राघवेन्द्रस्वामी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
श्रीगुरुराघवेन्द्रः
जन्मतिथिः क्रि.श. १५९५/१५९८ / १६०१
जन्मस्थानम् भुवनगिरिः तमिळ्नाडु,
पूर्वाश्रमनाम वेङ्कटनाथः
गुरुः/गुरवः सुधीन्द्रतीर्थः
तत्त्वचिन्तनम् द्वैतम्


श्रीराघवेन्द्रस्वामिपादाः (Raghavendra Swami) (१५९५-१६७१), सनातनधर्मस्य माध्वमतसंन्यासिषु प्रमुखाः। तॆ |मध्वाचार्याणां अनुयायिनः भूत्वा मध्वमतं मध्वसिद्धान]] प्रतिपादितवान् । प्रह्लादस्य तृतीयःअवतारः अस्ति श्रीराघवेन्द्रः। द्वितीयः अवतारः श्रीव्यासरायः । राघवेन्द्रस्वामिनां भक्ताः, एतं रायः, गुरुरायः, गुरुराजः इति आह्वयन्ति । एतस्य मूलवृन्दावनं (सशरीरम्) आन्ध्रप्रदेशस्य तुङ्गानदीतटे विद्यमाने मन्त्रालयक्षेत्रे अस्ति । कर्णाटकराज्यस्य रायचूरुतः सामान्यतः एकघण्टां यावत् प्रवासः । अत्र सहस्राधिकभक्ताः आगछन्ति । श्रावणमासस्य कृष्णपक्षे प्रतिपत्तः तृतीयातिथिपर्यन्तम् आराधनमहोत्सवः आचर्यते ।

पूर्वाश्रमः[सम्पादयतु]

राघवेन्द्रस्वामिनः पूर्वाश्रमस्य नाम वेङकटनाथः। (वेङ्कण्णभट्टः ,वेङ्कटाचार्यः इत्यपि आह्वयन्ति स्म) । एतस्य पितुः नाम तिम्मण्णभट्टः, मातुः नाम गोपिकाम्बा । तिम्मण्णभट्टस्य पितामहस्य नाम कृष्णभट्टः । कृष्णभट्टः वीणावादने परिणतः आसीत् । विजयनगरस्य राज्ञः कृष्णदेवरायस्य गुरुः अपि । तिम्मण्णभट्टस्य वेङकटनाथं विहाय अन्ये द्वे अपत्ये आस्ताम् । गुरुराजः तथा वेङकटाम्बा इति तयोः नाम । वेङकटनाथस्य १५९५तमे वर्षे तमिळ्नाडुराज्यस्य भुवनगिरिप्रदेशे जन्म अभवत् । वेङकटनाथः बाल्यादारभ्य बहु बुद्धिमान् आसीत् । एतस्य पिता अल्पे वयसि दिवङगतः इति कारणतः कुटुम्बस्य दायित्वं अग्रजस्य गुरुराजस्य अभवत् । वेङकटनाथस्य प्रारम्भिकविद्याभ्यसः आवुत्तस्य(वेङ्कटाम्बायाः पतिः) लक्ष्मीनरसिंहस्य समीपे मधुरैनगरे अभवत् । विद्याभ्यासं समाप्य मधुरैतः प्रत्यागमनानन्तरं एतस्य विवाहः सरस्वतीनामिकया कन्यया सह अभवत् । विवाहानन्तरं कुम्भकोणं प्रति गत्वा सुधीन्द्रस्वामिनः समीपे द्वैतसिद्धान्तस्य उन्नतव्यासङगं कृतवान् । तत्रत्य छात्रेभ्यः संस्कृतं तथा वेदान् पाठयति स्म । केनापि फलापेक्षेण विना विद्यादानं करोति स्म । तस्य आर्थिकपरिस्तिथिः तावती उत्तमा न आसीत् । बहुवारं पत्नीपुत्राभ्यां सह उपवासः करणीयः भवति स्म । तथापि देवस्य स्मरणं, तस्मिन् विश्वासः च सर्वदा भवति स्म । एकदा पत्नीपुत्राभ्यां सह कस्मिँश्चित् समारम्भे भागं वोढुम् आहुतवन्तः आसन् । ये आहूतवन्तः ते अगौरवेण श्रीगन्धस्य अवघर्षणस्य कार्यं दत्तवन्तः आसन् । वेङकटनाथः विनाखेदं श्रीगन्धस्य अवघर्षणसमये अग्निसूक्तं पठति स्म । अवघर्षितस्य श्रीगन्धस्य लेपनेन विप्राणां शरीरे ज्वलनम् आरब्धम् । कारणं किम् इति ज्ञातुं गृहस्थः वेङकटनाथं पृष्टवन्तः । वेङकटनाथः "अग्नीसूक्तस्य उच्चारणं कुर्वन् श्रीगन्धं अवघर्षितवान् , अतः एवं जातं स्यात्” इति उक्तवान् । अनन्तरं गृहस्थः वेङकटनाथस्य क्षमां प्रार्थितवान् । वेङकटनाथः कोपेन, खेदेन विना पुनः श्रीहरिं संप्रार्थ्य वरुणसूक्तं पठितवान् । तदा सर्वेषां शरीरस्थज्वलनस्य शमनम् अभवत् । एतत् वेङकटनाथस्य मन्त्रसिद्धेः तथा सहानुभूत्याः एकम् उदाहरणम् ।

संन्यासाश्रमः[सम्पादयतु]

श्रीसुधीन्द्रस्वामिनः वेदान्तसाम्राज्ये योग्य-उत्तराधिकारिणः अन्वेषणसमये तस्य स्वप्ने श्री मूलदेवः वेङकटनाथं शिष्यरूपेण स्वीकर्तुं सूचितवान् । एतं विषयं सुधीन्द्रतीर्थस्वामी वेङकटनाथं सूचितवान् । वेङकटनाथः कुटुम्बं स्मृत्वा नकारं सूचितवान् । किन्तु गृहे साक्षात् सरस्वती देवी संन्यासाश्रमं स्वीकर्तुम् अनुज्ञां दत्तवती । एतेन मनसः परिवर्तनं भूत्वा वेङकटनाथः सुधीन्द्रनाथस्वामिनं संन्यासदीक्षां दातुं विज्ञापितवान् । तदनुगुणं फाल्गुणशुद्धद्वितीयायां तञ्जावूरुनगरे रघुनाथभूपालस्य तथा श्रेष्ठानाम् अनेकेषां विदूषाम् , आचार्याणां च सम्मुखे सुधीन्द्रस्वामी संन्यासदीक्षां दत्त्वा वेङ्कटनाथस्य राघवेन्द्रस्वामी इति नामकरणं कृत्वा प्रणवमन्त्रोपदेशपूर्वकं वेदान्तसाम्राज्ये पट्टाभिषेकं निर्वर्तितवान्। वेङकटनाथस्य पत्नी संन्याश्रमस्य वार्तां श्रुत्वा खेदेन कूपे पतनपूर्वकम् आत्महत्यां कृत्वा पिशाचजन्म प्राप्य राघवेन्द्रस्वामिनः समीपम् आगतवती । तस्याः दुरवस्थां दृष्ट्वा राघवेन्द्रस्वामी तीर्थं तस्याः उपरि संप्रोक्ष्य मोक्षं प्रापितवान् ।

"http://sa.wikipedia.org/w/index.php?title=राघवेन्द्रस्वामी&oldid=275314" इत्यस्माद् पुनः प्राप्तिः