सदस्यः:UditJSharma/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उज्जयिनी भारतस्य मध्यप्रदेशराज्यस्य प्रमुखा नगरी अस्ति । इदानीम् इयम् “उज्जैन” इति नाम्ना प्रसिद्धा अस्ति अत: लेखेऽस्मिन् “उज्जैन” इति प्रयोग: कृत: । यं क्षिप्रानद्यास्तटे स्थितम् अस्ति । इदम् एकं प्राचीनं नगरम् अस्ति । इदम् विक्रमादित्यस्य राज्यस्य केन्द्रम् आसीत् । इदम् “कालिदासनगरी” इति नाम्ना अपि ख्यातम् अस्ति । अत्र प्रतिद्वादशवर्षेषु एकवारं “सिंहस्थकुम्भमेला” भवति । भगवत: शिवस्य द्वादशज्योतिर्लिङ्गेषु एक: महाकालेश्वर: अस्मिन् नगरे स्थितोऽस्ति । उज्जैन-नगरं मध्यप्रदेशस्य इन्दौर-महानगरात् ५५ कि. मी. दूरे अस्ति । अस्य प्राचीनानि नामानि – अवन्तिका, कनकश्रृङ्गा इत्यादीनि सन्ति । इदम् मन्दिराणां नगरम् अस्ति । अत्र अनेकानि तीर्थस्थलानि सन्ति । अस्य जनसङ्ख्या ५.२५ लक्षम् अस्ति ।

इतिहास:[सम्पादयतु]

राजनैतिक: इतिहासस्तु उज्जैन नगरस्य लम्बायमान: अस्ति । अस्य गढक्षेत्रस्य खनने आद्यैतिहासिकी (protohistoric) प्रारम्भिकी च लोहयुगिना सामग्र्य: प्रचूरमात्रायां प्राप्ता: । पुराणेषु उल्लेखो वर्तते यत् वृष्णिवीरकृष्णबलरामा: अत्र सांदीपनिगुरो: आश्रमे आगता: । कृष्णस्य एका पत्नि: मित्रवृन्दा उज्जैन-नगरस्य राजपुत्रि:, तस्या: द्वौ भ्रातारौ विन्द: अनुविन्दश्च महाभारतयुद्धे कौरवपक्षात् गतिं प्राप्तवन्तौ । षड्शताब्द्याम् उज्जैन-नगरे अत्यन्त: प्रतापवान् चण्डप्रद्योत: आसीत् । अन्या: शासका: तस्मात् भीता: आसन् । तस्य दुहिता वासवदत्ता एवं वत्सनरेशस्य उदयनस्य प्रणयगाथा इतिहासप्रसिद्धा अस्ति । अपर: मगधसाम्राज्यस्य अपि अंश: अभवत् । महाकवि: कालिदास: उज्जैन-नगरस्य विक्रमादित्यस्य सभागृहस्य नवरत्नेषु एक: आसीत् । तम् उज्जैन-नगरं प्रियमासीत् । अत: उज्जैन-नगरस्य अत्यन्तं सुन्दरं वर्णनं कालिदासेन कृतमस्ति । राजा विक्रमादित्य: एव कालिदासस्य आश्रयदातृरूपेण विख्यातोऽस्ति । मालवा प्रदेशं प्रति गहना आस्था महाकविकालिदासस्य आसीत् । उज्जैन-नगरे एव तस्य अत्यधिक: प्रवासकाल: व्यतीत: जात: । अत्र एव कालिदासेन उज्जैन-नगरस्य प्राचीनम् एवं वैभवशालि: वैभवं द्रष्टम् । अत्रत्याया: अट्टालिकाया:, उदयनवासवदत्तयो: प्रणयकथा, भगवत्शङ्करस्य सांयकालीनारार्तिक्यं तथा क्षिप्रानद्या: पौराणिकं महत्वम् अपि ज्ञातम् । “मेघदूते” महाकविकालिदासेन उज्जैन-नगरस्य वर्णने उक्तं यत् – यदा स्वर्गीयानां जनानां स्वस्य पुण्यक्षीणस्थितौ पृथ्वीं अवतरणमभवन् तदा तेभ्य: विचारितं यत् स्वर्गस्य एक: खण्ड: अपि आनयाम: तदेव स्वर्गखण्ड: उज्जैन-नगरम् । कालिदासस्य मेघदूते यद्यपि उज्जैन-नगरस्य वैभवं लुप्तं जातं तथापि विश्वस्मिन् उज्जैन-नगरस्य धार्मिकपौराणिकैतिहासिकमहत्वं तथा ज्योतिषक्षेत्राय अपि प्रसिद्धोऽस्ति । तस्य स्थानं भारतस्य सप्तपुराणप्रसिद्धासु नगरीषौ वर्तते । अस्मिन् नगरे सिंहस्थकुम्भमहापर्वणि अनेका: भक्तजना:, साधव:, महात्मान: मोक्षार्थम् आगच्छन्ति ।

