रागः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Sri Raga recital to Krishna-Radha, 19th century.jpg
योऽसौ ध्वनिविशेषस्तु स्वरवर्णविभूषितः ।
रञ्जको जनचित्तानां स च राग उदाहृतः ।।

रागः (Raga) नाम षड्जादीनां स्वराणां समूहः । सङ्गीतं स्वाराणाम् एका भाषा। प्रत्येकः स्वरः अन्तःकरणस्य भावतरङ्गान् प्रसारयति । स्वरसहिताः रागाः अनिर्वचनीयम् आनन्दं ददन्ति। रागरसयोः प्रत्यक्षसंबन्धं कल्पयितुं नशक्यते। तथापि भावनानां जागरणेन रसनिर्माणकार्ये कारणीभूताः रागाः। रसाभिव्यक्तेः कारणानि गायनशैली, योग्यः कण्ठस्वरः, उच्चारणम्, लयः, गीतशब्दानि तथा भावाः भवन्ति । विविधरागाणां श्रवणेन भिन्न भिन्न भावतरङ्गाः मनसि स्वविचारान् भावान् अभिव्यञ्जयन्ति । गम्भीरस्वरयुक्तैः शङ्करा, कामोद, केदाररागः,अढाण, हमीर तथा नटादि स्वरैः शान्तरसस्य उत करुणरसस्य निष्पत्तिः नभवति । एवमेव ॠजुस्वरैः श्रीरागः, भैरवी, जोगिया, आसावरिरागः, तोडिरागः, पीलु इत्यादिभिः रौद्ररसस्य उत वीररसस्य निष्पत्तिः नभवति । रागालापनेन तत्तत्त रागसम्बन्धित देवताः सन्तुष्टाः भवन्ति। उदाहरणार्थम्, शङ्करा, भैरवरागः, केदाररागःरागान् गायते चेत् शिवः तुष्टः भवति । "दीपकरागं" यदा "तानसेनः" गीतवान् तदा दीपः प्रज्वलितः आसीत् । बिलासखानि तोडिरागं यदा गीतवान् तदा मृतशरीरे नेत्रोऽन्मीलनक्रिया जाता इति ।

विभागः[सम्पादयतु]

प्रधान-अप्रधान, जन्य-जनक, प्राचीन-अर्वाचीन, घन-नय, मार्गि-देशि, मेळकर्त-मेळांतर्गत, राग-रागिणि, पुंराग-स्त्रीराग-नपुंसकराग इति रागान् विभागं कुर्वन्ति।

रागोत्पत्तिः[सम्पादयतु]

सामवेदात् स्वराः जाताः स्वरेभ्यो ग्रामसम्भवः।
ग्रामेभ्यो जातयो जाताः जातिभ्यो रागसम्भवः॥
सप्तस्वराः त्रयो ग्रामाः मूर्छनाश्चैकविंशतिः।
द्वाविंशतिश्च श्रुतयः एतेभ्यो रागसम्भवः॥

लक्षणानि[सम्पादयतु]

रञ्जयति मनांसीति रागास्ते दशलक्षणाः
मतङ्गमुनिः रागस्य दशलक्षणानि उक्तानि सन्ति।
ग्रहांशाः तारमन्द्रौच न्यासोपन्यास एव च।
अल्पत्वं च बहुत्वंच षाडवौडविते तथा॥ इति।

  • ग्रह- रागारम्भस्य नियमित स्थलम्।
  • अंश- रागस्य प्रधानम् उत जीवस्वरः। रागस्य स्पष्टतया निजस्वरूपनिरूपणे मुख्यः स्वरः
  • तार- सप्तके स्वरसञ्चारः।
  • मन्द्र- अधो सप्तके स्वरसञ्चारः।
  • न्यास- रागस्य अन्त्यस्वरः।
  • उपन्यास- रागस्य मध्ये मध्ये स्थगनस्थानम्।
  • अल्पत्व- रागे विरलतया उपयुज्यमानाः स्वराः।
  • बहुत्व- रागे पुनः पुनः उच्यार्यमाणाः स्वराः।
  • षाडव- ६ स्वराणां प्रयोगः।
  • ओडव- ५ स्वराणां प्रयोगः।

