रामप्रसाद बिस्मिल

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(रामप्रसाद बिस्मिलः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
रामप्रसाद बिस्मिलः

पण्डित रामप्रसाद बिस्मिलस्य चित्रम्
जननम् ज्येष्ठ शुक्ल एकादश्याम् सम्वत् १९५४
११ जून् १८९७ ख्रिस्ताब्द
शाहजहाँपुरम्, उत्तरप्रदेशराज्यम्, भारतम्
मरणम् पौष कृष्ण एकादश्याम् सम्वत् १९८४
१९ दिसम्बर् १९२७ ख्रिस्ताब्द
गोरखपुर कारागारः,उत्तरप्रदेशराज्यम्, भारतम्
राजनैतिक आन्दोलनम् भारतस्य स्वातन्त्र्यसङ्ग्रामः
धर्मः हिन्दुधर्मः

रामप्रसाद बिस्मिलः (हिन्दी: राम प्रसाद बिस्मिल; जन्म: ख्रिस्ताब्द १८९७ तमे वर्षे जून् मासस्य ११ दिनाङ्कः[१], शूलारोपणम्: ख्रिस्ताब्द १९२७ तमे वर्षे दिसम्बर् मासस्य १९ दिनाङ्कः[२]) न केवलं भारतस्य महान् क्रान्तिकारी स्वातन्त्र्ययोद्धा अपितु उच्चश्रेण्याः कविः, उर्दूभाषाया: शायरः, अनुवादकः, बहुभाषाभाषी, इतिहासकारः, साहित्यकार: च आसीत् यो भारतस्य स्वातन्त्र्यप्राप्तये स्वप्राणान् अपि अत्यजत्।[३] अस्य जन्म विक्रमी सम्वत्.१९५४ तमे वर्षे ज्येष्ठमासे शुक्लपक्षे एकादश्याम् (शुक्रवासरे) उत्तरप्रदेशराज्यस्य एतिहासिकनगरे शाहजहाँपुरे अभवत्। अस्य पिता मुरलीधरः शाहजहाँपुरस्य नगरपालिकायाः उद्योगी आसीत्। विक्रमी सम्वत् १९८४ तमे वर्षे पौषमासे कृष्णपक्षे एकादश्या> सोमवासरे ब्रिटिश सर्वकारः गोरखपुरस्य कारागारे षड्यन्त्रपूर्वकं शूलमारोपयित्वा तस्य जीवनलीलां समापयत्। बिस्मिलः इति अस्य उर्दूभाषायाः उपनाम आसीत् यस्य अर्थः आत्मिकरूपेण आहतः इति। सः महान वीरः तेजस्वी महापुरुषः आसीत्। यदि तस्य गलपाशः न दीयते अस्म तर्हि सः भारतस्य सामाजिकां, राजनैतिकां, आर्थिकां च व्यवस्थां सम्पूर्णं परिवर्तयितुं शक्नोति स्म।

पिता पितामहः च[सम्पादयतु]

रामप्रसाद बिस्मिलस्य पितामहः नारायणलालस्य पैतृकग्रामः बरबई इति स्थानं तत्कालीनस्य ग्वालियरराज्ये चम्बल नद्या तीरे स्थितस्य तोमरघार क्षेत्रस्य (वर्तमान मध्यप्रदेशस्य) मुरैना जनपदे अद्यापि अस्ति। बरबई ग्रामवासिनः उद्दतस्वभावयुक्ताः आसन्। तत्रागत: आङ्ग्लाधिकारिणः बाधन्ते स्म। पारिवारिककलहस्य कारणेन नारायण लालः स्वस्य पत्न्या विचित्रादेव्या पुत्राभ्यां सह स्वपितृग्रामं त्यक्तवान्। अस्य गमनान्तरं तस्मिन् ग्रामे तस्य द्वौ भ्रातरौ अमान सिंहः समान सिंहः च वसतः स्म। बरवई ग्रामे इदानीम एकस्मिन उद्याने बिस्मिलस्य एका भव्या प्रतिमा स्थापिता अस्ति।

