रामनवमी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
श्रीरामस्य जननम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

श्रीरामः विष्णोः सप्तमः अवतारः । "विष्णोरर्धं महाभागम्” इत्येव उल्लेखः दृश्यते । रावणः “देवेभ्यः मरणं नास्ति” इति वरं प्राप्तवान् आसीत् । तस्य संहारार्थं महाविष्णुः एव मनुष्यरूपेण जन्म प्राप्नोत् । सः एव श्रीरामचन्द्रः । चैत्रमासस्य शुक्लपक्षस्य नवम्यां तिथौ श्रीरामस्य जन्म अभवत् । तद्दिनमेव “श्रीरामनवमी” इति आचर्यते ।


“चैत्रे नवम्यां प्राक् पक्षे दिवा पुण्ये पुनर्वसौ ।
उदये गुरुगौरांश्चोः स्वोच्चस्थे ग्रहपञ्चके ॥
मेषं पूषणि सम्प्राप्ते लग्ने कर्कटकाह्वये ।
आविरसीत्सकलया कौसल्यायां परः पुमान् ॥“ (निर्णयसिन्धुः)

नवमीतिथिना सह पुनर्वसुनक्षत्रम् अपि अस्ति चेत् तद्दिनम् अत्यन्तं प्रशस्तम् इति उच्यते । “पुनर्वस्वर्क्षसंयुक्ता सा तिथिः सर्वकामदा” (अगस्त्यसंहिता – ८-२८) । रामनवमी सर्वैरपि आचरणिया एव । यः नाचरति सः घोरे कुम्भीपाकनरके पच्यते इति वदन्ति शास्त्रवाक्यानि ।

“सर्वेषामप्ययं धर्मः भुक्तिमुक्त्योकसाधकः ।
यस्तु रामनवम्यान्तु भुङ्क्ते मोहाद्विमूढधीः ॥
कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः ।“
“अकृत्वा रामनवमीव्रतं सर्वोत्तमोत्तमम् ।
व्रतान्यन्यानि कुरुते न तेषां फलभाग्भवेत् ॥“ (हेमाद्रि-अगस्त्यसंहिता पु-१८०दशनिर्णयः)
रामनवम्यां पूज्यमानाः रामः, सीता, लक्ष्मणः, हनुमान् च
श्रीरामः

चैत्रशुक्लप्रतिपत्तः श्रीरामपूजाम् आरभ्य रामनवमीदिने मङ्गलकरणक्रमः अस्ति कुत्रचित् । तत् “वसन्तनवरात्र-रामनवम्याराधनम्” इति उच्यते । कुत्रचित् रामनवम्याः पूर्वतनम् अनन्तरदिनं च योजयित्वा दिनत्रयं यावत् आचरन्ति । यदि तथा न शक्यते तर्हि रामनवमीदिने एकं दिनं वा आचरेयुः एव । तद्दिने अङ्कुरार्पणं कृत्वा अनन्तरम् उत्सवाचरणं करणीयम् । व्रतम् आचर्यमाणाः चैत्रशुद्ध-अष्टम्यां प्रातः जितेन्द्रियः सन् नदी-कासार-सरोवर-कूपेषु कुत्रचित् स्नात्वा सन्ध्यावन्दनम् अग्निकार्यं च आचरन्ति । वेदशास्त्रविशारदं रामपूजापरायणं ब्राह्मणोत्तमम् आहूय भोजनं कारयन्ति । सायङ्कालपर्यन्तं रामध्यानं रामकथाश्रवणं कुर्वन्ति । रात्रौ द्वौ अपि उपवासं कृत्त्वा भूमौ शयनं कुरुतः । अपरस्मिन् दिने प्रातः स्नानसन्ध्यावन्दनं समाप्य गृहस्य उत्तरदिशि मण्डपनिर्माणं कुर्वन्ति । पुष्पपल्लवैः मण्डपम् अलङ्कृत्य सीतासमेतस्य श्रीरामस्य प्रतिष्ठापनं कुर्वन्ति । अनन्तरं पञ्चामृताभिषेकं कृत्वा पुण्याहवाचनं, पुरुषसूक्त-मूलमन्त्रसहितं षोडशोपचारपूजां कुर्वन्ति । अर्घ्यपाद्यादिकं समर्प्य घृतसूपव्यञ्जनादिनैवेद्यम् अर्पयन्ति । अलङ्कार-नृत्य-गीत-वाद्यैः सह शोभायात्रां कारयन्ति । रात्रौ जागरणं कुर्वन्ति । दशम्यां प्रातः आज्यपायसादिना १०८ हवनं कुर्वन्ति । तं विग्रहं पूजान्ते तस्मै ब्राह्मणाय दानरूपेण यच्छन्ति । तद्दिने सर्वेषु गृहेषु श्रीरमस्य पूजा भवति । रामायणस्य पारायणं, भजनानां गायनं, पानक-कोषम्बरीणां वितरणं सर्वत्र भवति । राममन्दिरेषु तद्दिने विशेषपूजाः , सङ्गीत-हरिकथा –उपन्यास-रथोत्सवादयः कार्यक्रमाः आयोज्यन्ते ।