प्रामाणिक: इतिहास:[सम्पादयतु]

उज्जैन-नगरस्य ऐतिहासिकता ६०० ईस्वी पूर्वे प्राप्यते । तस्मिन् समये भारते १६ जनपदानि आसन् । तेषु अवन्तिजनपदम् अपि एकमासीत् । अवन्त्या: द्वौ विभागौ आस्ताम् । उत्तरी-दक्षिणञ्च । उत्तरविभास्य केन्द्रं उज्जैन-नगरम् आसीत् अपर: दक्षिणभागस्य महिष्मति: । तत्समये चन्द्रप्रद्योत: नामक: सम्राट् आसीत् । प्रद्योतवंशजानां तृतीयशताब्दिपर्यन्तं प्रभुत्वमासीत् ।

मौर्यवंशस्य साम्राज्य:[सम्पादयतु]

चन्द्रगुप्त: अत्र आगतवान् । अस्य पुत्र: अशोक: राज्यपाल: आसीत् । तस्य एका पत्नि: वेदिसादेवि: । तस्या: महेन्द्रसंघमित्रौ एतौ द्वौ सन्तती प्राप्तवान् । याभ्यां बौद्धधर्मस्य प्रचार: श्रीलङ्का-देशे कृत: । मौर्यसाम्राज्यस्य अभ्युदयात् परं मगधराज्ञः बिन्दुसारस्य पुत्रः अशोकः उज्जैन-नगरकाले नियुक्तः जातः । बिन्दुसारस्य मरणोपरान्तः अशोकेन शासनं कृतम् । अशोकेन उज्जैन-नगरस्य विकासः कृतः । अशोकात् परम् अनेकानां राज्ञाम् आवागमनमभवत् ।

मौर्य-साम्राज्यस्य नाशः[सम्पादयतु]

मौर्य-साम्राज्यस्य नाशात् परं उज्जैन-नगरं शकानां सप्तवाहनानां प्रतिस्पर्धायाः केन्द्रमभूत् । विक्रमादित्यराज्ञा शकानाम् आक्रमणं विफलं कृतम् । कालान्तरं वैदेशिकेभ्यः पश्चिमिशकेभ्यः उज्जैन-नगरं जितम् । “चष्टान”, “रूद्रदमन” इमौ द्वौ अस्य वंशस्य प्रतापिनौ महाक्षत्रपौ सिद्धौ ।

गुप्त-साम्राज्यः[सम्पादयतु]

चतुर्थशताब्द्यां गुप्तेभ्यः औलिकरेभ्यः च् मालवा-प्रान्तात् एषां शकानां सत्ता नष्टीकृता । शकगुप्तानां काले अस्य अद्वितीयः आर्थिकम् औद्योगिकं च विकासः जातः । सप्तमशताब्द्यां नगरस्य सर्वाङ्गिणः विकासः जातः । ईस्वी ६४८ तमे वर्षे हर्षवर्धनस्य मृत्योः परं नवमशताब्दिपर्यन्तं “परमार” इत्येषाम् आधिप्त्ये उज्जैन-नगरम् आगतम् । तत्पश्चात् एकादशतमशताब्द्यां “तौमर-चौहान” इत्येषाम् अधिकारे उज्जैन-नगरम् आगतम् । १००० तः १३०० ईस्वी पर्यन्तं मालवा-प्रदेशे परमार-इत्येषां शासने अभूत् । दीर्घकालं यावत् तस्य केन्द्रं उज्जैन-नगरम् आसीत् । अस्मिन् काले सीयक-द्वितीयः, मुंजदेवः, भोजदेवः, उदयादित्यः, नरवर्मनः एतादृशेभ्यः शासकेभ्यः साहित्यकलासंस्कृतीनाम् अभूतपूर्वा सेवा कृता ।

दिल्ली-शासनम्[सम्पादयतु]

