रामभद्राचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


जगद्गुरुरामभद्राचार्यः
अक्तूबर २५, २००९ दिनाङ्के प्रवचनरतः जगद्गुरुरामभद्राचार्यः
जन्मतिथिः मकरसंक्रान्तिः १४ जनवरी १९५०
जन्मस्थानम् जौनपुरम्, उत्तरप्रदेशः, भारतवर्षम्
पूर्वाश्रमनाम गिरिधरमिश्रः
गुरुः/गुरवः ईश्वरदासमहाराजाः
तत्त्वचिन्तनम् विशिष्टाद्वैतवेदान्तः
सम्मानाः धर्मचक्रवर्ती, महामहोपाध्यायः, श्रीचित्रकूटतुलसीपीठाधीश्वरः, जगद्गुरुरामानन्दाचार्यः, महाकविः, प्रस्थानत्रयीभाष्यकारः, इत्यादि
साहित्यिककृतयः प्रस्थानत्रय्यां राघवकृपाभाष्यम्, श्रीभार्गवराघवीयम्, भृङ्गदूतम्, गीतरामायणम्, श्रीसीतारामसुप्रभातम्, श्रीसीतारामकेलिकौमुदी, अष्टावक्र, इत्यादयः
उक्तिः मानवतैव मम मन्दिरः
अहमेतस्याः एकपूजकः॥
विकलाङ्गाः मम महेश्वराः
अहं त्वेतेषां कृपाभिक्षुकः ॥[१]

जगद्गुरुरामभद्राचार्यः ( /ˈəɡədɡʊrʊrɑːməbhədrɑːxɑːrjəh/) (हिन्दी: जगद्गुरु रामभद्रचार्य, आङ्ग्ल: Jagadguru Ramabhadracharya) पूर्वाश्रमे गिरिधरमिश्राख्यः, आर्यवर्ते उत्तरप्रदेशराज्यस्थचित्रकूटे निवसन्नेकः प्रख्यातविद्ववान् शिक्षाविद् रचनाकारः प्रवचनकारः दार्शनिकः सनातनधर्मगुरुश्चास्ति।[२] सः रामानन्दसम्प्रदायस्य वर्तमानजगद्गुरुरामानन्दाचार्यचतुष्टये एकोऽस्ति, अस्मिन् पदे १९८८तमे ईसवीयाब्दे प्रतिष्ठापितवांश्च।[३][४][५] सः उत्तरप्रदेशराज्ये चित्रकूटस्थस्य तुलसीदासनामस्थापितस्य श्रीतुलसीपीठ इत्यस्य धार्मिकसामाजिकसेवासंस्थानस्य संस्थापकोऽध्यक्षश्च।[६] अपि च, सः चित्रकूटस्थितस्य जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयस्य संस्थापक आजीवनकुलाधिपतिश्च।[७][८] एषो विश्वविद्यालयः चतुर्विधविकलाङ्गविद्यार्थिभ्य एव स्नातकस्नातकोत्तराश्च पाठ्यक्रमोपाधीः प्रददाति। जगद्गुरुरामभद्राचार्यः मासद्वयाल्पायावेव नेत्रज्योतिरहितोऽभवत् – ततः प्रभृति प्रज्ञाचक्षुरेषः।[३][४][९][१०] अध्ययनाय रचनायै वा तेन ब्रेललिपिः कदापि न प्रयुक्ता। बहुभाषाविदस्ति द्वाविंशतिभाषासम्भाषणशौण्डः रामभद्राचार्यः।[९][११][१२] सः संस्कृत हिन्द्य वधी मैथिल्यादिभाषासु आशुकविः रचनाकारश्च। तेन अशीत्यधिकाः ग्रन्थाः प्रणीताः, येषु चत्वारि महाकाव्यानि (संस्कृते द्वे हिन्द्यां द्वे च), रामचरितमानसे हिन्दीटीका, अष्टाध्याय्यां काव्यात्मकसंस्कृतटीका, प्रस्थानत्रयीसंस्कृतभाष्यानि च सम्मिलितानि।[१३] सः तुलसीदाससाहित्यक्षेत्रे भारतस्य सर्वश्रेष्ठविशेषज्ञेषु गण्यते,[१०][१४][१५] रामचरितमानसस्य एकायाः प्रामाणिकप्रत्याः सम्पादकश्च, एषा प्रतिकृतिः तुलसीपीठेन प्रकाशिता।[१६] स्वामिरामभद्राचार्यः रामायणभागवतयोः सुप्रसिद्धकथाकारः वर्तते – भारतस्य भिन्नभिन्ननगरेषु विदेशेषु च तस्य कथाकार्यक्रमाः नियमितरूपेणायुज्यन्ते संस्कारटीवीसनातनटीवीत्यादिचैनलेषु प्रसार्यन्ते च।[१७][१८][१९][२०][२१][२२]

जनिः बाल्यकालश्च[सम्पादयतु]

जगद्गुरुरामभद्राचार्यस्य जनिर्भारतवर्षे उत्तरप्रदेशराज्ये जौनपुरजनपदान्तर्वर्तिनि शाण्डिखुर्दनामके ग्रामे एकस्मिन् वसिष्ठगोत्रिये सरयूपारीणब्राह्मणकुले पञ्चाशदुत्तरैकोनविंशतिशते ईसवीयाब्दे मकरसङ्क्रान्तौ (१४ जनवरी १९५० दिनाङ्के) तदनुसारे माघमासे कृष्णपक्षे एकादश्यां तिथौ रात्र्यां १०:३४ वादने श्रीराजदेवमिश्रस्य चतुर्थापत्यरूपेण श्रीमतीशचीदेव्याः कुक्षितः समभवत्। तस्य पितामहस्य मिश्रसूर्यबलीमहोदयस्य एका पितृव्यात्मजा मीराबाय्याः भक्तासीत्तस्मात् सा नवजातस्य बालकस्य नामकरणं गिरिधर इति कृतवती।[९][२३]

दृष्टिबाधनम्[सम्पादयतु]

दैवदुर्विपाकाद्गिरिधरस्य नेत्रदृष्टिः मासद्वयावधौ गता। मार्च २४, १९५० दिनाङ्के बालकस्य नेत्रयोः रोहुआरोगोऽपस्थितोऽभवत्। ग्राम्यक्षेत्रेषु तदाधुनिकचिकित्सानुपलब्धासीत्। शिशुरेकायाः वृद्धायाः चिकित्सिकायारन्तिके नीतः या रोहुआनिदानाय ख्याता। चिकित्सिका गिरिधरस्य नेत्रयोरेकमुष्णद्रव्यं निक्षिप्त्वती, परन्तु रक्तस्रावेण गिरिधरस्य उभयोर्नेत्रयोर्दृष्टिः नष्टा।[२४] ईक्षणचिकित्सायै बालकं तस्य परिवारः सीतापुरे, लखनऊनगर्यां मुम्बईनगरे च विभिन्नायुर्वेदहोमियोपैथीपाश्चात्यचिकित्साविशेषज्ञानामन्तिके नीतवान्, परन्तु गिरिधरस्य नेत्रयोरुपचारं कारयितुं नाशक्नोत्।[२३] गिरिधरमिश्रः ततः प्रभृति प्रज्ञाचक्षुः। न तु सः पठितुं शक्नोति नैव च लेखितुं, न च ब्रेललिपिं युञ्जते - एकश्रुतः सः केवलं श्रुत्वा शास्त्राणि साधयत्युक्त्वा च लिपिकारेभ्यः स्वरचनाः लेखयति।[२४]

