रघुवंशम्
रघुवंशम् महाकविकालिदासेन विरचितमेकं महाकाव्यमस्ति। रघुवंशम् एकोनविंशति-सर्गात्मकम् एकं लालित्यपूर्णं महाकाव्यं अस्ति महाकवेः कालिदासस्य । अत्र रघुवंशस्य कथा निबद्धा अस्ति । दशमसर्गादारभ्य पञ्चदशसर्गपर्यन्तं रामस्य कथा वर्णिता अस्ति । तदुत्तरं रामवंश्यानां तत्तनृपाणां चरितानि उपन्यस्तानि । अन्तिमः सर्गः अग्निवर्णस्य राज्याभिषेकेण समं समाप्यते । कालिदासः अग्निवर्णपरवर्तिनां राज्ञाम् अपि वर्णनं चिकीर्षति स्म , परम् असौ कालेन कवलीकृतः इति एकेषां मतम् । अन्ये पुनः कालिदासेन परतः अपि रघुवंशस्य सर्गाः लिखिताः; परन्तु ते न प्राप्यन्ते इत्याहुः । रघुवंशे येषां राज्ञां वर्णनानि सन्ति , तेषां रामायणवर्णितनृपैः सह भेदः आपतति , परन्तु वायुपुराण-वर्णितानुसारं रामवंशावल्या सह रघुवंशवर्णित - वंशावली भूयसा सामञ्जस्यं धारयति ।
एकोनविंशति (१९) सर्गेषु वर्णिता रघुवंशीयराज्ञां नामावलिः यथाक्रमम् अत्र उल्लिखिताः सन्ति । यथा-
|
|
|
एतेषु राजसु रामस्यैव वृत्तं सर्वाधिकसर्गेषु वर्णितमस्ति ।
कथा [सम्पादयतु]
रघुः सेनया सहितः वक्षुतीरं प्राप्य हूणैः म्लेच्छैः च सह अयुध्यत। विक्रमः रघुः तान् जितवान्। वक्षुं तीर्त्वा तस्य सेना कम्भोजान् अमिलत्। ते रघवे उपहारान् दत्तवन्तः। कालिदासः वक्षुतीरे स्थितान् अक्षोटवृक्षान् अपि वर्णितवान्।
महाकाव्यमिदं भारतीयसंस्कृतेः पूर्णं परिचयं ददाति। शास्त्री नित्यगोपाल काटारे