रामः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
राज्याभिषेकानन्तरं सिंहासने विराजमानः श्रीरामचन्द्रः

श्रीरामचन्द्रः भगवतः नारायणस्य दशसु अवतारेषु सप्तमः । सूर्यवंशसमुत्पन्नोऽयं दशरथस्य पुत्रः । भगवान् नारायणः त्रेतायुगे श्रीरामचन्द्ररूपेण अवतारं गृहीतवान् । रामायणकथानायकः श्रीरामः । सः अवतारपुरुषः इति रामायणे चित्रितः श्रीरामः अयोध्याधिपस्य दशरथस्य अत्यन्तं प्रीतिपात्रः ज्येष्ठ्पुत्रः । अयोध्याप्रजाभ्यः अपि अत्यन्तं प्रीतिपात्रः श्रीरामः । एषः सद्गुणानां साकाररुपः (मूर्तरुपः)आसीत्। दशरथस्य तिसृषु पत्नीषु अन्यतमा कैकेयी दशरथेन दत्तेन वरद्वारा रामं वनं प्रेषयति । रामोऽपि राज्याभिषेकं विहाय वनगमनाय सिद्धः भवति । यदा वनवासे भवति तदैव राक्षसं रावणं मारयति ।

हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

जननम्[सम्पादयतु]

अयोध्यायाः चक्रवर्ती सम्राट् दशरथः आसीत् । तस्य तिस्रः पत्न्यः आसन् । परं सः दशरथः निपुत्रिकॊ आसीत् ।अतः पुत्रप्राप्त्यर्थं दशरथः पुत्रकामेष्टि यजनं कृतवान् । तत्फलत्वेन श्रीरामचन्द्रः कौसल्यायाः गर्भाम्बुधौ चैत्रशुक्लनवम्यां पुनर्वसुनक्षत्रे जन्म प्राप्तवान् । सुमित्रायाः द्वौ पुत्रौ लक्ष्मणः शत्रुघ्नः च तथैव कैकेय्याः भरतः जन्म लब्धवन्तः। चत्वारः बालकाः अतीव बुद्धिमन्तः आसन् । रामः बाल्यादेव शान्तः वीरश्चासीत् । सः सदैव जीवनॆ मर्यादायाः कृतॆ सर्वोच्चस्थानं दत्तवान् अत एव स मर्यादा पुरुषोत्तमः श्रीरामः नाम्ना प्रसिद्धः। तस्य राज्यं न्यायपूर्णं प्रजायाः सदैव हितचिन्तकः आसीत्। अतः सर्वे अद्यापि भारते सुराज्यस्य परिकल्पनां ये कुर्वन्ति तदा रामराज्यस्य विषये वदन्ति । सदैव धर्ममनुचारिणः त्रयः भ्रातरः अपि वसिष्ठ ऋषेः समीपे अधीताः।

अयोध्यां प्रति विश्वामित्रस्यागमनम्[सम्पादयतु]

श्रीराम: बाल्यकाले एव महतीं साधनामकरोत् । यागकरणसमये सुबाहु-ताटकादीनां पीडां सोढुम् अशक्तः विश्वामित्रः एकवारम् अयोध्यां प्रति आगत्य दशरथस्य समीपे यागरक्षणार्थं रामलक्ष्मणयोः साहाय्यम् अयाचत । परं बालयोः रामलक्ष्मणयोः वनं प्रति प्रेषणं दशरथेन नाङ्गीकृतम् । किन्तु वसिष्ठस्य सूचनानुसारं दशरथः वनं प्रति प्रेषयितुम् अङ्गीकृतवान् । रामः विश्वामित्रेण सह वनं गत्वा दुष्टशक्तीनां हननं कृत्वा ऋषिणां यागरक्षणस्य अभूतपूर्वं कार्यमकरोत् । विशिष्टैः मन्त्रैः विश्वामित्रेण उपदिष्टः रामः विशिष्टं बलं प्राप्तवान् । बहू दीव्यशक्तीनां संग्रहः तैः स्वतपोबलेन कृतः। एतादृशः अभूतपूर्वः साहसः बाल्यादेव तेन कृतः।

सीतास्वयंवरः[सम्पादयतु]

