रामनाथपुरमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(रामनाथपुरम् मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
रामनाथपुरं मण्डलम्

ராமநாதபுரம் மாவட்டம்

मुगवै
—  मण्डलम्  —


Location of रामनाथपुरं मण्डलम्
in तमिऴ्‌नाडु
निर्देशाङ्काः

9°16′49.58″N 77°26′1.03″E / 9.2804389°N 77.4336194°E / 9.2804389; 77.4336194

देशः भारतम्
राज्यम् तमिऴ्‌नाडु
उपमण्डलम् कडलाडिः,कमुतिः,मुदुकुळत्तूरुः,परमकुडिः,रामनाथपुरम्,रामेश्वरः,तिरुवादनै
केन्द्रप्रदेशः रामनाथपुरम्
Collector श्री के। नन्थकुमार्,[१], IAS
पुरसभा रामनाथपुरम्
पुरसभा
पुरसभा
व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
Central location: 9°16′N 77°26′E / 9.267°N 77.433°E / 9.267; 77.433
जालस्थानम् Official website of Ramanathapuram District


रामनाथपुरमण्डलं (Ramanathapuram District) (तमिऴ्: ராமநாதபுரம்மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं रामनाथपुरपत्तनम् ।

भौगोलिकम्[सम्पादयतु]

रामनाथपुरमण्डलस्य विस्तारः ४१२३ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरे शिवगङ्गामण्डलम्, ईशान्ये पुदुक्कोट्टैमण्डलं पूर्वस्मिन् पाक् जलसङ्क्रमः (पाक् स्ट्रैट्), आग्नेयदिशि मन्नारसमुद्रकुक्षिः (गल्फ़् आफ़् मन्नार्), पश्चिमे तूत्तुकुडिमण्डलं वायव्ये विरुदनगरमण्डलं च अस्ति । अस्मिन् मण्डले पाम्बन्सेतुः अस्ति । अयं भारतस्य श्रीलङ्कादेशस्य च मध्ये विद्यमानः सेतुसदृशः समुद्रगर्भस्थद्वीपानां शृङ्खलानां च समूहः । अयं सेतुः पाक् जलसङ्क्रमं मन्नारसमुद्रकुक्षिना भेदयति ।

रामसेतुः नासाद्वारा प्राप्तं चित्रम्

इतिहासः[सम्पादयतु]

प्राक्काले इदं मण्डलं पल्लवानां राज्ये अन्तर्भूतम् आसीत् । १०६३ तमे वर्षे राजेन्द्रचोळः एतं प्रदेशं स्वायत्तीकृतवान् । १५२० तमे वर्षे विजयनगरस्य नायकैः अयं प्रदेशः जितः । सेतुपतिवंशस्थाः प्रख्याताः मारवाधिनाथाः सप्तदशशतके अस्य प्रशासनम् अकुर्वन् । अष्टादशशतकस्य आदौ कुटुम्बकलहेन इदं मण्डलं विभक्तम् । तञ्जावूरुराजस्य साहाय्येन कश्चन अधिनाथः सेतुपतिं पराजित्य शिवगङ्गायाः नायकः अभवत् । प्रादेशिकाः पाळैयकाराः अपि स्वतन्त्राः अभवन् । १७३० तमे वर्षे कर्णाटकस्य साहिबचन्दः रामनाथपुरम् आक्रान्तवान् । १७४१ तमे वर्षे मराठाः, १७४४ तमे वर्षे निज़ामाः च जितवन्तः । तस्य नवाबस्य प्रशासनेन असन्तुष्टाः प्रादेशिकाः अधिनाथाः नायकेषु अन्तिमं पाण्ड्यमण्डलस्य अधिनायकत्वेन उद्घोष्य नवाबस्य विरुद्धं सङ्घटयितुं प्रयत्तवन्तः । तावति कर्णाटकप्रान्तस्य सिंहासनं प्राप्तुं चन्दासाहिबस्य मोहम्मद आलेः च मधे सङ्घर्षः आसीत् । ब्रिटिशाः चन्दासाहिबस्य साहाय्यं कृतवन्तः, फ़्रेञ्चाः च मोहम्मद आलेः । अनेन कारणेन तस्मिन् समये अस्मिन् प्रदेशे बहवः अन्तः कलहाः जाताः ।

१७९५ तमे वर्षे ब्रिटिशाः मुत्तुरामलिङ्गसेतुपतिं पराजित्य एनं प्रदेशं स्वीयं कृतवन्तः । १८०१ तमे वर्षे मङ्गलेश्वरी नाच्चियारः शिवगङ्गायाः भूमिपतिः कृता । तस्याः राज्ञ्याः निधनानन्तरं मरुदुसहोदरौ ईस्ट् इण्डिया संस्थायै नियतरूपेण आयकरं समर्प्य प्रदेशस्य प्रशासनं स्वीकृतवन्तौ । १८०३ तमे वर्षे एतौ सहोदरौ पाञ्चालङ्कुरिचेः कट्टबोम्मस्य साहाय्येन ब्रिटिशान् विरुद्ध्य समरम् आरब्धवन्तः । कर्नलः अग्न्यूः मरुदुसहोदरौ गृहीत्वा मारितवान् । ततः गोरीवल्लभपेरियौदरतेवारं शिवगङ्गायाः भूमिपतित्वेन योजितवान् । १८९२ तमे वर्षे भूमिपतिपद्धतिः निरसिता । ततः मण्डलस्य प्रशासनार्थं कश्चन समाहर्ता आयोजितः । १९१० तमे वर्षे मधुरैमण्डलस्य तिरुनेल्वेलीमण्डलस्य च भागान् स्वीकृत्य रामनाथपुरमण्डलं निर्मितम् । जे एफ़् ब्रयाण्टः अस्य मण्डलस्य प्रथमः समाहर्ता आसीत् । ब्रिटिशानां काले इदं मण्डलं रामनाड् इति ख्यातम् आसीत् । स्वातन्त्र्यप्राप्त्यनन्तरम् अपि इदम् एव नाम अनुवृत्तम् । तत्पश्चात् तमिऴ्नाम अनुसृत्य रामनाथपुरम् इति पुनर्नामकरणम् अभवत् ।