प्रथमकाव्यरचना[सम्पादयतु]

गिरिधरस्य जनकः मुम्बईनगरे कार्यरत आसीदतः तस्य प्रारम्भिका शिक्षा गृहे एव पितामहसन्निधौ सम्पन्ना। प्रत्यपराह्णं पितामहः तस्मै रामायणमहाभारतविश्रामसागरसुखसागरप्रेमसागरब्रजविलासादीनां काव्यानां पदानि श्रावितवान्। गिरिधरेण त्रयवर्षाल्पावस्थायामवधीभाषायां सर्वप्रथमकवितामराचि पितामहायाश्रावि च। पदेऽस्मिन् कृष्णमाता यशोदैकां गोपिकां तया श्रीकृष्णेन सह कृताय कलहाय तर्जयति।[२३]

मेरे गिरिधारी जी से काहे लरी ॥

तुम तरुणी मेरो गिरिधर बालक काहे भुजा पकरी ॥
सुसुकि सुसुकि मेरो गिरिधर रोवत तू मुसुकात खरी ॥
तू अहिरिन अतिसय झगराऊ बरबस आय खरी ॥
गिरिधर कर गहि कहत जसोदा आँचर ओट करी ॥

अस्य संस्कृते रूपान्तरम् –

गिरिधरेण मम कथं कलहवती ॥

त्वं तरुणी बालो मम गिरिधरः किमर्थं भुजामस्य त्वं धृतवती ॥
हिक्कासहितो रोदिति गिरिधरः त्वमत्र च स्मितवती स्थितवती ॥
गोपीकन्या त्वमतिशयिता कलहिनी हठादागतवती ॥
गिरिधरकरं गृहीत्वा कथयति यशोदा अवगुण्ठनधृतवती ॥

गीतामानसयोः ज्ञानम्[सम्पादयतु]

एकश्रुतप्रतिभासम्पन्नेन गिरिधरेण पञ्चवर्षावस्थायां तस्य पार्श्ववासिनः पण्डितमुरलीधरमिश्रस्य साहाय्येन पञ्चदशदिवसेष्वेव श्लोकसङ्ख्यासहिता सम्पूर्णा भगवद्गीता कण्ठस्थीकृता। १९५५तमे ईसवीयाब्दे सः जन्माष्टम्यां गीतायाः सम्पूर्णपाठमकरोत्।[१०][२३][२५] संयोगवशात् गीताकण्ठस्थीकरणस्य द्विपञ्चाशद्वर्षाण्यनन्तरं नवम्बर ३०, २००७ दिनाङ्के जगद्गुरुरामभद्राचार्यः संस्कृतमूलपाठहिन्दीटीकासहितायाः भगवद्गीतायाः सर्वप्रथमब्रेललिप्यङ्कितसंस्करणममुञ्चत्।[२६][२७][२८][२९] सप्तवर्षीयवयसि गिरिधरः स्वपितामहस्य साहाय्येन छन्दसङ्ख्यासार्धं गोस्वामितुलसीदासकृतं सम्पूर्णं श्रीरामचरितमानसं षष्टिदिवसेषु कण्ठस्थीकृतवान्। १९५७ ईसवीयाब्दे रामनवम्यां व्रतानुतिष्ठितौ तेन मानसस्य पूर्णपाठः कृतः।[२३][२५] कालान्तरे गिरिधरेण समस्तवैदिकवाङ्मयः, संस्कृतव्याकरणग्रन्थानि, श्रीमद्भागवतं, प्रमुखा उपनिषदः, तुलसीदासनिखिलरचना अनेकेतराः संस्कृतभारतीयसाहित्यरचनाश्च कण्ठस्थीकृताः।[१०][२३]

उपनयनं कथावाचनं च[सम्पादयतु]

पौगण्डगिरिधरमिश्रस्य उपनयनसंस्कारः जून २४, १९६१ दिनाङ्के निर्जलैकादश्यामभवत्। अयोध्यानिवासिनः पण्डितेश्वरदासमहाराजाः तस्मै गायत्रीमन्त्रस्य राममन्त्रस्यदीक्षां प्राददुः। भगवद्गीतारामचरितमानसयोः स्वल्पायायेवाभ्यासं कृत्वा गिरिधरः नियमितरूपेण स्वग्रामसमीपे पुरुषोत्तममासे रामकथाकार्यक्रमेषु गच्छति स्म। द्विवारं कार्यक्रमे गत्वा तृतीयकार्यक्रमे सः एकां रामचरितमानसकथां प्रस्तुतवान्, यामनेककथावाचकाः स्तुतवन्तः।[२३]

औपचारिकशिक्षा[सम्पादयतु]

उच्चविद्यालयीयशिक्षा[सम्पादयतु]

७ जुलाई १९६७ दिनाङ्के जौनपुरस्थितादर्शगौरीशङ्करसंस्कृतमहाविद्यालयाद्गिरिधरमिश्रेणौपचारिकशिक्षा प्रारब्धा। सः तत्र संस्कृतव्याकरणसार्धान् हिन्द्याङ्ग्लभाषागणितभूगोलैतिहासविषयानधीत्वान्।[३०] अत्रापि एकश्रुतेन गिरिधरमिश्रेण कदापि ब्रेललिप्यादिसाधनानि न प्रयुक्तानि। मासत्रये सः वरदराजाचार्यविरचितां लघुसिद्धान्तकौमुदीं साधितवान्।[३०] प्रथमायाः प्रारभ्य मध्यमां यावत्सर्वपरीक्षासु चतुर्वर्षपर्यन्तं कक्षायां सः प्रथमस्थानं लब्ध्वोच्चतरशिक्षायै सम्पूर्णानन्दसंस्कृतविश्वविद्यालयमगात्[२५]

गीर्वाणभाषायां प्रथमकाव्यरचना[सम्पादयतु]

आदर्शगौरीशंकरसंस्कृतमहाविद्यालये गिरिधरेण छन्दःप्रभाध्ययनोद्यतेनाचार्यपिङ्गलप्रणीतानि अष्टगणान्यधीतानि। आगामिदिवसे एव सः संस्कृतभाषायां स्वस्य प्रथमपदं भुजङ्गप्रयातछन्दस्यरचयत्।[३०]

महाघोरशोकाग्निनातप्यमानं पतन्तं निरासारसंसारसिन्धौ ।

अनाथं जडं मोहपाशेन बद्धं प्रभो पाहि मां सेवकक्लेशहर्त्तः ॥

युवावस्थायां गिरिधरमिश्रः

स्नातकीया स्नातकोत्तरीया च शिक्षा[सम्पादयतु]