राक्षसानां वधानन्तरं महर्षिः विश्वमित्रः रामलक्ष्मणाभ्यां सह जनकमहाराजस्य आस्थाने सीतायाः स्वयंवरः आयोजितः आसीत् तस्मिन् आयोजने संप्राप्तः । यत्र शिवधनुषः ज्याबन्धनं स्वयंवरस्य पन्थाह्वानमासीत् । रावणादयः पराक्रमशालिनः स्वयंवरमन्डपे समागताः आसन् । सर्वैः स्वशक्त्या प्रयत्नः कृतः । परं सर्वे पराजिताः । तदा विश्वामित्रस्य आदेशेन श्रीरामः यावत् शिवधनुषं उत्थाय तिष्ठति तावत् शिवधनुषं भयंकरध्वनिना द्विधा विभक्तः भवति। सर्वत्र प्रसन्नतायाः वातावरणं परिदृश्यते,सीता हर्षमुपगता । श्रीरामः विजयं प्राप्तवान् । रामः सीतां परिणीतवान् । तत्रैव लक्ष्मणः भरतः शत्रुघ्नश्च ऊर्मिला आदिभिः कन्याभिः सह परिणीताः। चत्वारो भ्रातरः प्रसन्नतया स्वगृहं अयोध्यां प्रत्यावर्तत । अयोध्यायां रामः सीता च सुखेन वसतः स्म । तस्य मृदुलता,जनसेवायुक्ता भावना,न्यायप्रियतायाः कारणेन सः अयोध्याजनेषु लोकप्रियः संजातः। राजा दशरथः वानप्रस्थं प्रति गम्यमानः आसीत् । अतः सः सर्वं राज्यं रामाय दातुमिच्छति स्म। जनाः अपि प्रसन्नाः अभवन् यतः तेषां प्रियः रामः राजा भविष्यति । तदा रामस्य अन्यौ द्वौ भ्रातरौ स्वमातुः गृहं गतौ आस्ताम् । तदा दुष्टभावनायुक्ता दासी मन्थरा कैकेय्याः मनसि दुष्टविचारान् निक्षिप्तवती । भरतः राजा भवेदिति तथैव रामः चतुर्दशवर्षपर्यन्तं वनं गच्छेत् यतः त्वं दशरथस्य प्रिया अतः त्वं वरान् याच । येन रामस्य कृते वनवासस्य आदेशः प्राप्तः । रामः पितुरादेशं मत्वा चतुर्दशवर्ष पर्यन्तं वनम् अगच्छत्।

भार्गवरामेण सह मेलनम्[सम्पादयतु]

सीतास्वयंवरानन्तरं श्रीरामः अयोध्यां प्रतिनिवर्तमानः आसीत् । मार्गे भार्गवरामस्य मेलनमभूत् । भार्गवरामः कोपेन श्रीरामेण सह योद्धुम् उद्युक्तः । श्रीरामः तेन सह युद्धं कृत्वा तं जितवान् । सन्तुष्टः भार्गवरामः श्रीरामाय वैष्णवधनुः दत्तवान् ।

पितृवाक्यपरिपालनम्[सम्पादयतु]

मन्थरायाः दुष्प्रेरणया कैकेयी पुरा दशरथेन दत्तस्य वरस्य दुरुपयोगमकरोत् । श्रीरामस्य वनगमनाय भरतस्य राज्याभिषेकाय च आग्रहं कृतवती । रामः सन्तोषेण वनं गन्तुम् उद्युक्तः । दशरथः तस्य प्रतिरोधमकरोत् । परं श्रीरामः पित्रा दत्तस्य वचनस्य भङगः न स्यादिति हेतोः चतुर्दशवर्षाणां वनवासार्थं वनं गतवान् । सीता लक्ष्मणश्च तम् अनुसृतवन्तौ । जगति एतादृशमुदाहरणं नैव दृश्यते यत् भ्राता भ्रातुः कृते वनं गतः। एषा वार्ता भरतेन गृहं प्रत्यागते सति श्रुता, तदा सः रामं प्रत्यानेतुमुद्यतः बभूव । भरतेन बहू आग्रहः रामाय कृतः, परं वचनपरिपालकः आज्ञाधारकश्च श्रीरामः भरतस्य वचनं न स्वीकरोति । तदा भरतः रामस्य पादुकां गृहीत्वा एव प्रत्यागच्छति । रामः परिवारजनानां प्रत्यागमनकारणात् ततः दूरं गतः ।

सीताहरणम्[सम्पादयतु]

