रागीधान्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विभिन्नानां वर्णानां रागीधन्यम्
रागीसस्यम्
रागीधान्यक्षेत्रम्

इदं रागीधान्यम् अपि भारते वर्धमानः कश्चन धान्यविशेषः । इदं रागीधान्यम् सस्यजन्यः आहारपदार्थः । रागीधान्यम् आङ्ग्लभाषायां Finger millet इति उच्यते । अस्य सस्यशास्त्रीयं नाम Eleusine coracana इति । बलवर्धकेषु आहारपदार्थेषु रागीधान्यं प्रथमपङ्क्तौ तिष्ठति । मल्लयुद्धकलायां निपुणाः प्रायः रागीपिण्डम् एव खादन्ति । इदं रागीधान्यं साक्षात् सर्षपः इव दृश्यते । कर्णाटकस्य चित्रदुर्गमण्डले, बेङ्गलूरुमण्डले, मैसूरुमण्डले च रागीधान्यम् एव प्रमुखम् आहारधान्यम् । लाञ्छनः, बहुदलकणिशः, गुच्छकणिशः इत्यागीनि रागीधान्यस्य अन्यानि नामानि ।

आयुर्वेदस्य अनुसारम् अस्य रागीधान्यस्य स्वभावः[सम्पादयतु]

रागीपिण्डम्
रागीश्राणा

एतत् रागीधान्यं रुचौ तिक्त-कषाय-मिश्रित-मधुररुचियुक्ता । रागीधान्यम् अत्यन्तं लेखना । अत्यन्तं बलवर्धकम् इति कारणतः श्रमिकाणां मुख्यः आहारः रागीधान्यम् ।

“रागी तु लाञ्छनः स्ताद्बहुदलकणिशश्च गुच्छकणिशश्च ।
तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥“
१. इदं रागीधान्यं नाधिकं मधुरम् इति कारणतः मधुमेहरोगिणः अपि सेवितुम् अर्हन्ति ।
२. रागीधन्यं निर्धनानाम् आहारः इत्येव प्रसिद्धं यतः न्यूनमूल्येन प्राप्यते ।
३. शिशूनां शरीरस्य वृद्ध्यर्थं रागीधान्यस्य श्राणां निर्माय खादयन्ति ।
४. रागीधान्यम् अत्यन्तं लेखनम् इति कारणतः उष्णप्रकृतियुक्ताः अधिकतया सेवन्ते चेत् वरम् ।
५. रागीधान्यमिदं रक्तदोषहारिणी ।
६. रागीधान्यं पित्तहारकम् अपि ।
७. रागीधान्यम् अत्यन्तं बलवर्धकम् ।
८. एतत् रागीधान्यं चूर्णीकृत्य क्षीरेण सह वा जलेन सह वा योजयित्वा उष्णीकृत्य, कुत्रचित् तथैव च पिबन्ति ।
९. रागीधान्येन पर्पटम्, अवदंशं, श्राणां, पिण्डं च निर्मान्ति ।‎
"https://sa.wikipedia.org/w/index.php?title=रागीधान्यम्&oldid=301300" इत्यस्माद् प्रतिप्राप्तम्