१९७१ ईसवीयाब्दे गिरिधरमिश्रः वाराणस्यां सम्पूर्णानन्दसंस्कृतविश्वविद्यालये संस्कृतव्याकरणे शास्त्र्युपाध्याः (स्नातकोपाध्याः) अध्ययनाय प्रविष्टवान्।[३०] १९७४ ईसवीयाब्दे सर्वाधिकाङ्कः सविशेषाङ्कः सन् सः शास्त्र्युपाधिपरीक्षां उत्तीर्णवान्। तत्पश्चात् तेन आचार्योपाध्याः (परास्नातकोपाध्याः) अध्ययनाय तस्मिन्नेव विश्वविद्यालये पञ्जीकरणमकारि। परास्नातकाध्ययनसमये १९७४ ईसवीयाब्देऽखिलभारतीयसंस्कृतअधिवेशने गिरिधरमिश्रः नवदेहलीं समायातः। अधिवेशने सः व्याकरणे, साङ्ख्ये, न्याये, वेदान्तेऽन्त्याक्षर्यां पञ्चस्वर्णपदकानि विजितवान्।[३] भारतस्य तत्कालीना प्रधानमन्त्रिणी श्रीमतीन्दिरागान्धी तस्मै सस्वर्णपदकपञ्चकं उत्तरप्रदेशराज्याय चलवैजयन्तीपुरस्कारं प्रादात्।[२५] गिरिधरमिश्रस्य योग्यताभ्यः प्रभाविता श्रीमतीगान्धी तं चक्षुचिकित्सायै संयुक्तराज्यामेरिकां प्रेषितुं प्रस्तावितवती, परन्तु गिरिधरमिश्रेणैतं प्रस्तावमस्व्यकारि।[२४] १९७६ ईस्वीयाब्दे गिरिधरः सप्तस्वर्णपदकैः सह कुलाधिपतिस्वर्णपदकं लब्ध्वाचार्यपरीक्षामुत्तीर्णवान्।[२५] तस्यैका विरलोपलब्धिरियमासीद्यत्केवलव्याकरणे आचार्योपाधिहेतुकृतपञ्जीकरणं गिरिधरमिश्रं तस्य चतुर्मुखीज्ञानाय विश्वविद्यालयः तं ३० अप्रैल, १९७६ दिनाङ्के विश्वविद्यालयेऽध्यापितानां सर्वेषां विषयाणामाचार्यं घोषितवान्।[२४][३१]

विद्यावारिधिवाचस्पत्युपाधी[सम्पादयतु]

आचार्योपाधिं लब्ध्वानन्तरं गिरिधरमिश्रः विद्यावारिध्युपाध्याः (पी एच डी) शोधकार्याय विश्वविद्यालये पण्डितरामप्रसादत्रिपाठीनिर्देशकत्त्वे पंजीकृतवान्। सः विश्वविद्यालयानुदानायोगस्य शोधकार्याध्येतावृत्तिं च लब्धवान्, परन्त्वागामिवर्षेष्वनेकार्थिकविपत्तयः दृष्टवान्।[२४] विपरीतपरिस्तिथिषु अक्टूबर १४, १९८१ दिनाङ्के गिरिधरमिश्रेण संस्कृतव्याकरणे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयतः विद्यावारिध्युपाधिमर्जिता। तस्य शोधकार्यस्य शीर्षक आसीत् अध्यात्मरामायणे अपाणिनीयप्रयोगानां विमर्शः, अस्मिन् शोधकार्ये तेनाध्यात्मरामायणे पाणिनीयव्याकरणासम्मतप्रयोगानां विमर्शः कृतः। विद्यावारिध्युपाधिं तस्मै दत्त्वा विश्वविद्यालयानुदानायोगः तं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य व्याकरणविभागाध्यक्षपदे च नियुक्तवान्। परन्तु स्वजीवनं धर्मसमाजविकलाङ्गसेवायां होतुं कृतसङ्कल्पः गिरिधरमिश्र इमां नियुक्तिमस्व्यकरोत्।[२४]

१९९७ ईसवीयाब्दे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः तस्मै तस्य अष्टाध्याय्याः प्रतिसूत्रं शाब्दबोधसमीक्षणम् इतिशोधकार्ये वाचस्पत्युपाधिं (डी लिट् उपाधिं) प्रादात्। अस्मिन् शोधकार्ये गिरिधरमिश्रेणाष्टाध्याय्याः प्रत्येकसूत्रे संस्कृतपद्यटीकाराचि।[३०]

विरक्तदीक्षा तदनन्तरजीवनं च[सम्पादयतु]

१९७६ ईसवीयाब्दे गिरिधरमिश्रेण करपात्रीमहाराजाय रामचरितमानसकथाश्रावि। स्वामीकरपात्री तस्मै वीरव्रतं धृत्वाजीवनं ब्रह्मचर्यं चरितुं कस्मिंश्चिद् वैष्णवसम्प्रदाये दीक्षितो भवितुमुपदिष्ट्वान्।[३२] नवम्बर १९, १९८३ दिनाङ्के गिरिधरमिश्रः व्रतानिपौर्णमास्यां रामानन्दसम्प्रदाये श्रीश्री१००८श्रीरामचरणदासमहाराजफलाहारीतः विरक्तदीक्षामलभत्। एतदनन्तरं गिरिधरमिश्रः रामभद्रदास इति नाम्नाख्यातः।[३२]

पयोव्रतानि[सम्पादयतु]

गोस्वामितुलसीदासविरचितायाः दोहावल्याः निम्नलिखितपञ्चद्विपादानुसारं गिरिधरमिश्रः १९७९ ईसवीयाब्दे चित्रकूटे षण्मासपर्यन्तं मात्रदुग्धफलाहारी भूत्वा प्रथमषाण्मासिकपयोव्रतमन्वतिष्ठत्।[३२][३३][३४]

पय अहार फल खाइ जपु राम नाम षट मास ।

सकल सुमंगल सिद्धि सब करतल तुलसीदास ॥

अस्य संस्कृते रूपान्तरम् –

दुग्धफलानि भुक्त्वा षण्मासान् रामं जपेर्नर ।

तुलसीदाससाक्ष्यत्वात्करस्थाः शंसुसिद्धयः ॥

१९८३ ईसवीयाब्दे तेन चित्रकूटे स्फटिकशिलान्तिके द्वितीयं षाण्मासिकपयोव्रतानुष्ठानं कृतम्।[३२] पयोव्रतानि स्वामिरामभद्राचार्यस्य जीवनस्य नियमितव्रतानि वर्तन्ते। २००२ ईसवीयाब्दे षष्ठषाण्मासिकपयोव्रतानुष्ठितौ तेन श्रीभार्गवराघवीयं नामसंस्कृतमहाकाव्यमकारि।[३५][३६] अध्यावधिं सः नियमितरूण षाण्मासिकपयोव्रतान्यनुतिष्ठति, २०१०-२०११ ईस्वीयाब्दयोः सः नवमपयोव्रतमनुष्ठितवान्।[३७][३८][३९]

