सदस्यः:Udit Sharma/प्रयोगपृष्ठम्/4

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

घोषा ऋग्वेदानुसारम् एका महिला ऋषिः आसीत् । ऋग्वेदस्य दशममण्डलस्य एकोनचत्वारिंशत्तमे, चत्वारिंशत्तमे च सूक्ते घोषा-ऋषिकायाः चरित्रचित्रणं प्राप्यते । घोषया स्वयमेव एते मन्त्राः द्रष्टाः, ऋग्वेदे प्रदत्ताः च । वैदिककालीनासु विदुषीषु अस्याः गणना क्रियते । इयं ब्रह्मवासिनी इत्यपि ज्ञायते । सा दीर्घतमस् ऋषेः पौत्री, कक्षीवतः पुत्री च आसीत् । कक्षीवान् आश्रमे निवसति स्म । घोषा अपि पितुः सहैव आश्रमे निवसति स्म । आश्रमवासिनः ऋषयः, सेवकाः च घोषायै स्नेहं कुर्वन्ति स्म । सा बाल्यावस्थायाः एव कुष्टरोगेन पीडीता आसीत् । शरीरे विकृतिः आसीत्, अतः कोऽपि जनः तया सह विवाहं कर्तुं नेच्छति स्म । तेन कारणेन वृद्धावस्थापर्यन्तं सा अविवाहिता एव आसीत् । एकदा सा एकाकी एव उपविशन्ती आसीत्, तदा तया विचारिता यत् – “तस्याः पिता कक्षीवान् उत्तलोकप्राप्त्यर्थम् अश्विनीदेवतानां स्तुतिम् अकारयत्” । पितुः प्रेरणया तया अपि दुःखरोगदुर्भाग्यादीनां निवारणार्थम् अश्विनीदेवतानां स्तुतिः कृता । यदा सा तपस्यां कुर्वती आसीत्, तदा सा षष्ठीवर्षदेशीया आसीत् । षष्ठीतमे वर्षे तया साधनायां मन्त्राः द्रष्टाः । अतः सा मन्त्रद्रष्टा इति उपाधिं प्रापत् । तपस्यानन्तरम् अश्विनीकुमारौ प्रसन्नौ जातौ । अश्विनीकुमाराभ्यां घोषायै यौवनस्य, निरोगस्य च वरं प्रदत्तम् । तेन सा कुष्टरोगात् मुक्ता जाता । तत्पश्चात् घोषायाः विवाहः अभवत्। सा सुहस्त्य-नामकं पुत्रम् अजीजनत् ।

वेदकालीनस्त्रीणां जीवनम् आकर्षकं भवति । वेदिककालीनासु स्त्रिषु घोषा अपि अन्यतमा वर्तते । सा अविवाहितानां प्रौढस्त्रीणां प्रतिनिधिः आसीत् । तया रचितयोः ऋग्वेदस्य सूक्तयोः प्रौढकुमारीणां भावना, दुःखः, समस्याः च स्पष्टतया प्रतिपादिता । पुरा कन्याः प्रौढावस्थायां सत्यपि किमर्थं विवाहं न कुर्वन्ति स्म ? तासां कन्यानां पितरौ विवाहस्य चिन्तां न कुर्वन्ति स्म ? इत्यादयः प्रश्नाः भवन्ति किन्तु तादृशः नासीत् । यथा वर्तमानकाले पितरौ बलादेव स्वस्य इच्छानुसारं कन्यायाः विवाहं कारयन्ति । किन्तु एतावत् पुरा नासीत् । वेदकाले पुरुषः स्वयमेव कन्यायाः मातृपितृभ्यां सह विवाहस्य चर्चां करोति स्म । तदा तौ पुरुषाय कथयतः स्म यत् – “भवान् स्वकौशलं दर्शयित्वा मम कन्याम् आकर्षयतु । मम कन्यायाः या इच्छा भविष्यति, तया इच्छया सह आवां समर्थौ स्वः । आवां तु केवलं मध्यस्थौ स्वः” इति । अतः एव यदि कन्या कोऽपि वरः न रोचते स्म । तदा सा अविवाहिता एव भवति स्म । अतः ऋग्वेदस्य दशममण्डलस्य सप्तविंशतितमे सूक्ते लिखितं यत् – भद्रा वधूर्भवति यत्सुपेशाः स्वयं सा मित्रं वनुते जने चित् । वेदिककाले कन्याः साक्षराः भवन्ति स्म । कन्या बुद्धिमती भवेत्, अतः गर्भवती स्त्री तिलतण्डुलान् पाचयित्वा खादति स्म । तेन कन्या सुन्दरी अपि भवति स्म । अथ य इच्छेत् मे दुहिता पण्डिता जायेत। तिलोदनौ पाचयित्वा अश्नीयातामिती ॥ यावत् कन्या इच्छति स्म, तावत् पठितुं शक्नोति स्म । अतः पठने मग्नायाः कन्यायाः मनसि विवाहस्य विचारः अपि न उद्भवति स्म । अतः एव बह्व्यः प्रौढाः वैदिककालीनाः कन्याः अविवाहिताः एव आसन् । तासु कन्यासु घोषा अपि विदुषी आसीत् ।