रजनीशः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
रजनीशः(ओशो)
राष्ट्रियता भारतीयः
क्षेत्राणि आध्यात्मिकता, रहस्यवादः
प्रशिक्षणम् सागरविश्वविद्यालयः
परम्परा जीवन-जागृति आन्दोलनम्
प्रमुखाणि कार्याणि Over 600 books, several thousand audio and video discourses
एतेषां प्रेरकः खुशवन्त सिंहः, राहुल् शर्मा[१] Milind Date, विनोद खन्ना,[२] अमृत प्रितम्, पीटर् स्लोटेर्डिज्क्[३][४]


आचार्यः रजनीशः

आचार्यः रजनीशचन्द्रमोहनः(११ डिसम्बर् १९३९-१९ जनवरी १९९०) "ओशो"About this sound उच्चारणम् नाम्ना प्रसिद्धः विश्वे । आध्यात्मिकक्षेत्रे स्वसिद्धान्तान् बोधयन्तः जनान् प्रेरयन्तः च आसीत्। भारते तथा अमेरिकादेशेच वासयतिस्म। प्रीतिः, ध्यानम्, तथा सन्तोषं जीवनस्य प्रमुखाः अंशाः इति अस्य अभिप्रायः।

जीवनवृत्तान्तम्[सम्पादयतु]

ओशो रजनीशः ११ डिसम्बर १९३९ तमे वर्षे भारतस्य मध्यप्रदेशस्य जबलपुर प्रान्ते अजायत। "ओशो” इति पदं लैटिन् भाषायाः "अशोनिक" पदात् स्वीकृतम् अस्ति। अस्य पदस्य "सागरे विलीनम्" (जायमानम्) इत्यर्थः। १९३० तमे दशके "आचार्य रजनीशः", "ओशो भगवान श्री रजनीशः"About this sound pronunciation इति वा प्रसिद्धिं प्राप्तवान् आसीत्। आचार्यः रजनीशः प्रसिद्धेषु आध्यात्मिक प्रवचनकारेषु गुरुषुच प्रसिद्धः आसीत्। आभारते तथा विदेशेषुच स्वसिद्धान्तप्रवचनानि दत्तानि आसीत्। सः दर्शनशास्त्रस्य अध्यापकः आसीत्। अस्य काश्चन विचारधाराः विवादोत्पादकाः आसन्। उदाहरणार्थं महात्मागान्धेः विचारधारान् यदा विमृष्टवान् ते अंशाः, संस्थागतधर्माणां विषये विमर्षाश्च सन्दिग्धाः आसन्। १९७० तमे संवत्सरे मुम्बई नगरे स्थितवान् आसीत्। तस्मिन् समये स्वशिष्येभ्यः सन्यासदीक्षां (नव सन्यास) दत्तवान् आसीत्। अस्मिन्नेव समयादारभ्य आध्यात्मिकमार्गदर्शकत्वेन कार्यारम्भं कृतवान् इति। स्वविचारधाराभ्यः दार्शनिकांशेभ्यः नूतनस्वरूपं दत्तवानासीत्। १९८० तमे वर्षे पुणेनगरे स्वाश्रमं स्थापितवान्। तदारभ्य देशीयाः विदेशीयाश्च शिष्याः संवर्धिताः। १९८० तमे वर्षे अमेरिका देशं गतवान्। तत्रत्य सन्यासिशिष्याः "रजनीशपुरम्” आश्रमं स्थापितवन्तः।

किशोरावस्था[सम्पादयतु]

अस्य मूलनाम चन्द्रमोहनः जैन आसीत्। ११ पुत्रेषु प्रथमः पुत्रः आसीत्। आचार्यः रजनीशः मध्यप्रदेशस्य, रायसेन जनपदे स्थिते कुचवाडा ग्रामे अजायत। अस्य पितरौ "श्री बाबुलालः सरस्वती जैनश्च" भवतः। तेरापन्थी जैनधर्मस्य अनुयायिकुटुम्बस्थाः आसन्। अस्य किशोरावस्था मातामहस्य गृहे आसीत्। अस्य सप्तमे वयसि मातामहः दिवङ्गतः। समनन्तरं "गाडरवाडा" प्रदेशे पितरौ सह आसीत्।

आचर्यस्य दश सिद्धान्ताः[सम्पादयतु]

आचार्यस्य मुम्बई नगरस्थ स्वगृहे ११ डिसम्बर १९७२ वर्षे जन्मदिनाचरणम्
  • १ अन्यस्य आज्ञां न पालयन्तु, यावत्पर्यन्तं सा स्वात्मकथिता न भवति।
  • २ नास्ति कश्चित् ईशः स्वास्मितापेक्षया।
  • ३ सत्यं स्वात्मनिहितम् अस्ति, अतः बहिरन्वेषणम्मास्तु।
  • ४ प्रीतिः एव प्रार्थना।
  • ५ शून्यभवनमेव सन्मार्गम्, स्वौपलब्धिश्च।
  • ६ जीवनम् सध्यः अत्रैव अस्ति।
  • ७ जीवनम् उत्सवतत् आचरतु ।
  • ८ निश्चलः मा भव, वर्धताम् ।
  • ९ प्रतिक्षणं मरणं प्राप्नोतु, तदा भवान् प्रतिक्षणं नूतनः।
  • १० तस्य अन्वेषणं नापेक्षितमेव, सः अत्रैव अस्ति। स्थीयतां दृश्यतां च ।

टिप्पणी[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=रजनीशः&oldid=282059" इत्यस्माद् पुनः प्राप्तिः