बहुत्र अटित्वा अयं परिवारः उत्तरप्रदेशस्य एतिहासिकनगरे शाहजहाँपुरे आगतः। अस्य नगरस्य मुन्नूगञ्जस्य फाटकस्य समीपे स्थिते औषधस्य आपणे प्रतिमासं रूप्यकत्रयस्य वेतनेन नारायणलालः उद्योगम् आरब्धवान्। अनेन पूर्णपरिवारस्य जीवननिर्वहणं क्लिष्टम् अभवत्। कुधान्यं विपणितः क्रीत्वा पक्त्वा खान्दन्ति स्म। किन्तु गच्छति काले परिस्थितिः परिवर्तिता। कालक्रमेण अस्य पत्तनस्य निवासिनां परिचयः अभवत्। नारायणः क्षत्रियजातीयः किन्तु तस्य आचारविचारान् दृष्ट्वा स्थलीयाः सर्वे तं पण्डितजी इति आह्वयन्ति स्म। अनेन अस्य कश्चन विशेषलाभः अभवत्। पर्वदिनेषु सभोजनं दानदक्षिणादयः तेन लभ्यते स्म। क्रमेण सह सर्वेषां स्थानीयजनानां प्रीतिपात्रम् अभवत। तेषां सहाय्येन सः पाठशालायां सेवकस्य उद्योगं प्राप्तवान्। क्रमेण सः एतत् कार्यमपि त्यक्य्वा लघुनाणाकानि विक्रयस्य कार्यम् आरब्धवान्। एवं यथाकथञ्चित् स्वपुत्रकलत्रं पालितवान्।

आरम्भिकजीवनम्[सम्पादयतु]

ज्येष्टशुक्लैकादाश्यां (निर्जलैकादशी दिवसे) ख्रिस्ताब्दे १८९७ तमे वर्षे जून् मासस्य ११ दिनाङ्के शुक्रवासरे पूर्वाह्ने ११:११ वादन समये उत्तरप्रदेशराज्यस्य शाहजहाँपुरस्य कारावारस्य समीपे विद्यमाने खिरनीबाग इति स्थाने मुरलीधरः मूलमती दम्पत्योः द्वितीय़पुत्रत्वेन अयं दिव्यात्मा जन्म प्राप्तवान्। अस्य दशाङ्गुलिषु चक्रचिह्नानि दृष्ट्वा ज्योतिष्कः अस्य चक्रवर्तिनः सर्वलक्षणानि सन्ति किन्तु यदि अयं तावत्कालं जीवति चेत् इति भविष्यवाणीम् अवदत्। तस्य जन्मनक्षत्रराशीत्यादीनाम् अनुगुणं तस्य रामप्रसाद इति नाम अकुर्वन्। मातापितरौ श्रीरामचन्द्रस्य अपरिमित: भक्ताः अपि आस्ताम्। तस्य द्वौ भ्रातरौ द्वे भगिन्यः च आस्ताम् किन्तु कालान्तरेण ते अपि मृत्युं प्राप्नुवन्। बाल्ये एव सः रामप्रसादः शिक्षायाः विषये बद्धादरः अभवत्। यदा सः १४ वर्षीयः किषोर: आसीत् तदा पितुः कोशात् धनं चोरयित्वा उपन्यासग्रन्थान् क्रीत्वा पठति स्म। क्रमेण उर्दूशालायां पठतः तस्य प्रेमरसस्य परिपूर्णोपन्यासेषु गज़ल् पद्येषु तस्य अतीव आसक्तिः अवर्धत। तादृशानां पठणस्य व्यसनबद्धः अभवत्। अपि च भंगपानस्य दुश्चटेनापि बद्धः अभवत्। कदाचित् भंगं पीत्वा चौर्यं कुर्वाणः तस्य पिताया: तं तीव्रतया दण्डितवन्तः तस्य पुस्तकानि छिन्नितानि। यदा प्रौढः अभवत् तदा सः दोषः सम्पूर्णतया: अपगतः।

स्वामिनः सोमदेवस्य दर्शनम्[सम्पादयतु]

रामप्रसादः यदा सर्वकारीयविद्यालये नवम् कक्षायाः छात्रः आसीत् तदा दैवयोगेन स्वामिनः सोमदेवस्य दर्शनम् अभवत्। स्वामी शाहजहाँपुरे आर्यसमाजः भवने आगतवान्। मुन्शी इन्द्रजीतः रामप्रसादं स्वामिनः सेवायां नियुक्तवान्। इतः एव अस्य बालकस्य जीवनस्य दिशायाः परिवर्तनस्य आरम्भः अभवत्। एकत्र दयानन्द सरस्वती कृत सत्यार्थप्रकाशस्य गम्भीराध्ययनम् अपरत्र स्वामिसोमदेवेन सह राजनीतिः विषये मुक्ता चर्चा। अयम् अवसरः बालस्य रामप्रसादस्य मनसि देशप्रेम अङ्कुरितवान्। ख्रिस्ताब्द १९१६ तमे वर्षे सम्भूते काङ्ग्रेस्पक्षस्य अधिवेशने स्वागताध्यक्षः पं.जगतनारायण मुल्ला इत्यस्य आदेशस्य प्रचारं कुर्वाणः तिलकस्य लखनौपत्तने शोभायात्राम् अपश्यत्। तस्य मनः तिलकमहोदयस्य दृढताया आकृष्टम्। अधिवेशनस्य व्याजेन केशवचक्रवर्तिनः, सोमदेवशर्मणः, मुकुन्दीलालस्य तिलकमहोदयस्य परिचयः अभवत्। तदन्तरं सोमदेवशर्मा केनचित् सिद्धगोपालशुक्लेन सह कानपुरस्य साहित्यपुस्तकालयतः पुस्तकस्य प्रकाशनम् अकरोत्। अस्य पुस्तकस्य शीर्षकं अमेरिकाया: स्वतन्त्रतायाः इतिहासः इति। रामप्रसादः स्वमातुः हस्तात् द्विवारे द्विशत-द्विशत रुप्यकाणि स्वीकृत्य प्रकाशितवान्। अस्य उल्लेखम् एषः स्वस्य आत्मचरितम् इतिपुस्तके कृतवान्। मुद्रणस्य अनन्तरं ब्रिटिश अधिकारिभिः अवष्टब्धम्। किन्तु काकोरी-काण्डस्य अभियोगे साक्ष्यरूपेण अयम् एव ग्रन्थः उपयुक्तः। इदानीम् अयं ग्रन्थः पुनः सम्पादयित्वा सरफ़रोशी की तमन्ना इतिनाम्ने ग्रन्थमालाया: हिन्दीभाषायां पुनः प्रकाशितः।

