रागीपानीयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उष्णीकृतं रागीपानीयम्

एतत् रागीपानीयं भारते अपि पीयमानं किञ्चित् पेयम् अस्ति । एतत् रागीपानीयम् कदाचित् उष्णं, कदाचित् शीतलं पीयते । एतत् रागीपानीयम् अपि सस्यजन्यः आहारपदार्थःरागीधान्यं स्वच्छीकृत्य रागीपिष्टं निर्मीयते । ततः तेन पिष्टेन रागीपानीयं निर्मीयते । रागीपानीयं काफीपेयस्य, चायस्य स्थाने अपि पीयते । आरोग्यार्थम् अपि रागीपानीयं काफीपेयस्य चायस्य वा अपेक्षया उत्तमम् । रागीपानीयस्य निर्माणम् अपि अतीव सुलभम् । रागीपिष्टं दुग्धं, जलं, गुडं, शर्करां वा योजयित्वा सम्यक् क्वथनीयं तावदेव । अनन्तरं पातुं शक्यते । कुत्रचित् रागीधान्यं भर्जयित्वा अपि पिष्टं निर्मान्ति । शैत्यकाले, शैत्यप्रदेशे च एवम् उष्णं रागीपानीयं निर्मातुं शक्यते । घर्मकाले घर्मप्रदेशे च भर्जितस्य रागीधान्यस्य पिष्टं, गुडम्, एलां च जले योजयित्वा पातुं शक्यते । एतत् रागीपानीयम् अत्यन्तं लेखनम् अपि । उष्णजन्यानां रोगाणां निवारणार्थम् अत्युत्तमम् औषधम् अपि ।

"https://sa.wikipedia.org/w/index.php?title=रागीपानीयम्&oldid=345368" इत्यस्माद् प्रतिप्राप्तम्