अक्टूबर २५, २००९ दिनाङ्के चित्रकूटस्थिते तुलसीपीठे गोस्वामितुलसीदासप्रतिमामाल्यार्पणं कुर्वन् जगद्गुरुरामभद्राचार्यः

श्रीतुलसीपीठः[सम्पादयतु]

१९८७ ईसवीयाब्दे रामभद्रदासः चित्रकूटे श्रीतुलसीपीठाभिधानमेकं धार्मिकसामाजिकसेवासंस्थानं स्थापितवान्, यत्र रामायणानुसारं श्रीरामः वनवासावधौ द्वादशवर्शाणि न्यवसत्।[४०] पीठस्थापनानन्तरं साधुविद्वज्जनैः रामभद्रदासः श्रीचित्रकूटतुलसीपीठाधीश्वरः इत्युपाधिनालङ्कृतः। अस्मिन् श्रीतुलसीपीठे सः एकं सीताराममन्दिरं च निर्माणितवान्, यं जनाः काचमन्दिरनाम्ना जानन्ति।[४०]

जगद्गुरुः[सम्पादयतु]

जगद्गुरु इति सनातनधर्मे प्रयुक्त एक उपाधिर्यः पारम्परिकरूपेण वेदान्तदर्शनस्य तेभ्य आचार्येभ्यर्दीयते ये प्रस्थानत्रय्यां (ब्रह्मसूत्रे भगवद्गीतायां प्रमुखोपनिषत्सु च) संस्कृतभाष्याणि रचयन्ति। मध्यकाले आर्यावर्ते षट् प्रस्थानत्रयीभाष्यकाराः समभवन् – शङ्कराचार्यो निम्बार्काचार्यो रामानुजाचार्यो मध्वाचार्यो रामानन्दाचार्यो वल्लभाचार्यश्चरमश्च (१४७९तः१५३१यावदीसवीयाब्दाः)। वल्लभाचार्यानन्तरं वर्षाणि पञ्चशतानि यावत्प्रस्थानत्रय्यां भाष्याणि न लिखितान्यासन्।[४१]

जून २४, १९८८ दिनाङ्के वाराणस्याः काशीविद्वत्परिषद्रामभद्रदासं तुलसीपीठस्थजगद्गुरुरामानन्दाचार्यरूपेण चितवती।[५] ३ फ़रवरी १९८९ दिनाङ्के प्रयागनगरे महाकुम्भे रामानन्दसम्प्रदायस्य त्रयाणामप्यखाडानां सर्वे महन्तैः खालसाभिः सन्तभिः सर्वसम्मत्या काशीविद्वत्परिषदः निर्णयस्य समर्थनमकारि।[४२] अस्यानन्तरं १ अगस्त १९९५ दिनाङ्के अयोध्यायां दिगम्बराखाडा रामभद्रदासस्य जगद्गुरुरामानन्दाचार्यरूपेण विधिवदभ्यसिञ्चत्।[३] ततः प्रभृति रामभद्रदासः जगद्गुरुरामानन्दाचार्यस्वामिरामभद्राचार्यः इति नाम्ना ख्यातः। अनन्तरं तेन ब्रह्मसूत्तेषु भगवद्गीतायामेकादशोपनिषत्सु (कठकेनमाण्डूक्येशावास्यप्रश्नतैत्तिरीयैतरेयश्वेताश्वतरछान्दोग्यबृहदारण्यकमुण्डकेषु) संस्कृते श्रीराघवकृपाभाष्याणि विरचितानि। भाष्याणां प्रकाशनं १९९८ ईसवीयाब्दे अभवत्।[१३] सः पुरा एव नारदभक्तिसूत्रेषु रामराजस्तोत्रे संस्कृते राघवकृपाभाष्ये रचितवानासीत्। इत्थं स्वामिरामभद्राचार्येण शतपञ्चवर्षेषु प्रथमवारं संस्कृतप्रस्थानत्रयीभाष्यकारः भूत्वा विलुप्ता जगद्गुरुपरम्परा पुनर्जीविता रामानन्दसम्प्रदायाय स्वयंरामानन्दाचार्यविरचितस्य आनन्दभाष्यस्यानन्तरं प्रस्थानत्रय्यां द्वितीयसंस्कृतभाष्यं दत्तं च।[४१][४३]

अयोध्याविवादे साक्षित्वम्[सम्पादयतु]

जुलाई २००३ ईसवीयाब्दे जगद्गुरुरामभद्राचार्यः प्रयागोच्चन्यायालयस्य पुरतः अयोध्याविवादे पञ्चमापरमूलाभियोगान्तर्गते धार्मिकविषयाणां विशेषज्ञरूपेण साक्षी भूत्वा प्रास्तौत् (साक्षी सङ्ख्या ओ पी डब्लु १६)।[४४][४५][४६] तस्य शपथपत्रस्य प्रश्नोत्तरस्य च कतिपयांशाः न्यायालयस्य निर्णये उद्धृताः।[४७][४८][४९] स्वस्मिन् शपथपत्रे तेन सनातनधर्मस्य प्राचीनशास्त्राणां (वाल्मीकिरामायणस्य रामतापनीयोपनिषदः स्कन्दपुराणस्य यजुर्वेदस्य अथर्ववेदस्य इत्यादि) ताः उक्तयः उद्धृताः याः तस्य मते अयोध्यामेकां पवित्रतीर्थपुरीं श्रीरामस्य जन्मस्थलीं च साधयन्ति। तेन तुलसीदासस्य कृतिद्वयान्नवछन्दांसि (तुलसीदोहाशतकादष्ट द्विपादानि, कवितावलीतः एकं कवित्तं च) उद्धृतानि येषु तस्य मते तुलसीदासेन अयोध्यायां मन्दिरस्यभङ्गस्य विवादितस्थल्यां यवनोपासनालयनिर्माणस्य वर्णितमस्ति।[४७] प्रश्नोत्तरस्य समये तेन रामानन्दसम्प्रदायस्येतिहासः तस्य मठाः, महन्तसम्बन्धिनियमाः अखाडास्थापनासंचालनं गोस्वामितुलसीदासस्य कृतयः विस्तारेण वर्णिताः।[४७] मूलमन्दिरः विवादितस्थानस्योत्तरे आसीदिति प्रतिपक्षस्थापिततर्कस्य निरसनं कुर्वन् तेन स्कन्दपुराणस्य अयोध्यामाहात्म्ये वर्णिताः रामजन्मभूम्याः सीमाः वर्णिताः, याः न्यायमूर्तिसुधीराग्रवालेन विवादितस्थलस्य वर्तमानस्थानेन मिलन्त्यः अभिज्ञाताः।[४७]

जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयः[सम्पादयतु]

जनवरी २, २००५ दिनाङ्के विकलाङ्गविश्वविद्यालयस्य परिसरे मुख्यभवनसम्मुखे अस्थिविकलाङ्गविद्यार्थिभ्यः सार्धं कुलाधिपतिः जगद्गुरुरामभद्राचार्यः