श्रीरामः हिन्दुजीवनस्य अविभाज्यम् अङ्गमेव । मनुष्येण प्राप्यमाणस्य अत्युन्नत-आदर्शस्य मूर्तिरूपः एव श्रीरामः । अतः एव श्रीरामः “मर्यादापुरुषोत्तमः” “विग्रहवान् धर्मः” इति उच्यते । श्रीरामः सर्वेषाम् आदर्शभूतः पुत्रः, मित्रं, पतिः, सहोदरः, राजा, शिष्यः, शत्रुः च । सः कदापि धर्मविरुद्धं न आचरितवान् । अतः धर्मरक्षणार्थं सर्वस्यापि त्यागं कृतवतः रामस्य विषये सर्वेषामपि महान् आदरः । जाति-मत-प्रान्तादि भावं विना रामः सर्वेषां हृदये निवसति । भारतस्य सर्वेषु भागेषु, सर्वासु भाषासु रामविषयकं साहित्यं, सङ्गीतं, शिल्पं, चित्रं, चापि अस्ति एव । राममन्दिररहितः कोपि ग्रामः न स्यात् अस्माकं देशे । रामायणमेव आदिकाव्यम् इत्युच्यते । वृद्धचाणक्यशतके रामस्य वर्णनम् एवं कृतम् अस्ति –

“धर्मे तत्परता मुखे मधुरता दाने समुत्साहता ।
मित्रेऽवञ्चकता गुरौ विनयता चित्ते तु गम्भीरता ॥
आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञानिता ।
रूपे सुन्दरता शिवे भजनिता त्वय्यस्ति भो राघव ॥“ इति ।

एवं रामः परिपूर्णः । जगति यं कमपि जीवनस्य आदर्शरूपेण प्रदर्शयितुं योग्यः अस्ति चेत् सः रामः एव । यतः सः धर्मपालनार्थं बहुविधानि कष्टानि सोढवान् । पितृवाक्यपालनार्थं १४ वर्षाणि यावत् वनवासं कृतवान् । सामान्यप्रजायाः कस्यचित् रजकस्य अभिप्रायमपि पुरस्कुर्वन् प्राणप्रियां साध्वीं पत्नीं वनं प्रेषितवान् । अद्यतनजगति एतादृशजीवनस्य कल्पनाम् अपि कर्तुं न शक्नुमः वयम् । रामः नारायणस्य अवतारः । सः यदा दशरथस्य पुत्ररूपेण जन्म प्राप्नोत् तदा वेदः अपि रामायणरूपेण जन्म प्राप्नोत् इति वदति अयं श्लोकः –

“वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।
वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ॥“

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=रामनवमी&oldid=267164" इत्यस्माद् पुनः प्राप्तिः