दिल्ली-नगरस्य दासानां “खिलजी सुल्तान” एतेषां आक्रमणेन परमार-इत्यस्य वंशस्य नाशः जातः । १२३५ ईस्वी तमे वर्षे दिल्ली-नगरस्य “शमशुद्दीन इल्तमिश”-इत्यनेन विदिशा नगरीं जित्वा उज्जैन-नगरे आगत्य सम्पत्तिं लुण्ठितम् । ततः परं धार्मिकस्थलानां वैभवमपि नष्टीकृतम् । १४०६ ईस्वी तमे वर्षे मालवा-प्रान्तः दिल्ली-शासनात् मुक्तो जातः । तस्य केन्द्रं माण्डु-इत्यस्मात् धोरी-इति अभवत् । ततः परम् ’अकबर-जहाँगीर-शाहजहाँ-औरङ्ग्जेब’ इत्यादयः अत्र आगताः ।

मराठा-इत्येषामधिकारः[सम्पादयतु]

१७३७ ईस्वी तमे वर्षे उज्जैन-नगरं सिंधिया-वंशजानाम् अधिकारे आगतम् । सिंधिया-वंशस्य केन्द्रम् उज्जैन-नगरमभवत् । राणोजी सिंधिया इत्यनेन महाकालेश्वरमन्दिरस्य जीर्णोद्धारः कारितवान् । अस्य वंशस्य संस्थापकस्य राणोजी शिन्दे इत्यस्य मन्त्रिणं रामचन्द्र-शेणवी इत्येनं वर्तमानस्य मन्दिरस्य निर्माणं कारितवान् । १८१० ईस्वी तमे वर्षे सिंधिया-इति इमं केन्द्रं ग्वालियर-नगरं प्रति नीतं किन्तु उज्जैन-नगरस्य सांस्कृतिकः विकासः निरन्तरमभवत् । १९४८ तमे वर्षे ग्वालियर-राज्यस्य नवीने मध्यभारते विलयो जातः ।

उज्जैन-नगरे विक्षणीयस्थलानि[सम्पादयतु]

उज्जैन-नगरे अद्यापि अनेकानि धार्मिकपौराणिकैतिहासिकानि स्थानानि सन्ति । येषु महाकालेश्वरः, गोपालमन्दिरः, चौबिस खम्बादेवी, चौसठ योगिनी, नगर कोट की रानी, हरसिद्धिमां, गढकालिका, कालभैरवः, विक्रान्तभैरवः, मङ्गलनाथः, सिद्धवटः, बोहरो का रोजा, बिना नींव की मस्जिद, गजलक्ष्मिमन्दिरः, बृहस्पतिमन्दिरः, नवग्रहमन्दिरः, भूखी माता, भर्तृहरि गुफा, पीरमछन्दरनाथ समाधिः, कालियादेह पैलेस, कोठी महल, घण्टाघर, जन्तर-मन्तर महल, चिन्तामन गणेशः आदीनि प्रमुखानि स्थानानि सन्ति।

अद्यतनम् उज्जैन-नगरम्[सम्पादयतु]

अद्यतनम् उज्जैन-नगरं विन्ध्यमालायाः तथा पवित्रा-ऐतिहासिकी-क्षिप्रानद्यास्तटे सिन्धुतलात् १६७८ फीट उपरि २३°५०’ उत्तरदेशांशे तथा ७५°५०’ पूर्व-अक्षांशे स्थितम् अस्ति । नगरस्य तापमानः वातावरणञ्च समशीतोष्णम् अस्ति । अत्रत्या भूमिः उपजा अस्ति । कविकालिदासेन बाणभट्टेन च नगरस्य सुन्दरता निरूपिता कृता । कालिदासेन लिखितम् अस्ति यत् संसारस्य सर्वाणि रत्नानि उज्जैन-नगरे एव अस्ति । सिन्धुभिः समीपे तु केवलं जलम् एव । उज्जैन-नगरस्य एवं अञ्चल-नगरस्य भाषा मधुरा मालवी इति इयम् अस्ति । उज्जैन-नगरम् अनेकानां परिवर्तनानां साक्षिः अस्ति । क्षिप्रानद्यास्तटे तु प्राकृतिकसौन्दर्यस्य दर्शनम् एव विशिष्टमस्ति । उज्जैन-नगरस्य दक्षिण-पूर्वी-इत्यस्मात् पक्षात् क्षिप्रानद्या प्रवेशं कृत्वा प्रत्येकैः स्थानैः सह स्वस्य सम्बन्धः स्थापितः कृतः। अत्र त्रिवेण्यां नवग्रहमन्दिरम् अस्ति । इदानीं यम् उज्जैन-नगरम् इति नाम्ना विख्यातोऽस्ति सः भूतकाले अवन्तिक, उज्जयिनी, विशाला, प्रतिकल्पा, कुमुदवती, स्वर्णश्रृङ्गा, अमरावती इत्यादीभिः नामभिः अभिहितः आसन् । मानवसभ्यतायाः प्रारम्भादेव इदं नगरं भारतस्य एकं तीर्थस्थलरूपेण विकसितः आसीत् । सप्तपुरीषु इदं मोक्षदायकं एकं मन्यते ।