मैनपुरी षड्यन्त्रम्[सम्पादयतु]

ख्रिस्ताब्द १९१५ तमे वर्षे भाई परमानन्दस्य गलपाशदण्डस्य समाचारम् श्रुत्वा रामप्रसादः ब्रिटिश साम्राज्यस्य मूलोत्पाटनं करिष्यामि इति प्रतिज्ञाम् अकरोत्। तस्मिन वर्षे हि कश्चित् ग्रन्थं प्रकाशयत् केचन नवयुवानः अपि तस्य आलम्बनं कृतवन्तः। स्वामिसोमदेवस्य आशीर्वादः तु आसीदेव। तदानीं कस्यचित् सङ्घटनस्य आवश्यकता आसीत्। तदा सः पण्डित.गेंदालाल दीक्षितस्य सहयोगेन मातृवेदी इति सङ्घं अपि रचितवान्। अनेन सङ्घटनेन इश्तिहार् प्रतिज्ञा च प्रकाशितवान्। एतावत् सः बिस्मिलः इति नाम्न प्रसिद्धः अभवत् अतः सङ्घटनस्य संवर्धनार्थं धनसङ्ग्रहः कष्टं न अभवत्। तथापि ख्रिस्ताब्द १९१८ तमे वर्षे जून् मासे अपि च सेप्टम्बर् मासे च ब्रिटिश साम्राज्ये महाचौर्यम् कृतवान्। तदा जागरितः आरक्षकदलः तेषां युवानाम् अन्वेषण प्रयत्नम् अकरोत्। तस्मिन वर्षे हि देहल्याः रक्तदुर्गस्य पुरतः प्रवर्तिते काङ्ग्रेस अधिवेशने देशप्रेम प्रचोदनस्य लेखयुक्तानि पुस्तकानि उद्घोषयन्तः अस्य सङ्घटनस्य युवानः विक्रीतवन्तः।

क्रान्ति-पथे पुनराग्रसर[सम्पादयतु]

१९२२ ख्रिस्ताब्दे तमे वर्षे असहयोग आन्दोलनात चौरीचौरा नगरे उद्भूत हिंसाया: गान्धी महाभाग: तदान्दोलनम् स्वादेशेन परावर्तिता: स्म। असहयोग आन्दोलनस्य स्थगन समाचारं श्रुत्वा मोहनदास कर्मचन्द गान्धिनां प्रति सम्पूर्ण भारतदेशे वितृष्णा संजात:। नवयुवकानाम् आक्रोशित: पश्य रामप्रसादापि तेषाम् सहयोगार्थ क्रान्तिपथे पुनराग्रसर: अभवत। हिन्दुस्तान प्रजातन्त्र संघस्य संविधानपि अनिर्मित:। दलस्य आर्थिक संरचना सुदृढ कुर्वन्नेवेह स: कतिपय सदस्यानाम् सह बलात् धनापहरणस्य योजनायामपि मूर्तरूपं अददात।

हिन्दुस्तानी प्रजातन्त्र संघस्य रचना[सम्पादयतु]

