्वरः मुक्तजीवः कैवल्यमुपगतो योगी वा नास्ति अपितु तदपेक्षया भिन्नो विद्यते । मुक्तजीवः अथवा केवली पुरुषः पूर्वसांसारिकबन्धनेभ्यो मुक्तो भवति किन्तु ईश्वरस्तु सदैव मुक्तो भवति । प्रकृतौ लीनः पुरुषोऽपि ईश्वरोनास्ति । ईश्वरः सर्वदा इच्छाज्ञान-क्रियारुपाभिः शक्तिभिः सम्पन्नो भवति । एताः शक्तयोऽपि ईश्वरे स्वाभाविक्य एव सन्ति । अनादिकालादेव ईश्वरे एताः विद्यन्ते । ईश्वरश्चैतत्प्रभावात् एव ऐश्वर्यसम्पन्नोऽस्ति । जीवानुग्रह ईश्वरस्य प्रधानः गुणोऽस्ति ।

प्रणवः अर्थात् ओङ्कारः ईश्वरस्य वाचको वर्तते । तस्य ईश्वरस्य सम्प्राप्तिः स्वाध्यायेन योगसम्पत्त्या वा सम्भवति । ईश्वरप्रणिधानेनैव चित्तस्य विक्षेपाः नश्यन्ति । समाहितचेताः योगाभ्यासी ईश्वरचिन्तनेन निर्मलां बुद्धिं लभते । तेन तस्मिन् ऐश्वर्यस्य उदयो भवति । यद्यपि ऐवर्यस्य प्राप्तरेनन्तरं बहवो विध्ना उपतिष्ठन्ति किन्तु ईश्वरप्रणिधानेन तेषां नाशो भवति । एवं समाधिस्थो भूत्वा योगी ईश्वरं चिन्तयेत् तदैव तस्य कैवल्यलाभो भवति । ईश्वरत्वस्य स्वीकृतेरेव योगदर्शनं सेश्वरसांख्यमिति व्यवाह्रियते ।

अध्ययनकेन्द्राणि[सम्पादयतु]

नाम राज्यम् सङ्केतः
राष्ट्रियसंस्कृतसंस्थानम्
http://www.sanskrit.nic.in
देहली (दशराज्येषु अस्ति) राष्ट्रिय संस्कृत संस्थान

मा. स. वि. मन्त्रालय के अन्तर्गत स्थापित 56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नई दिल्ली - 110 058 ई-मेल: rsks@nda.vsnl.net.in

राष्ट्रियसंस्कृतविद्यापीठम्
http://www.rsvidyapeetha.ac.in
आन्ध्रप्रदेशः तिरुपतिः-५१७५०७. आन्ध्रप्रदेशः
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्
http://www.slbsrsv.ac.in
देहली बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६


आधाराः[सम्पादयतु]

  1. यो० सू०, पतञ्जलिः, १-१
  2. यो० सू०, पतञ्जलिः, १-२
  3. यो० सू०,पतञ्जलिः, ४-१

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=योगदर्शनम्&oldid=270312" इत्यस्माद् पुनः प्राप्तिः