सदस्यः:Udit Sharma/प्रयोगपृष्ठम्/3

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


चिमनलाल जगजीवनराम पण्ड्या इत्ययं गुजरातराज्यस्य व्याकरणाचार्यः आसीत् । सम्पूर्णे गुजरात-राज्ये तस्य ख्यातिः वर्तते । तेन पारम्परीकरीत्या संस्कृतव्याकरणस्य अध्ययनं कृतम् आसीत् ।

जन्म[सम्पादयतु]

१९१३ तमे वर्षे दिसम्बर-मासे चिमनलाल जगजीवनराम पण्ड्या इत्यस्य जन्म अभवत्[१]। तस्य जन्म वडोदरा-नगरस्य समीपे भादरवा-नामके लघुग्रामे अभवत् ।

शिक्षणम्[सम्पादयतु]

चिमनलाल पण्ड्या इत्यनेन स्वग्रामे षष्ठीं कक्षां यावत् अध्ययनं कृतम् आसीत् । तदनन्तरं सः डाकोर-नगरं प्राप्तवान् । डाकोर-नगरे डाकोर-संस्कृतपाठशालायां पञ्चवर्षाणि यावत् सः अधीतवान्[२] । तस्यां पाठशालायां तेन व्याकरणसाहित्यदर्शनप्रभृतीनां विषयाणाम् अध्ययनं कृतम् । ततः परं सः पेटलाद-नगरं गतवान् । पेटलाद-नगरे नारायणसंस्कृतपाठशालायां सार्धवर्षपर्यन्तं सः तत्र अधीतवान् । व्याकरणे तस्य अभिरुचिः आसीत् । अतः तत्रापि तस्य विषयः व्याकरणम् एव आसीत् । तत्पश्चात् अहमदाबाद-नगरस्य अमदाबाद-संस्कृतपाठशालायाम् अध्ययं कृत्वा १९२९ तमे वर्षे 'काव्यतीर्थ' इति नामिका परीक्षा उत्तीर्णा कृता[३]

तदनन्तरं सः विशेषाध्ययनाय काशी-नगरं गतवान् आसीत् । तत्र बिरला-विद्यालये व्याकरणशास्त्रस्य अध्ययनम् आरब्धवान् । बिरला-विद्यालयस्य निखिलः, पण्डित धौरेय, वाग्मिवरेण्य पण्डित सभापति शर्मोपध्यायः इत्यादिभ्यः अध्यापकेभ्यः व्याकरणशास्त्रं पठितवान् [४]। १९३२ तमे वर्षे सम्पूर्णव्याकरणशास्त्रस्य मध्यमापरीक्षायां सः प्रथमश्रेण्याम् उत्तीर्णः जातः । १९३५ तमे वर्षे नव्यव्याकरणशास्त्रे शास्त्रिपरीक्षायां प्रथमश्रेण्याम् उत्तीर्णः जातः ।

१९३८ तमे वर्षे नव्यव्याकरणशास्त्रस्य आचार्यपरीक्षायां सः द्वितीयश्रेण्याम् उत्तीर्णः अभवत् । तदनन्तरं १९४० तमे वर्षे दर्शनशास्त्रस्य मध्यमापरीक्षायाः द्वितीयखण्डे द्वितीयश्रेण्याम् उत्तीर्णः जातः[५] । चिमनलाल पण्ड्या इत्यस्य शैक्षणिकयोग्यतां दृष्ट्वा तत्रत्यः व्याकरणाचार्यः पण्डित बालकृष्ण पञ्चोली इत्ययं प्रसन्नः जातः । तदा मणिलाल छबाराम भट्ट इत्ययम् अमदाबाद-संस्कृतपाठशालायाः मन्त्री आसीत् । पण्डित बालकृष्ण पञ्चोली इत्यस्य प्रेरणया मणिलाल छ्बाराम भट्ट इत्यनेन चिमनलाल पण्ड्या इत्यस्मै अध्ययनाय शिष्यवृत्तिः प्रदत्ता[६]

अध्यापनकार्यम्[सम्पादयतु]

चिमनलाल पण्ड्या इत्ययम् अध्ययनं समाप्य १९४० तमे वर्षे गुजरात-राज्यम् आगतवान् । १९४० तः १९६१ तमवर्षपर्यन्तं सः अहमदाबाद-नगरस्य श्रीकाशीविश्वनाथसंस्कृतमहाविद्यालये शास्त्रि-आचार्यकक्षायोः व्याकरणशास्त्रं पाठितवान्[७]