उज्जैन-नगरस्य गौरवम्[सम्पादयतु]

उज्जैन-नगरस्य महाकालेश्वरमन्दिरं द्वादशज्योतिर्लिङ्गेषु एकम् अस्ति । महाकालेश्वरमन्दिरस्य माहात्म्यं विभिन्नेषु पुराणेषु विस्तृतरूपेण वर्णितमस्ति । उज्जैन-नगरं भारतस्य कालगणनायाः केन्द्रबिन्दुः आसीत् एवं च महाकालः उज्जैन-नगरस्य अधिपतिदेवः मन्यते । महाकालेश्वरस्य मूर्तिः दक्षिणमुखिः अस्ति । महाकालेश्वराय एव द्वादशज्योतिर्लिङ्गेषु तांत्रिकपरम्परायां दक्षिणमुखिपूजायाः महत्वं प्राप्तम् । तृतीये खण्डे तु नागचन्द्रेश्वरस्य मूर्त्याः दर्शनं नागपञ्चम्याः दिवसे एव भवति । इदं मन्दिरं महाकालसमितेः तत्वाधाने संरक्षितम् अस्ति ।

श्री बडे-गणेशमन्दिरम्[सम्पादयतु]

श्रीमहाकालेश्वरमन्दिरेण समीपे हरसिद्धिमार्गे बडे-गणेशस्य भव्यकलापूर्णमूर्तिः प्रतिष्ठितः अस्ति । अस्याः मूर्त्याः निर्माणं पद्मविभूषणस्य पं. सूर्यनारायणव्यासस्य पित्रा विदुषा स्व. पं. नारायणव्यासेन कृतम् अस्ति । सप्तधातोः निर्मिता पञ्चमुखिहनुमत्प्रतिमा, नवग्रहाणां मन्दिरम् तथा कृष्णयशोदयोः प्रतिमे अपि विराजिताः सन्ति ।

मङ्गलनाथ-मन्दिरम्[सम्पादयतु]

पुराणानामनुसारेण उज्जैन-नगरीं मङ्गलस्य जननीं उच्यते । येषां जनानां कुण्डल्यां मङ्गलः अनिष्टः स्यात् , ते सर्वे जनाः अनिष्टदोषात् निवृत्यर्थम् अत्र पूजनं कारयति । यद्यपि मङ्गलभगवतः बहूनि मन्दिराणि सन्ति किन्तु उज्जैन-नगरम् अस्य जन्मस्थानं वर्तते अतः महत्वम् अपि अधिकम् अस्ति । वद्न् अस्ति यत् इदं मन्दिरं अतीव पुरातनमस्ति । सिंधियावंशजेभ्यः अस्य पुनर्निर्माणं कारितम् । उज्जैन-नगरं महाकालस्य नगरी इति उच्यते अतः जनाः अत्र मङ्गलनाथस्य भगवतः शिवरूपात्मका प्रतिमायाः पूजनं कुर्वन्ति । प्रतिमङ्गलवासरे अत्र बहवः भक्तजनाः आगच्छन्ति ।

हरसिद्धिदेवी[सम्पादयतु]

उज्जैन-नगरस्य धार्मिकस्थलेषु हरसिद्धिदेव्याः मन्दिरं प्रमुखः अस्ति । चिन्तामनगणेशमन्दिरात् किञ्चित् दूरे तथा रूद्रसागरतडागस्य तटे इदं मन्दिरं स्थितमस्ति । राजा विक्रमादित्यः अस्याः देव्याः पूजनं करोति स्म । वैष्णवसम्प्रदायस्य आराध्यदेवी इयं हरसिद्धिदेवी । शिवपुराणानुसारेण दक्षयज्ञात् परं सतिदेव्याः कीला (Elbow) अत्र पतिता ।