१९२४ ख्रिस्ताब्दे तमे वर्षे स: अन्यानि क्रान्तिकारिण: सह हिन्दुस्तानी प्रजातन्त्र संघस्य संविधान: हिन्दुस्तान रिपब्लिक एसोसियेशन इति नाम्ने अनिर्मित। पंचविंश ख्रिश्ताब्द प्रथम जनवरीम् स: दलस्य घोषणा-पत्र प्रकाशितवान। तं पठितं आंग्लस्य सर्वकार: अति भयाक्रान्त अभवन। सैन्यशस्त्र संचालनक्षमता च अनुभवादि दृष्ट्वा प्रजातन्त्र संघस्य प्रमुख सेनापतिपदे बिस्मिलं प्रतिष्ठित्य शचीन्द्रनाथ सान्यालश्च् योगेशचन्द्र चटर्जी आदि वरिष्ठ जना: दलस्य विस्तार हेतु बंगाल प्रान्ते अगच्छ्न। अथ समयान्तरे बिस्मिलस्योपरि सम्पूर्ण दलस्य भरण-पोषण दायित्व समायातः।

काकोरी-काण्डस्य एतिहासिक घटना[सम्पादयतु]

तदन्तरे "यस्य पादुका तस्य शीश" एतस्मिन हृदये विचार्य स: १९२५ ख्रिस्ताब्दे तमे वर्षे ९ अगस्टे स्वदलस्य अन्यानि नव क्रान्तिकारिण: सह लखनऊ पूर्वे काकोरी नाम्नि स्थले सर्वकारस्य कोष: बलेन हृत:। ब्रिटिश शासनस्य सह तस्य नरव्याघ्रस्य: इदं स्वराष्ट्रं प्रति उन्मुक्ति संग्राम: उद्घोषित:। एतस्मिन क्रोधित भूत्वा सर्वकारस्य हृदये प्रतिशोध भावना संजात:। शासनेन एकस्मिन समये कूट-जाल प्रक्षेपित: बिस्मिलस्य सह चतुर्विंश अन्यापि क्रान्तिकारिण: लखनऊ कारागारे एकत्रीकृत्य सर्वेषु महाभयंकर अभियोगा: अभियोजितवान।

ईदृश महाभयंकर विद्रोहं पश्य सम्पूर्ण भारतवर्षे युवा: जनान्दोलित: बभूव। इयं साधारण घटना नासीत। अस्य अभियोगस्य सह बिस्मिलोपरि आंग्ल शासन विरुद्ध षड्यन्त्र बलाहृता हत्यादि अनेका: अपराधा: आरोपितवान। क्रान्तिकारिभ्य: दशसहस्र महाचौर्य कार्य समकक्षे आरक्षी-अधिवक्ता-साक्ष्ये शासनस्य व्यय दश लक्षाम् कृतवान। क्रान्तिकारिणां प्रति आंग्ल सर्वकारस्य एको अद्भुत: उदाहरणासीत!

बिस्मिलस्य सह चत्वारि एकश: बलिदान:[सम्पादयतु]

यथा हि इदम् सूचना: समाचार पत्रेषु मध्य प्रकाशितवान तर्हि सम्पूर्ण देशे जनता: हा-हाकार कृतवान। मदनमोहन मालवीयः आदिक: वहव: नेतार: प्रयासं कृत्वा सर्वेषु गलपाशदण्डिताया: दयायाचिका वायसराय समीपे प्रेषितवान। किन्तु तस्योपरि न कस्मिश्चिद् प्रभाव: संजात:। स: एकोमपि न मृत्युदण्डस्य अभियोगेन विमुक्त: कृतवान्।

अन्तत: एकोन्विंश शत सप्ताविंश ख्रिस्ताब्दे दिसम्बरस्य मासस्य एकोनविंश तिथि समायात: यदा बिस्मिल:, अशफ़ाकश्च रोशनसिंह: त्रय जना: क्रमश: गोरखपुरे, फ़ैजाबादे च प्रयागस्थ मलाका (नैनी) कारागारे गलपाशे दण्डितवान्।

द्वै दिवसौ पूर्वत: वीर राजेन्द्र लाहिड़ी अपि सप्तादश दिसम्बरे गोण्डा कारागारे गलपाशॆ दण्डितवान्। तेषु बलिदानस्य विंश वर्षस्य पश्चात् हि भारतम् स्वातन्त्र्यं प्राप्नुवान्।

सन्दर्भा:[सम्पादयतु]

  1. आशारानी व्होरा स्वाधीनता सेनानी लेखक-पत्रकार पृष्ठ-१८१
  2. आशारानी व्होरा स्वाधीनता सेनानी लेखक-पत्रकार पृष्ठ-१८३
  3. आशारानी व्होरा स्वाधीनता सेनानी लेखक-पत्रकार (प्रस्तावना)


इमान्यपि दृश्यताम्[सम्पादयतु]

"

"http://sa.wikipedia.org/w/index.php?title=रामप्रसाद_बिस्मिल&oldid=275525" इत्यस्माद् पुनः प्राप्तिः