१९६१ तः १९७४ तमवर्षपर्यन्तं तेन अनेकेषु स्थानेषु अध्यापनं कृतम् । यथा – ब्रह्मचारी वाडी संस्कृत पाठशाला, भो. जे. विद्याभवन-अहमदाबाद, गुजरात युनिवर्सिटी-अहमदाबाद[८] । १९८० तमात् वर्षात् सः भाविन संस्कृतपाठशालायां संस्कृतव्याकरणस्य अध्यापकत्वेन कार्यं कृतवान्[९]

लेखनसाहित्यानि[सम्पादयतु]

चीमनलाल जगजीवनराम पण्ड्या इत्यनेन स्वस्य जीवने बहवः लेखाः लिखिताः । तस्य लेखनशैली अपि बहुसरला आसीत् । व्याकरणशास्त्रस्य ज्ञानेन तस्य लेखेषु सरलता, लघुवाक्यता च आसीत् ।

  • चीमनलाल पण्ड्या इत्यनेन 'व्यापारमुख्य विशेष्यकशब्दबोध' इति नामकः लेखः लिखितः आसीत् । अस्य लेखस्य विषयः व्याकरणम् आसीत् । अस्य लेखस्य भाषा अपि संस्कृतम् एव आसीत् । [१०]१९६६ तमे वर्षस्य जनवरी-मासे 'बडौदा श्रीमान् सयाजीराव विश्वविद्यालयेन' 'सुरभारती' इत्यस्य त्रैमासिकस्य मुखपत्रस्य सुवर्णजयन्तीविशिष्टाङ्के प्रकाशनं कारितम् आसीत् ।
  • 'दुष्काले दीनोद्धारः' इति नामकः लेखः अपि व्याकरणविषयकः आसीत् । अस्य लेखस्य भाषा अपि संस्कृतम् एव आसीत् । [११]१९७२ तमे वर्षे 'श्रीबृहद् गुजरात् संस्कृत परिषद्' अहमदाबाद-९ इत्यनेन प्रचालिते 'साम्मनस्यम्' नामके मुखपत्रे अयं लेखः प्रकाशितः जातः ।
  • १९७४ तमस्य वर्षस्य दिसम्बर-मासस्य २६ तः २८ दिनाङ्कपर्यन्तं 'ऑल् इण्डिया ओरिएण्टल् कोन्फरन्स्' इत्यस्य २७ तमम् अधिवेशनम् अभवत् । तस्मिन् अधिवेशने चीमनलाल पण्ड्या इत्यनेन 'विध्यर्थविचारः' नामकः व्याकरणविषयकः एकः लेखः लिखितः । [१२]१९७६ तमे वर्षे 'श्रीबृहद् गुजरात् संस्कृत परिषद्' अहमदाबाद-९ इत्यनेन प्रचालिते 'साम्मनस्यम्' नामकं मुखपत्रे अयं लेखः प्रकाशितः जातः ।
  • 'सूत्रे लिङ्गवचनमतन्त्रम्' इति नामकः व्याकरणविषयस्य लेखः लिखितः आसीत् । अस्य लेखस्य गुजराती-भाषा आसीत् । [१३]१९७६ तमस्य वर्षस्य अक्टूबर-मासे बडौदा प्राच्य विद्यामन्दिर (महाराजा सयाजीराव विश्वविद्यालय) इत्यनेन 'स्वाध्याय' नामकस्य मुखपत्रस्य दीपोत्सवाङ्के प्रकाशनं कारितम् आसीत् ।
  • डॉ. वी. राघवन इत्ययं मद्रास-विश्वविद्यालये संस्कृतविभागस्य अध्यक्षत्वेन, प्राध्यपकत्वेन च कार्यं करोति स्म । तेन संस्कृतसाहित्यक्षेत्रे महत्वपूर्णं योगदानं प्रदत्तमासीत् । [१४]१९७० तमस्य वर्षस्य अप्रैल-मासस्य पञ्चदिनाङ्के डॉ. वी राघवन इत्यस्य मृत्युः जातः । अतः चिमनलाल पण्ड्या इत्यनेन डॉ. वी राघवन इत्यस्मै श्रद्धाञ्जलिं दातुं 'श्रद्धाञ्जलिः' नामकः लेखः लिखितः । तेन गुजराती-भाषायाम् अयं लेखः लिखितः आसीत् । [१५]१९७६ तमस्य वर्षस्य जून-मासे अमदाबाद-गुजरात-विद्यासभा इत्यनेन 'बुद्धिप्रकाश' इत्यस्मिन् मुखपत्रे प्रकाशनं कारितम् आसीत् ।
  • चीमनलाल पण्ड्या इत्यनेन 'पाणिनीय व्याकरण का महत्त्व तथा उनके प्रधान पण्डित' इति नामकः लेखः लिखितः आसीत् । अयं लेखः संस्कृतभाषायां लिखितः ।[१६] पेटलाद-राजकीय संस्कृत पाठशाला इत्यस्याः वार्षिकोत्सवस्य निमित्ते 'संस्कृत-सौरभ' नामके अङ्के प्रकाशितः जातः ।