२३ अगस्त १९९६ दिनाङ्के स्वामिरामभद्राचार्यः चित्रकूटे दृष्टिहीनविद्यार्थिभ्यः तुलसीप्रज्ञाचक्षुविद्यालयनाम्ना एकं विद्यालयं स्थापितवान्।[२४][४०] तत्पश्चात्सः केवलविकलाङ्गविद्यार्थिविद्यार्थिभ्यः उच्चशिक्षाप्राप्तये एकसंस्थानं स्थापितुमुपचक्रे। अनेनोद्देशेन सः सितम्बर २७, २००१ ई दिनाङ्के उत्तरप्रदेशराज्ये चित्रकूटे जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयं स्थापितवान्।[५०][५१] एषः विद्यालयः भारतस्य विश्वस्य च प्रथमो विकलाङ्गविश्वविद्यालयोऽस्ति।[५२][५३] अस्य विश्वविद्यालयस्य गठनमुत्तरप्रदेशसरकारस्य एकाध्यादेशेन कृतं, यः पश्चादुत्तरप्रदेशसर्वकाराधिनियमः ३२ (२००१) रूपेण विधायिकया पारितः।[५४][५५][५६][५७] अधिनियमेनानेन स्वामिरामभद्राचार्यः विश्वविद्यालयस्य जीवनपर्यन्तकुलाधिपतिश्च नियुक्तः। एषो विश्वविद्यालयः संस्कृतहिन्द्याङ्ग्लभाषासु समाजशास्त्रमनोविज्ञानसङ्गीतेषु चित्रकलायां (रेखाचित्रे रङ्गचित्रे च), ललितकलायां विशेषशिक्षणप्रशिक्षणयोः इतिहाससंस्कृतिपुरातत्त्वशास्त्रेषु संगणकसूचनाविज्ञाने व्यावसायिकशिक्षणे विधिशास्त्रार्थशास्त्रयोः अङ्गउपयोजना ङ्गसमर्थनयोश्च स्नातकपरास्नातकवाचस्पत्युपाधीः प्रददाति।[५८] विश्वविद्यालये २०१३ ईसवीयाब्दतः आयुर्वेदचिकित्साशास्त्रयोः (मेडिकलविज्ञानस्य) अध्यापनं प्रस्तावितमस्ति।[५९] विश्वविद्यालये केवलचतुर्विधविकलाङ्गाः – दृष्टिबाधिताः मूकबधिराः अस्थिविकलाङ्गाः (पङ्गवः भुजाहीनाश्च) मानसिकविकलाङ्गाश्च प्रवेष्टुं शक्नुवन्ति, यथा भारतसर्वकारस्य १९९५तमस्य ईसवीयाब्दस्य विकलाङ्गताधिनियमे निरूपितमस्ति। उत्तरप्रदेशसर्वकारमते एषो विश्वविद्यालयः प्रदेशस्य प्रमुखसूचनाप्रौद्योगिकीलेक्ट्रानिक्सशैक्षणिकसंस्थासु एकः।[६०] मार्च २०१० ईसवीयाब्दे विश्वविद्यालयस्य द्वितीयदीक्षान्तसमारोहे ३५४ विद्यार्थिभ्यः विभिन्नशैक्षणिकोपाधयः प्रदत्ताः।[६१][६२][६३] जनवरी २०११ ईसवीयाब्दे आयोजिते तृतीयदीक्षान्तसमारोहे ३८८ विद्यार्थिभ्यः शैक्षणिकोपाधयः प्रदत्ताः।[६४][६५]

रामचरितमानसस्य प्रामाणिका प्रतिकृतिः[सम्पादयतु]

कृतयः[सम्पादयतु]

अक्टूबर ३०, २००२ दिनाङ्के श्रीभार्गवराघवीयसंस्कृतमहाकाव्यस्य लोकार्पणं कुर्वन्तः भारतस्य तत्कालीनप्रधानमन्त्रिणः श्रीअटलबिहारीवाजपेयीमहाभागाः। जगद्गुरुरामभद्राचार्याः चित्रस्य वामभागे सन्ति।

काव्यानि[सम्पादयतु]

महाकाव्यानि
खण्डकाव्यानि
  • आजादचन्द्रशेखरचरितम्
  • लघुरघुवरम्
  • सरयूलहरी
  • भृङ्गदूतम् (२००४)।
  • काका विदुर
पत्रकाव्यम्
  • कुब्जापत्रम्
गीतकाव्यानि
रीतिकाव्यम्
शतककाव्यानि
  • श्रीरामभक्तिसर्वस्वम्
  • आर्याशतकम्
  • चण्डीशतकम्
  • राघवेन्द्रशतकम्
  • गणपतिशतकम्
  • श्रीराघवचरणचिह्नशतकम्
स्तोत्रकाव्यानि
  • श्रीगङ्गामहिम्नस्तोत्रम्
  • श्रीजानकीकृपाकटाक्षस्तोत्रम्
  • श्रीरामवल्लभास्तोत्रम्
  • श्रीचित्रकूटविहार्यष्टकम्
  • भक्तिसारसर्वत्रम्
  • श्रीराघवभावदर्शनम्
सुप्रभातकाव्यम्
भाष्यकाव्यम्
  • अष्टाध्याय्याः प्रतिसूत्रं शाब्दबोधसमीक्षणम्|

नाटकानि[सम्पादयतु]

नाटककाव्यानि
  • श्रीराघवाभ्युदयम्
  • उत्साह

गद्यकृतयः[सम्पादयतु]

जगद्गुरुरामभद्राचार्यरचितपुस्तकग्रन्थाः (सम्पादितश्रीरामचरितमानसप्रतिसहिताः)
प्रस्थानत्रय्यां संस्कृतभाष्याणि
  • श्रीब्रह्मसूत्रेषु श्रीराघवकृपाभाष्यम्
  • श्रीमद्भगवद्गीतासु श्रीराघवकृपाभाष्यम्
  • कठोपनिषदि श्रीराघवकृपाभाष्यम्
  • केनोपनिषदि श्रीराघवकृपाभाष्यम्
  • माण्डूक्योपनिषदि श्रीराघवकृपाभाष्यम्
  • ईशावास्योपनिषदि श्रीराघवकृपाभाष्यम्
  • प्रश्नोपनिषदि श्रीराघवकृपाभाष्यम्
  • तैत्तिरीयोपनिषदि श्रीराघवकृपाभाष्यम्
  • ऐतरेयोपनिषदि श्रीराघवकृपाभाष्यम्
  • श्वेताश्वतरोपनिषदि श्रीराघवकृपाभाष्यम्
  • छान्दोग्योपनिषदि श्रीराघवकृपाभाष्यम्
  • बृहदारण्यकोपनिषदि श्रीराघवकृपाभाष्यम्
  • मुण्डकोपनिषदि श्रीराघवकृपाभाष्यम्
अन्यसंस्कृतभाष्यानि
  • श्रीनारदभक्तिसूत्रेषु श्रीराघवकृपाभाष्यम्
  • श्रीरामस्तवराजस्तोत्रे श्रीराघवकृपाभाष्यम्
हिन्दीभाष्यानि
  • महावीरी
  • भावार्थबोधिनी
  • श्रीराघवकृपाभाष्य
विमर्शाः
  • अध्यात्मरामायणे अपाणिनीयप्रयोगानां विमर्शः।
  • श्रीरासपञ्चाध्यायीविमर्शः (२००७)।
प्रवचनसंग्रहाः
  • तुम पावक मँह करहु निवासा (२००४)।
  • अहल्योद्धार (२००६)।
  • हर ते भे हनुमान (२००८)।

