रामः
श्रीरामचन्द्रः भगवतः नारायणस्य दशसु अवतारेषु सप्तमः । सूर्यवंशसमुत्पन्नोऽयं दशरथस्य पुत्रः । भगवान् नारायणः त्रेतायुगे श्रीरामचन्द्ररूपेण अवतारं गृहीतवान् । रामायणकथानायकः श्रीरामः । सः अवतारपुरुषः इति रामायणे चित्रितः श्रीरामः अयोध्याधिपस्य दशरथस्य अत्यन्तं प्रीतिपात्रः ज्येष्ठ्पुत्रः । अयोध्याप्रजाभ्यः अपि अत्यन्तं प्रीतिपात्रः श्रीरामः । एषः सद्गुणानां साकाररुपः (मूर्तरुपः)आसीत्। दशरथस्य तिसृषु पत्नीषु अन्यतमा कैकेयी दशरथेन दत्तेन वरद्वारा रामं वनं प्रेषयति । रामोऽपि राज्याभिषेकं विहाय वनगमनाय सिद्धः भवति । यदा वनवासे भवति तदैव राक्षसं रावणं मारयति ।
|
|
|
Practices
|
|
प्रवेशद्वारम्:सनातनधर्मः |
अन्तर्विषयाः |
[सम्पादयतु] जननम्
अयोध्यायाः चक्रवर्ती दशरथः पुत्रसन्तानप्राप्त्यर्थं पुत्रकामेष्टिं कृतवान् । तत्फलत्वेन श्रीरामचन्द्रः कौसल्यायाः गर्भाम्बुधौ चैत्रशुक्लनवम्यां पुनर्वसुनक्षत्रे जन्म प्राप्तवान् ।
[सम्पादयतु] अयोध्यां प्रति विश्वामित्रस्यागमनम्
श्रीराम: बाल्यकाले एव महतीं साधनामकरोत् । यागकरणसमये सुबाहु-ताटकादीनां पीडां सोढुम् अशक्तः विश्वामित्रः एकवारम् अयोध्यां प्रति आगत्य दशरथस्य समीपे यागरक्षणार्थं रामलक्ष्मणः।लक्ष्मणयोः साहाय्यम् अयाचत । परं बालयोः रामलक्ष्मणयोः वनं प्रति प्रेषणं दशरथेन नाङ्गीकृतम् । किन्तु वसिष्ठस्य सूचनानुसारं दशरथः वनं प्रति प्रेषयितुम् अङ्गीकृतवान् । रामः विश्वामित्रेण सह वनं गत्वा दुष्टशक्तीनां हननं कृत्वा यागरक्षणमकरोत् । विशिष्टैः मन्त्रैः विश्वामित्रेण उपदिष्टः रामः विशिष्टं बलं प्राप्तवान्।
[सम्पादयतु] सीतास्वयंवरः
जनकमहाराजस्य आस्थाने सीतायाः स्वयंवरः आयोजितः आसीत् । शिवधनुषः ज्याबन्धनं स्वयंवरस्य पन्थाह्वानमासीत् । रावणः।रावणादयः पराक्रमशालिनः स्वयंवरमन्डपे समागताः आसन् । परं सर्वे पराजिताः । दशरथपुत्रः श्रीरामः शिवधनुषः ज्याबन्धनं विधाय विजयं प्राप्तवान् । रामः सीतां परिणीतवान् ।
[सम्पादयतु] भार्गवरामेण सह मेलनम्
सीतास्वयंवरानन्तरं श्रीरामःअयोध्यां प्रतिनिवर्तमानः आसीत् । मार्गे भार्गवरामस्य मेलनमभूत् । भार्गवरामः कोपेन श्रीरामेण सह योद्धुम् उद्युक्तः । श्रीरामः तेन सह युद्धं कृत्वा तं जितवान् । सन्तुष्टः भार्गवरामः श्रीरामाय वैष्णवधनुः दत्तवान् ।
[सम्पादयतु] पितृवाक्यपरिपालनम्
रामस्य विवाहानन्तरं दशरथः श्रीरामाय यौवराज्याभिषेकं कर्तुम् उद्युक्तः । परं तत्समये मन्थरायाः दुष्प्रेरणया कैकेयी पुरा दशरथेन दत्तस्य वरस्य दुरुपयोगमकरोत् । श्रीरामस्य वनगमनाय भरतस्य राज्याभिषेकाय च आग्रहं कृतवती । रामः सन्तोषेण वनं गन्तुम् उद्युक्तः । दशरथः तस्य प्रतिरोधमकरोत् । परं श्रीरामः पित्रा दत्तस्य वचनस्य भङगः न स्यादिति हेतोः चतुर्दशवर्षाणां वनवासार्थं वनं गतवान् । सीता लक्ष्मणश्च तम् अनुसृतवन्तौ ।
[सम्पादयतु] एकपत्नीव्रतम्
श्रीरामः स्वजीवने एकपत्नीव्रतं परिपालितवान् । स्वप्नेऽपि सः सीतामेव स्मरति स्म । सीतापरित्यागानन्तरं अश्वमेधयागसमये सीतायाः स्वर्णमूर्तिं निर्माय यागदीक्षितोऽभूत् । अयञ्च श्रीरामः मर्यादापुरुषोत्तमः इति विख्यातः ।
[सम्पादयतु] विशिष्टाः गुणाः
रामः विशिष्टैः गुणैः परिपूरितः आसीत् । तैः गुणैः रामः अतीव आदर्शपूर्णः विद्यते । मातृभक्तिः,पितृभक्तिः,भ्रातृप्रेम,मित्रप्रेम,शरणागतवात्सल्यम् इत्यादयः गुणाः तस्य अतीव आदर्शपूर्णाः गुणाः ।
[सम्पादयतु] रावणवधः
सीतापहरणानन्तरं रामः वानरसैन्यस्य साहाय्येन सीतान्वेषणकार्यमारब्धवान् । हनूमता लङ्कायां सीता दृष्टा । वानरसैन्यं सेतुबन्धनेन लङ्कां प्रविष्टम् । रावणसैन्येन सह वानरसैन्यस्य युद्धम् आरब्धम् । रामेण रावणस्य हननं कृतम् । अयोध्यायां रामस्य राज्याभिषेकः अभवत् ।
[सम्पादयतु] आधाराः
१ वाल्मीकिरामायणम्
|
||||||||||||||||