सदस्यः:Sbblr0803/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

|| स इममेवात्मानं द्वेधापातयत्
ततः पतिश्च पत्नीचाभवताम् ||
बृहदारण्यकोपनिषद्

|| श्री लक्ष्मीवेङ्कटेश्वरप्रसीदताम् ||


आ शर्म पर्वतानां वृणीमहे नदीनां । आ विष्णोः सचाभुवः ॥ (मण्डलम् ८ सूक्तः ३१, मन्त्रः १० ऋग्वेदः)
ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः ॥ उरुरध्वा स्वस्तये ॥ (मण्डलम् ८ सूक्तः ३१, मन्त्रः ११ ऋग्वेदः)

श्रीमती जयन्ती श्री चन्द्रशेखरः च
(दि॥ के। गुण्डप्प शर्मणः पुत्रः)

प्रणति पुरस्सरं विज्ञापयतः कुशलम् उभयं साम्प्रतम्

स्वस्तिश्री विजयाभ्युदय श्रीमच्छालीवाहनशके १९४१ तमे वत्सरे श्रीविलम्बिनाम संवत्सरे उत्तरायणे शिशिरऋतौ माघमासे शुक्लपक्षे पञ्चम्यां भानुवासरे शुभदिने (१०/०२/२०१९) प्रातः ०८:०० घण्टातः ०८:४५ घण्टापर्यन्तं सम्पद्यमाने कुम्भलग्ने शुभनवांशे आवयोः ज्येष्ठपुत्रः

||चि|| रा|| अभिरामशर्मा
तथा
||चि|| सौ|| गौरी ऐय्यर्
(पुणे निवासिनोः श्रीमती सरिता श्री श्रीनिवास ऐय्यर् इत्यनयोः पुत्री)

इत्यनयोः विवाह मङ्गलमहोत्सवः पुणे नगरस्य दूर्वाङ्कुर मङ्गलकार्यालये निर्वर्तनीयः इति गुरुदेवतानुग्रहेण निश्चितम् । तदत्र भवन्तो भवन्तः सकुटुम्ब परिवारं पूर्वमेव समागत्य अस्मिन् शुभमुहूर्ते ब्रह्मसदसि सन्निधाय, आदरातिथ्यं स्वीकृत्य, वधूवरौ शुभाशीर्भिः अनुगृह्य मङ्गलमहोत्सवं समावर्धयेयुः इति प्रार्थ्यते।

श्रीमती जयन्ती श्री चन्द्रशेखरः च

गमनागमने चाऽपि त्रासो भवति यद्यपि |
सम्मानो वर्धतेऽस्माकम् अवश्यम् आगन्तव्यम् ||

।।भद्रम् ।। ।। शुभम्।। ।।मङ्गलम्।।