पुरस्काराः सम्मानाश्च[सम्पादयतु]

विरक्तदीक्षानन्तरे प्राप्ताः[सम्पादयतु]

२००६ ईसवीयाब्दे तत्कालीनलोकसभाध्यक्षेन सोमनाथचटर्जीमहाभागेन श्रीवाण्यलङ्करणपुरस्कारेण सम्मान्यमानः जगद्गुरुरामभद्राचार्यः
मार्च ३०, २००६ दिनाङ्के तत्कालीनराष्ट्रपतिना एपीजेअब्दुलकलाममहाभागेन प्रशस्तिपत्रेण पुरस्क्रियमाणः जगद्गुरुरामभद्राचार्यः
  • २०११। शिमलानगरे हिमाचलप्रदेशसर्वकाराद्देवभूमिपुरस्कारः। हिमाचलप्रदेशस्य तत्कालीनप्रधानन्यायाधीशेन जोसेफ़कुरियनेन प्रदत्तः।[६६]
  • २००८। श्रीभार्गवराघवीयाय केकेबिड़लाप्रतिष्ठानात् श्रीवाचस्पतिपुरस्कारः। राजस्थानप्रान्तस्य तत्कालीनराज्यपालेन शैलेन्द्रकुमारसिंहेन प्रदत्तः।[६७][६८]
  • २००७। प्रयागनगरनिगमान्तर्गतात्तुलसीशोधसंस्थानाद्गोस्वामितुलसीदाससमर्चनसम्मानः। भारतस्य भूतपूर्वप्रधानन्यायाधीशेन रमेशचन्द्रलाहोटीमहाभागेन प्रदत्तः।[६९]
  • २००६। प्रयागहिन्दीसाहित्यसम्मलेनात् संस्कृतमहामहोपाध्यायः।[७०]
  • २००६। श्रीभार्गवराघवीयाय जयदयालडालमियाश्रीवाणीट्रस्टात् श्रीवाण्यलङ्करणपुरस्कारः। तत्कालीनलोकसभाध्यक्षेण सोमनाथचटर्जीमहाभागेन प्रदत्तः।[२]
  • २००६। श्रीभार्गवराघवीयाय मध्यप्रदेशसंस्कृतसंस्थानात् भोपालस्थाद्बाणभट्टपुरस्कारः[९]
  • २००५। श्रीभार्गवराघवीयाय संस्कृते साहित्याकादमीपुरस्कारः।[७१]
  • २००४। बादरायणपुरस्कारः। तत्कालीनभारतीयराष्ट्रपतिना अब्दुलकलाममहाभागेन प्रदत्तः।[७२]
  • २००३। मध्यप्रदेशसंस्कृताकादमीतः राजशेखरसम्मानः।[७२]
  • २००३। लखनऊस्थिताद्भाऊरावदेवरससेवान्यासात् भाऊरावदेवरसपुरस्कारः।[७३][७४]
  • २००३। दीवालीबेनमेहताचैरीटेबलट्रस्टात् धर्मसंस्कृत्योः प्रगत्यै दीवालीबेनपुरस्कारः। भारतस्य भूतपूर्वप्रमुखन्यायाधीशेन पीएनभगवतीमहाभागेन प्रदत्तः।[७५]
  • २००३। लखनऊस्थितादुत्तरप्रदेशसंस्कृतसंस्थानादतिविशिष्टपुरस्कारः।[७२]
  • २००२। वाराणसीस्थितात्सम्पूर्णानन्दसंस्कृतविश्वविद्यालयात्कविकुलरत्नोपाधिः।[७२]
  • २०००। लखनऊस्थितादुत्तरप्रदेशसंस्कृतसंस्थानाद्विशिष्टपुरस्कारः।[७६]
  • २०००। देहलीस्थिताल्लालबहादुरशास्त्रीसंस्कृतविद्यापीठान्महामहोपाध्यायोपाधिः[७७]
  • १९९८। विश्वधर्मसंसदः धर्मचक्रवर्त्युपाधिः।[७२]

पूर्वाश्रमेऽवाप्ताः[सम्पादयतु]

  • १९७६। वाराणसीस्थितात्सम्पूर्णानन्दसंस्कृतविश्वविद्यालयात्कुलाधिपतिस्वर्णपदकम्।[२५]
  • १९७६-७७। वाराणसीस्थितात्सम्पूर्णानन्दसंस्कृतविश्वविद्यालयादाचार्यपरीक्षासु सप्तस्वर्णपदकानि।[२५][३०]
  • १९७५। अखिलभारतीयसंस्कृतवादविवादप्रतियोगितायां पञ्चस्वर्णपदकानि।[३][२५]
  • १९७४। वाराणसीस्थितात्सम्पूर्णानन्दसंस्कृतविश्वविद्यालयात्शास्त्रीपरीक्षायां स्वर्णपदकम्।[३०]

सन्दर्भाः[सम्पादयतु]