जनसंख्या[सम्पादयतु]

२००१ वर्षस्य जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या ११,८७,६०४ आसीत् । अत्र २५.४६% भागः नगरीकृतः । तमिऴ्नाडुराज्ये वेल्लूरुमण्डलं विहाय अस्मिन् मण्डले इव मुस्लिमजनानां संख्या अत्यधिका । अस्मिन् मण्डले ७२.४१% हिन्दवः, २२.४% मुस्लिमाः, ५.०८% क्रैस्तमतानुयायिनः, ०.११% अन्यधर्मीयाः च सन्ति । २०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या १,३३७,५६० । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३६३ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३२० (८३० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १२.६३% आसीत् । रामनाथपुरे पुं, स्त्री अनुपातः १०००:९७७, साक्षरताप्रमाणं च ८१.४८% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • कडलाडिः
  • कमुतिः
  • मुदुकुळत्तूरुः
  • परमकुडिः
  • रामनाथपुरम्
  • रामेश्वरः
  • तिरुवादनै

कृषिः[सम्पादयतु]

तमिऴ्नाडुराज्ये मरीचिकायाः उत्पादने रामनाथपुरमण्डलस्य प्रथमं स्थानम् ।

वीक्षणीयस्थलानि[सम्पादयतु]

रामनाथस्वामिदेवालयः[सम्पादयतु]

रामेश्वरदेवालयः

अयं रामेश्वरद्वीपे विद्यमानः प्रसिद्धः देवालयः । द्वादशज्योतिर्लिङ्गक्षेत्रेषु इदम् अन्यतमम् । २७५ पादल् पेट्र स्थलेषु अपि इदम् अन्यतमम् । अत्रत्यः परमेश्वरस्य देवालयः क्रिस्तीये द्वादशशतके पाण्ड्यराजेन निर्मितः । भारतस्य हिन्दूदेवालयेषु अस्मिन् देवालये एव अतिदीर्घः उपकक्षः अस्ति । अस्मिन् द्वीपे ६४ पवित्रतीर्थानि सन्ति ।

धनुष्कोटिः[सम्पादयतु]

अयं ग्रामः रामेश्वरद्वीपस्य दक्षिणाग्रे तमिऴ्नाडुराज्यस्य पूर्वसमुद्रतीरे अस्ति । अत्र बङ्गालसमुद्रस्य हिन्दूमहासमुद्रस्य च सङ्गमः भवति । श्रीरामः लङ्कां प्रति सेतुनिर्माणस्य स्थलम् अत्रैव स्वस्य धनुषः कोटिना (अग्रभागेन) चिह्नितवान् । अतः अस्य क्षेत्रस्य धनुष्कोटिः इति नाम इति वदन्ति । रामेश्वरं प्रति गमनात् प्राक् अत्र समुद्रसङ्गमे स्नानं कुर्वन्ति भक्ताः ।

एरवाडिः[सम्पादयतु]

अयं कडलाडि उपमण्डले विद्यमानः ग्रामः । अत्र कुतबस् सुल्तान् सय्यद् इब्राहिम् शहीद् बादशाहस्य समाधिः अस्ति । एषः मुहम्मदस्य वंशस्थः क्रिस्तीये द्वादशशतके मदिनायाः राजा आसीत् । सः इस्लामधर्मस्य प्रचारार्थं भारतम् आगतवान् । समुद्रजीविसंरक्षणवलयः, मन्नारकुक्षिः – अयं दक्षिण आग्नेयएषियाखण्डे एव बृहत्तमः समुद्रजीविसंरक्षणवलयः । अत्र ३६०० प्रभेदानां प्राणिनः सस्यानि च अभिज्ञातानि सन्ति ।

पाम्बन्सेतुः[सम्पादयतु]

अयं सेतुः रामेश्वरद्वीपस्य भारतभूभागेन सम्पर्कं कल्पयति । अयं भारतस्य प्रथमः समुद्रसेतुः । अयं प्रायः २.३ किलोमीटर् दीर्घः अस्ति । दैर्घ्ये भारतस्य समुद्रसेतुषु अस्य द्वितीयं स्थानम् । अयं सेतुः १९१४ तमे वर्षे निर्मितः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. http://www.tn.gov.in/telephone/collectors.html
  2. www.tn.gov.in
"http://sa.wikipedia.org/w/index.php?title=रामनाथपुरमण्डलम्&oldid=243159" इत्यस्माद् पुनः प्राप्तिः