वनवाससमये शूर्पणखायाः सह अपमानकारणात् रावणःरावणेन सीतायाः अपहरणं कृतम् । रावणः दैत्यराजः लंकायाः अधिपतिरासीत् । रामायणानुसारं यदा सीता स्वाश्रमे मृगशिशुं पश्यति तदा सा मृगस्योपरि मुग्धा जाता ,तदा मृगस्य वाणीं श्रुत्वा सीता उद्विग्ना जाता । सः मायावी मृगः रावणःरावणस्य मातुलः आसीत् । तेनैव रावणस्य कथनानुसारं मृगरूपं धारितः। सा रामं तमानेतुं कथयति । रामःमृगमानेतुं गच्छति,लक्ष्मणं च सीतारक्षणे नियुज्य गच्छति । सीता लक्ष्मणः च यदा कुटीरे आस्ताम् । तदा मारीचः रामं बहुदूरं नीतवान् । समये प्राप्ते रामेण शरसंधानं कृतम् । मारीचः उच्चैः ‌- हे सीते ! हे लक्ष्मण ! उक्तवान्। तत्छ्रुत्वा सीता चिन्तिता जाता, सा लक्ष्मणं रामस्य रक्षणाय गन्तुं कथयति । लक्ष्मणः सीतां अवबोधयति परं सीता न किंचित् शृणोति । अन्ततः लक्ष्मणः राममानेतुं गच्छति । गमनसमये सः एकां रेखाम् आकारयति,ततः अग्रे आगन्तुं सीतां वारयति। ततः रावणः भिक्षुरूपेण तत्रागत्य सीतां रेखामुल्लङ्घयितुं कथयति । सा तथैवाचरति । येन रावणः सीतामपहरति

हनूमत्सुग्रीवयोः मेलनम्[सम्पादयतु]

रामः स्वभ्राता लक्ष्मणेन सह सीता शोधाय इतस्ततः परिभ्रमन् आसीत्, तदा मार्गे जटायोः रावणेन सह युद्धः तथैव मरणं , ततः अग्रे किष्किन्धागमनानन्तरं तत्र हनुमतः परिचयः सुग्रीवेण सह मैत्री जाता । सुग्रीवस्य भ्रात्रा बालिना सह युद्धं कृत्वा बालेः मृत्युः सुग्रीवस्य राज्यं प्रत्यर्पितः। हनुमान् रामस्य अन्योन्यः भक्तः संजातः । यः स्वकीयं जीवनं रामाय प्रत्यर्पितवान् । अनन्तरं हनुमता समुद्रतरणं कृत्वा सीतायाः परिशोधः , लंकादाहनम् ,रामाय सूचना प्रदानम्, युद्धस्य सज्जता , सेतुनिर्माणम् , लंकागमनम् इत्यादि वर्णनं रामायणे विशदतया वर्णितम् ।

रावणवधः[सम्पादयतु]

सीतापहरणानन्तरं रामः वानरसैन्यस्य साहाय्येन सीतान्वेषणकार्यमारब्धवान्हनूमता श्रीलङ्कायां सीता दृष्टा । वानरसैन्यं सेतुबन्धनेन लङ्कां प्रविष्टम् । रावणसैन्येन सह वानरसैन्यस्य युद्धम् आरब्धम् । रामेण रावणस्य हननं कृतम् । दुष्टात्मा रावणस्य विनाशः जातः । सीतायाः मुक्तिः अयोध्यायां रामस्य राज्याभिषेकः अभवत् ।

संक्षिप्तं रामायणम्-

आदौ रामतपोवनादिगमनं,हत्वा मृगं कांचनम्,
वैदेहिहरणं जटायुमरणं,सुग्रीवसम्भाषणम्।
बालिनिग्रहणं समुद्रतरणं,लंकापुरी दाहनम्,
पश्चाद्रावणकुम्भकर्णमरणं,एतद्धि रामायणम्॥


  • रामस्तुतिः
रामो राजमणिः सदा विजयते,रामं रमेशं भजे,
रामेणाभिहता निशाचरचमूः, रामाय तस्मै नमः।
रामान्नास्ति परायणं परतरं,रामस्य दासोस्म्यहम्,
रामे चित्तलयो सदा भवतु मे,भोःराम मामुद्धर॥
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥



वीथिका[सम्पादयतु]


बाह्यानुबन्धः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=रामः&oldid=253726" इत्यस्माद् पुनः प्राप्तिः