  1. "जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय" (in हिन्दी). श्री तुलसी पीठ सेवा न्यास. 2003. आह्रियत जून २१, २०११. 
  2. २.० २.१ लोक सभा, अध्यक्ष कार्यालय. "Speeches" (in आङ्ग्लभाषा). आह्रियत मार्च ८, २०११. "Swami Rambhadracharya, ..., is a celebrated Sanskrit scholar and educationist of great merit and achievement. ... His academic accomplishments are many and several prestigious Universities have conferred their honorary degrees on him. A polyglot, he has composed poems in many Indian languages. He has also authored about 75 books on diverse themes having a bearing on our culture, heritage, traditions and philosophy which have received appreciation. A builder of several institutions, he started the Vikalanga Vishwavidyalaya at Chitrakoot, of which he is the lifelong Chancellor.)" 
  3. ३.० ३.१ ३.२ ३.३ ३.४ चन्द्रा, आर (सितम्बर २००८). "जीवन यात्रा". क्रान्ति भारत समाचार (in हिन्दी) (लखनऊ, उत्तर प्रदेश, भारत) (११): २२–२३. 
  4. ४.० ४.१ अग्रवाल २०१०, पृष्ठ ११०८-१११०।
  5. ५.० ५.१ दिनकर २००८, पृष्ठ ३२।
  6. नागर २००२, पृष्ठ ९१।
  7. "The Chancellor" (in आङ्ग्लभाषा). जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय. Archived from the original on 2010-05-16. आह्रियत जुलाई २१, २०१०. 
  8. द्विवेदी, ज्ञानेन्द्र कुमार (दिसम्बर १, २००८). Analysis and Design of Algorithm (in आङ्ग्लभाषा). नई दिल्ली, भारत: लक्ष्मी प्रकाशन. pp. पृष्ठ x. ISBN 978-81-318-0116-1. 
  9. ९.० ९.१ ९.२ ९.३ "वाचस्पति पुरस्कार २००७" (in हिन्दी). के के बिड़ला प्रतिष्ठान. आह्रियत मार्च ८, २०११. 
  10. १०.० १०.१ १०.२ १०.३ मुखर्जी, सुतपा (मई १०, १९९९). "A Blind Sage's Vision: A Varsity For The Disabled At Chitrakoot" (in आङ्ग्लभाषा). नयी दिल्ली, भारत: आउटलुक. आह्रियत जून २१, २०११. 
  11. दिनकर २००८, पृष्ठ ३९।
  12. "श्री जगद्गुरु रामभद्राचार्य" (in आङ्ग्लभाषा). अधिकृतं जालस्थानम्. आह्रियत 10 May 2011. "आश्चर्यजनक तथ्य: अंग्रेज़ी, फ्रांसीसी और अनेक भारतीय भाषाओं सहित २२ भाषाओं का ज्ञान" 
  13. १३.० १३.१ दिनकर २००८, पृष्ठ ४०–४३।
  14. प्रसाद १९९९, पृष्ठ xiv: "Acharya Giridhar Mishra is responsible for many of my interpretations of the epic. The meticulousness of his profound scholarship and his extraordinary dedication to all aspects of Rama's story have led to his recognition as one of the greatest authorities on Tulasidasa in India today ... that the Acharya's knowledge of the Ramacharitamanasa is vast and breathtaking and that he is one of those rare scholars who know the text of the epic virtually by heart."
  15. व्यास, लल्लन प्रसाद, ed. (१९९६). The Ramayana: Global View (in आङ्ग्लभाषा). दिल्ली, भारत: हर आनन्द प्रकाशन प्राइवेट लिमिटेड. pp. पृष्ठ ६२. ISBN 978-81-241-0244-2. "... Acharya Giridhar Mishra, a blind Tulasi scholar of uncanny critical insight, ..." 
  16. रामभद्राचार्य (ed) २००६।
  17. एन बी टी न्यूज़, गाज़ियाबाद (जनवरी २१, २०११). "मन से भक्ति करो मिलेंगे राम : रामभद्राचार्य" (in हिन्दी). नवभारत टाईम्स. आह्रियत जून २४, २०११. 
  18. संवाददाता, ऊना (फ़रवरी १३, २०११). "केवल गुरु भवसागर के पार पहुंचा सकता है : बाबा बाल जी महाराज" (in हिन्दी). दैनिक ट्रिब्यून. आह्रियत जून २४, २०११. 
  19. संवाददाता, सीतामढ़ी (मई ५, २०११). "ज्ञान चक्षु से रामकथा का बखान करने पहुंचे रामभद्राचार्य" (in हिन्दी). जागरण याहू. आह्रियत जून २४, २०११. 
  20. संवाददाता, ऋषिकेश (जून ७, २०११). "दु:ख और विपत्ति में धैर्य न खोएं" (in हिन्दी). जागरण याहू. आह्रियत जून २४, २०११. "प्रख्यात राम कथावाचक स्वामी रामभद्राचार्य महाराज ने कहा कि ..." 
  21. "सिंगापुर में भोजपुरी के अलख जगावत कार्यक्रम" (in भोजपुरी). Anjoria. जून २६, २०११. आह्रियत जून ३०, २०११. "श्री लक्ष्मी नारायण मन्दिर में सुप्रसिद्ध मानस मर्मज्ञ जगतगुरु रामभद्राचार्य जी राकेश के मानपत्र देके सम्मानित कइले।" 
  22. "रामभद्राचार्य जी" (in आङ्ग्लभाषा). सनातन टीवी. आह्रियत मई १०, २०११. 
  23. २३.० २३.१ २३.२ २३.३ २३.४ २३.५ २३.६ दिनकर २००८, पृष्ठ २२–२४।
  24. २४.० २४.१ २४.२ २४.३ २४.४ २४.५ २४.६ अनेजा, मुक्ता; आईवे टीम (२००५). "Shri Ram Bhadracharyaji - A Religious Head with a Vision". Abilities Redefined - Forty Life Stories Of Courage And Accomplishment (in आङ्ग्लभाषा). अखिलभारतीयनेत्रहीनपरिसङ्घः. pp. ६६–६८. Archived from the original on 2011-09-03. आह्रियत अप्रैल २५, २०११. 
  25. २५.० २५.१ २५.२ २५.३ २५.४ २५.५ २५.६ २५.७ परौहा, तुलसीदास (जनवरी १४, २०११). "महाकविजगद्गुरुस्वामिरामभद्राचार्याणां व्यक्तित्वं कृतित्वञ्च". In रामभद्राचार्य, स्वामी. गीतरामायणम् (गीतसीताभिरामं संस्कृतगीतमहाकाव्यम्). जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय. pp. ५–९. 
  26. "Vedic scriptures and stotras for the Blind people in Braille" (in आङ्ग्लभाषा). एस्ट्रो ज्योति. Archived from the original on 2011-07-06. आह्रियत जून २५, २०११. 
  27. "Braille Bhagavad Gita inauguration" (in आङ्ग्लभाषा). एस्ट्रो ज्योति. आह्रियत जून २५, २०११. [नष्टसम्पर्कः]
  28. ब्यूरो रिपोर्ट (दिसम्बर ३, २००७). "Bhagavad Gita in Braille Language" (in आङ्ग्लभाषा). ज़ी न्यूज़. आह्रियत जून २५, २०११. 
  29. एशियन न्यूज़ इंटरनेशनल (दिसम्बर ६, २००७). "अब ब्रेल लिपि में भगवद्गीता" (in हिन्दी). वेबदुनिया हिन्दी. आह्रियत जुलाई २, २०११. 