प्राप्तानि सम्मानपत्राणि[सम्पादयतु]

  • १९७६ तमस्य वर्षस्य फरवरी-मासस्य चतुर्थदिनाङ्के बृहद् गुजरात संस्कृत परिषद्, अहमदाबाद-९ इत्यनया संस्थया एकस्य कार्यक्रमस्य आयोजनं कृतम् आसीत् [१७]। तस्मिन् कार्यक्रमे गुजरात-राज्यस्य तत्कालीनः राज्यपालः श्रीमन्नारायणः अपि आगतवान् आसीत् । तेन एव चीमनलाल पण्ड्या इत्ययम् असाधारणविद्वत्तायाः सम्माननं प्राप्तवान् ।
  • महागुजरात वेद पुराणोक्त कर्मकाण्ड प्रचारक सभा, अहमदाबाद इत्यनया संस्थया आयोजिते कार्यक्रमे मुख्यातिथिरूपेण व्याकरणवेदान्तायुर्वेदाचार्यः, नव्यन्यायशास्त्री स्वामीश्री रामेश्वरपुरी-महाराजः आगतवान् आसीत्[१८] । छात्रान् पाठनार्थं, संस्कृतविद्यायाः सेवार्थं च चीमनलाल पण्ड्या इत्ययं रामेश्वरपुरी-महाराजेन सम्माननं प्राप्तवान् आसीत् ।

प्रदत्तानि व्याख्यानानि[सम्पादयतु]

  • १९७७ तमे वर्षस्य जूनमासस्य ५-६ दिनाङ्के[१९] आयोजिते 'गुर्जर राज्य संस्कृत सम्मेलन' इत्यस्य प्रसङ्गे संस्कृतविद्यायाः विकासाय संस्कृतभाषायां चीमनलाल पण्ड्या इत्यनेन व्याख्यानं प्रदत्तम् आसीत् ।
  • 'श्रीरामायण प्रचार समिति, रामभवन, अहमदाबाद-१' इत्यनेन आयोजिते कार्यक्रमे[२०] चीमनलाल पण्ड्या इत्यनेन 'सत्कर्म प्राधान्यम्' इत्यस्मिन् विषये व्याख्यानं प्रदत्तमासीत् ।

व्यक्तित्वम्[सम्पादयतु]

चीमनलाल पण्ड्या इत्यस्य व्यक्तित्वं सरलम् आसीत् । तस्य स्वभावः अपि सामान्यं, सुष्ठुतरं च आसीत् । विद्यार्थिनः तस्मात्पठितुमिच्छान्ति स्म । यतः तस्य भाषाशैली अपि सरला, शुद्धा च आसीत् ।

सन्दर्भाः[सम्पादयतु]

  1. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 10. 
  2. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 10. 
  3. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 10. 
  4. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 10. 
  5. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 10. 
  6. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 10. 
  7. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 10. 
  8. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 11. 
  9. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 11. 
  10. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 11. 
  11. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 11. 
  12. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 11. 
  13. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 11. 
  14. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 12. 
  15. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 12. 
  16. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 12. 
  17. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 12. 
  18. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 12. 
  19. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 12. 
  20. चिमनलाल जगजीवनराम पण्ड्या (1982). संस्कृत व्याकरण शास्त्र लघु इतिहास . भाविन विद्याविहार संस्कृत पाठशाला, नारणपुरा, अहमदाबाद-१३. p. 12.