क्षिप्रा तटम्[सम्पादयतु]

उज्जैन-नगरस्य धार्मिकस्वरूपे क्षिप्रानद्याः तटानां प्रमुखं स्थानं वर्तते । नद्याः दक्षिणतटे नगरं स्थितमस्ति, तत्र तटाः स्नानार्थिनां कृते सोपानयुताः सन्ति । विभिन्नानां देवतानां नूतनानि पुरातनानि च मन्दिराणि अपि स्थितानि सन्ति । सिंहस्थमहापर्वणि यदा बहवः भक्तजनाः स्नानं कुर्वन्ति तदा एषां गौरवं दृश्यते ।

गोपाल-मन्दिरम्[सम्पादयतु]

गोपालमन्दिरम् उज्जैन-नगरस्य विशालमन्दिराणां क्रमे द्वितीयमस्ति । इदं मन्दिरं नगरस्य व्यस्ततमक्षेत्रे स्थितमस्ति । अस्य मन्दिरस्य निर्माणं दौलतराव-सिंधिया इत्यस्य महिषी बायजाबाई-इत्यनया ईस्वी सन् १८३३ तमे वर्षे कारितम् । कृष्णस्य (गोपाल) मूर्तिः मन्दिरेऽस्मिन् वर्तते । रजतयुतानि द्वाराणि अस्य मन्दिरस्य आकर्षणकेन्द्राणि सन्ति ।

गढकालिकादेवी[सम्पादयतु]

गढकालिकादेवी मन्दिरम् उज्जैन-नगरस्य प्राचीने अवन्तिकाक्षेत्रे स्थितमस्ति । कविकालिदासः गढकालिकदेव्याः उपासकः आसीत् । राज्ञा हर्षवर्धनेन अस्य मन्दिरस्य जीर्णोद्धारः कारितः एतादृक् उल्लेखः प्राप्यते । शासनकाले ग्वालियर-प्रान्तस्य महाराज्ञा अस्य मन्दिरस्य पुनर्निर्माणं कारितम् ।

भर्तृहरि-गुफा[सम्पादयतु]

भर्तृहरि-गुफा इत्ययम् एकादशशताब्द्याः एकस्य मन्दिरस्य अवशेषः वर्तते, यस्य उत्तरवर्तिसमये पौनः पुन्येन जीर्णोद्धारः भवति स्म ।

कालभैरवः[सम्पादयतु]

कालभैरवस्य मन्दिरम् इदानीम् अवन्तिकानगर्यां अस्ति । मन्दिरेऽस्मिन् कालभैरवस्य विशालमूर्तिः अस्ति । वदन् अस्ति यत् अस्य मन्दिरस्य निर्माणं प्राचीनकाले राज्ञा भीमसेनेन कारितम् । पुराणेषु वर्णितेषु भैरवेषु एकः कालभैरवः अस्ति ।

सिंहस्थकुम्भपर्व[सम्पादयतु]

सिंहस्थकुम्भपर्व उज्जैन-नगरस्य महत्स्नानपर्व वर्तते । प्रतिद्वादशवर्षेषु यदा बृहस्पतिः सिंहराशौ स्थितः भवति तदा पर्वेदम् आमनति । पर्वणः स्नानस्य आरम्भः चैत्रमासस्य पूर्णिमातः वैशाखमासस्य पूर्णिमापर्यन्तं प्रचलति । भारतदेशे चतुर्षु स्थानेषु कुम्भपर्वणः आयोजनं भवति । उज्जैन-नगरे पर्वणः आयोजनं सूर्यस्य मेषराशौ प्रवेशात् तथा बृहस्पतेः सिंहराशौ प्रवेशात् भवति, अतः “सिंहस्थ” इति नाम्ना प्रख्यातोऽस्ति । सिंहस्थायोजनस्य एका प्राचीना परम्परा अस्ति । अनेकाः कथाः प्रचलिताः सन्ति । अमृतबिन्दूनां विनिपाते काले सूर्यः, चन्द्रः, बृहस्पतिः एतेषां स्थितिः यादृशी आसीत् तदेव इदानीम् अपि विशिष्टयोगानां काले कुम्भपर्वणः आयोजनं भवति ।