समयः[सम्पादयतु]

रागाः[सम्पादयतु]

प्रसिद्धाः रागाः भवन्ति।

भैरवरागः भैरवीरागः मालकंसरागः (बसन्त)वसन्तरागः आसावरिरागः भूपालिरागः
सारङ्गरागः हिण्डोलरागः गुजरितोडिरागः रामकलिरागः वागेश्वरीरागः खम्बावतीरागः
परजरागः भीम्पलासरागः श्रीरागः सोहनीरागः पूर्विरागः (बृन्दावनीसारङ्ग)बडहंसरागः
(मिया की तोडि) शुद्धतोडिरागः खटरागः (सोरट्)सोरठिरागः त्रिवेणीरागः मालवीरागः बङ्गालीभैरवरागः
(कुकुभ्)ककुभरागः पञ्चमरागः गौरीरागः (मल्हार)मेघरागः केदाररागः गुणकलिरागः
बिभासरागः

मतभेदाः[सम्पादयतु]

  • नारदमतम्

अस्य मतानुसारेण ८ मुख्याः रागाः सन्ति।

  1. भूपरागः- मेलावति, मल्हार, बहुलि
  2. भैरवरागः- देवक्रिय, पौरालि, काम्भारि
  3. श्रीरागः- काम्बोजि, भल्लाति, कुरञ्जिका
  4. पटमञ्जरि- देशि, मनोहरि, तुण्डीरागः
  5. वसन्तरागः- पराटि, द्राविडि, हंसि
  6. मालविगुण्डक्रिया, धूर्जरि, गौडि
  7. नाट- सारङ्गरागः, नटाख्य, अहिरि
  8. बङ्गाल- नारायणी, गान्धारि, रञ्जी
  • हनूमान् मतम्

अस्य मतानुसारेण ६ मुख्याः रागाः भवन्ति।

  1. भैरवरागः- मध्यमादी, भैरवीरागः, बङ्गाली, वराटी, सैन्धवी
  2. कौशिक- तोडीरागः, खम्बावतीरागः, गौडी, गुणक्री,ककुभरागः
  3. हिण्डोलरागः- भेलावली, रामकलिरागः, देशाख्य, पटमञ्जरी, ललितरागः
  4. श्रीरागः- वसन्तरागः, मालवीरागः, मालश्री, दनाश्री, आसावरिरागः
  5. मेघरागः- मल्हारि, देशकार, भूपालिरागः, गुर्जरि,टक्क
  • सोमेश्वरमतम्

स्वरचिते “सङ्गीतदर्पण” ग्रन्थे ६ मुख्याः रागाः इति लिखति।

  1. श्रीरागःमालवीरागः, त्रिवेणीरागः, गौडी, केदाररागः, मधुमाधवी, पहाडी
  2. वसन्तरागः- देशी, देवगिरी, वैराटी, तोडी, ललितरागः, हिण्डोलरागः
  3. भैरवरागः- भैरवीरागः, मध्यमादी, वराची, सैन्धवी, बङ्गाली, देवक्रिया
  4. पञ्चमरागः- बिभासरागः, भूपालिरागः, कर्नाटी, पटहंसिका, मालाश्री, पटमञ्जरी
  5. मेघरागः-मल्हारी, सोरठिरागः, सावेरी, कौशिकी, गान्घारी, हरशृङ्गार
  6. नट- कामोदी, कल्याणी,आभिरी, नाटिका, सालङ्गी, नट्टवीर

श्रव्यम्[सम्पादयतु]

दर्बारिकानडा

मुल्तानी

दुर्गा

यमन्(सितार्)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=रागः&oldid=236328" इत्यस्माद् पुनः प्राप्तिः