रङ्गारेड्डिमण्डलम्
| रङ्गारेड्डिमण्डलम् | |||||||
| रङ्गारेड्डि | |||||||
| — मण्डलम् — | |||||||
|
|
|||||||
|
|
|||||||
| निर्देशाङ्काः | |||||||
| देशः | भारतम् | ||||||
| राज्यम् | आन्ध्रप्रदेशराज्यम् | ||||||
| जनसङ्ख्या |
३,५७५ (2001[update]) • ४,७३,००० /km2 ( /sq mi) |
||||||
| व्यावहारिकभाषा(ः) | तेलुगु | ||||||
|---|---|---|---|---|---|---|---|
| समयवलयः | IST (UTC+05:30) | ||||||
| वायुमण्डलम् • तलस्पर्षी |
Aw (कॊप्पेन्) • ६०३ mm (. in) |
||||||
|
सङ्केताः
|
|||||||
| जालस्थानम् | rangareddy.ap.nic.in/ | ||||||
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
तेलङ्गाणाप्रान्तस्य प्रमुखनायकः के.वि. रङ्गारेड्डी नाम्ना १९७० प्रान्ते आविष्कृतमिदं रङ्गारेड्डी मण्डलम् ।
भौगोलिकम् [सम्पादयतु]
प्राच्यां नल्गोण्ड मण्डलम्, पश्चिमायां कर्णाटकराज्यम्, उत्तरे मेदक् मण्डलम्, दक्षिणे मेहबूबनगर मण्डलं च सीमायां वर्तन्ते । जनपदे ९.७% भूम्यां अरण्यं विद्यते ।
कृषिः वणिज्यं च [सम्पादयतु]
शतशः परिश्रमाः वर्तन्ते अत्र । भाग्यनगरसीमायां विद्यमानानि कर्मागाराणि अस्य मण्डलस्य परिधौ आयान्ति । “ ताण्डूरु” प्रान्ते सिमेण्ट्- कर्मागारः वर्तते । इष्टिकाः, शौचवाहकाः, जम्बालाः च उपलभ्यन्तेऽत्र । पिङ्गलमृत् फेलोपेन् क्वर्तज्, लैम्स्टोन् अपि उपलभ्यते । वृष्टिपातः अल्पः इत्यतः एरण्डादिसस्यानि अधिकानि भवन्ति । माषाः, मुद्गाः, पलाण्डुः, इत्यादीनां सेद्यं क्रियते कृषकैः । षामीर्पेटा, हकीम्पेटा इत्यादिप्रान्तेषु द्राक्षाणां सस्यं क्रियते । राजेन्द्रनगरे कृषि- विश्वविद्यालयः संस्थापितः १९६४ तमे वर्षे । अनन्तगिरिपर्वतोत्पन्ना मूसीनदी वाडपल्लिसमीपे कृष्णानद्यां विलीना भवति । अस्याः आलेरु इत्याख्या उपनदी अपि अस्ति । अस्मिन् आर्थिकतालूकात्रयं वर्तते । मण्डले महाविद्यालयाः “ उस्मानिया” विश्वविद्यालयस्य परिधौ चाल्यन्ते । माध्यमिककर्मागाराणाम् अधिकभागः अस्मिन् मण्डले एव विराजन्ते । मिथानी, हेच्. एम्. टि., इ.सि.ऐ. एल्, इत्यादिकेन्द्रसर्वकारसंस्थासु अधिकानाम् उपलब्धिः वर्तते । अनेन वाणिज्यरीत्या वर्धमानमिदं मण्डलम् ।