  30. ३०.० ३०.१ ३०.२ ३०.३ ३०.४ ३०.५ ३०.६ दिनकर २००८, पृष्ठ २५–२७
  31. "श्रीराम कथा (मानस धर्म)" (in हिन्दी). चित्रकूट, उत्तर प्रदेश, भारत: जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय. सितम्बर १३, २००९. Archived from the original on 2016-03-07. आह्रियत जुलाई १, २०११. "डीवीडी संख्या ८, भाग १, समय ००:५०:२०।" 
  32. ३२.० ३२.१ ३२.२ ३२.३ दिनकर २००८, पृष्ठ २८–३१।
  33. पोद्दार, हनुमान प्रसाद (१९९६). दोहावली (in हिन्दी). गोरखपुर, उत्तर प्रदेश, भारत: गीता प्रेस. pp. १०. 
  34. दूबे, डॉ हरिप्रसाद (अप्रैल १३, २०११). "पवित्र स्थान: ६ महीने रहें चित्रकूट". जागरण याहू. आह्रियत जुलाई ३, २०११. "तुलसीदास ने माना है कि यदि कोई व्यक्ति छह मास तक पयस्विनी के किनारे रहता है और केवल फल खाकर राम नाम जपता रहता है, तो उसे सभी तरह की सिद्धियां मिल जाती हैं।" 
  35. रामभद्राचार्य, स्वामी (अक्टूबर ३०, २००२). श्रीभार्गवराघवीयम् (संस्कृतमहाकाव्यम्). चित्रकूट, उत्तर प्रदेश, भारत: जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय. pp. ५११. 
  36. दिनकर २००८, पृष्ठ १२७।
  37. संवाददाता, चित्रकूट (जनवरी ५, २००७). "भारतीय शिक्षा सिखाती है संस्कार" (in हिन्दी). जागरण याहू. आह्रियत जुलाई २, २०११. 
  38. संवाददाता, चित्रकूट (जुलाई २५, २०१०). "तीर्थ में गूंजते रहे गुरु वंदना के स्वर" (in हिन्दी). जागरण याहू. आह्रियत जुलाई २, २०११. 
  39. संवाददाता, चित्रकूट (जनवरी ५, २०११). "जिले में अंतर्राष्ट्रीय स्तर का शोध संस्थान बनेगा" (in हिन्दी). अमर उजाला. Archived from the original on 2011-09-11. आह्रियत जुलाई २, २०११. 
  40. ४०.० ४०.१ ४०.२ संवाददाता, चित्रकूट (जनवरी ५, २०११). "प्रज्ञाचक्षु की आंख बन गई बुआ जी" (in हिन्दी). जागरण याहू. Archived from the original on 2011-09-22. आह्रियत जून २४, २०११. 
  41. ४१.० ४१.१ संवाददाता, चित्रकूट (जनवरी १२, २०११). "श्री सीता राम विवाह के आनंदित क्षणों मे झूमे भक्त" (in हिन्दी). जागरण याहू. आह्रियत जुलाई १२, २०११. "हरिद्वार से आये आचार्य चंद्र दत्त सुवेदी ने कहा कि प्रस्थानत्रयी पर सबसे पहले भाष्य आचार्य शंकर ने लिखा और अब वल्लभाचार्य के छह सौ [sic] साल बाद जगद्गुरु स्वामी राम भद्राचार्य जी ने लिखा।" 
  42. अग्रवाल २०१०, पृष्ठ ७८१।
  43. द्विवेदी, मुकुन्द (२००७) [प्रथम संस्करण १९८१]. हज़ारी प्रसाद द्विवेदी ग्रन्थावली ४ (in हिन्दी) (संशोधित, परिवर्धित ed.). नई दिल्ली, भारत: राजकमल प्रकाशन. pp. पृष्ठ २७३. ISBN 972812671358-5. 
  44. शर्मा, अमित (मई १, २००३). "No winners in VHP’s Ayodhya blame game" (in आङ्ग्लभाषा). इण्डियन एक्सप्रेस. आह्रियत जून २५, २०११. 
  45. "Babar destroyed Ram temple at Ayodhya" (in आङ्ग्लभाषा). मिड डे. जुलाई १७, २००३. आह्रियत जून २५, २०११. 
  46. "Ram Koop was constructed by Lord Ram" (in आङ्ग्लभाषा). मिड डे. जुलाई २१, २००३. आह्रियत जून २५, २०११. 
  47. ४७.० ४७.१ ४७.२ ४७.३ अग्रवाल २०१०, पृष्ठ ३०४, ३०९, ७८०-७८८, ११०३-१११०, २००४-२००५, ४४४७, ४४४५-४४५९, ४५३७, ४८९१-४८९४, ४९९६।
  48. शर्मा २०१०, पृष्ठ २१, ३१.
  49. शर्मा २०१०, पृष्ठ २७३.
  50. "About JRHU" (in आङ्ग्लभाषा). जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयः. Archived from the original on 2009-07-04. आह्रियत जुलाई २१, २००९. 
  51. शुभ्रा (फ़रवरी १२, २०१०). "जगदगुरु रामभद्राचार्य विकलांग विश्वविद्यालय". भारतीय पक्ष (in हिन्दी). Archived from the original on 2012-07-21. आह्रियत अप्रैल २५, २०११. 
  52. सुभाष, तरुण (जुलाई ३, २००५). "A Special University for Special Students: UP does a first - it establishes the country's first exclusive university for physically and mentally disabled students" (in आङ्ग्लभाषा). हिन्दुस्तान टाइम्स. Archived from the original on 2011-06-23. आह्रियत जून २३, २०११. 
  53. दीक्षित, रागिणी (जुलाई १०, २००७). "चित्रकूट: दुनिया का प्रथम विकलांग विश्वविद्यालय". जनसत्ता एक्सप्रेस. 
  54. उत्तर प्रदेश सरकार. "सूचना का अधिकार अधिनियम २००५: अनुक्रमणिका" (in हिन्दी first=सूचना प्रौद्योगिकी एवं इलेक्ट्रानिक्स विभाग). Archived from the original on 2011-01-23. आह्रियत जून २५, २०११. 
  55. "Home" (in आङ्ग्लभाषा). जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय. Archived from the original on 2011-10-08. आह्रियत जून २४, २०११. 
  56. सिन्हा, आर पी (दिसम्बर १, २००६). E-Governance in India: initiatives & issues (in आङ्ग्लभाषा). नई दिल्ली, भारत: कंसेप्ट पब्लिशिंग कम्पनी. pp. पृष्ठ १०४. ISBN 978-81-8069-311-3. 
  57. गुप्ता, अमीता; कुमार, आशीष (जुलाई ६, २००६). Handbook of universities (in आङ्ग्लभाषा). नई दिल्ली, भारत: एटलांटिक प्रकाशक एवं वितरक. pp. पृष्ठ ३९५. ISBN 978-81-269-0608-6. 
  58. "Courses Offered" (in आङ्ग्लभाषा). जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय. Archived from the original on 2011-10-08. आह्रियत अप्रैल २५, २०११. 
  59. संवाददाता, महोबा (जुलाई ६, २०११). "विकलांगों के लिए मेडिकल कालेज जल्द" (in हिन्दी). अमर उजाला. Archived from the original on 2011-09-11. आह्रियत जुलाई ९, २०११. 
  60. उत्तर प्रदेश सरकार, सूचना प्रौद्योगिकी एवं इलेक्ट्रानिक्स विभाग. "कम्प्यूटर शिक्षा" (in हिन्दी). Archived from the original on 2012-03-26. आह्रियत जून २४, २०११. 
  61. संवाददाता, चित्रकूट (फ़रवरी २४, २०१०). "विकलांग विश्वविद्यालय का दूसरा दीक्षात समारोह ७ मार्च को" (in हिन्दी). जागरण याहू. आह्रियत जुलाई २, २०११. 
  62. "औपचारिकताओं के बीच संपन्न हुआ विकलांग विवि का दीक्षान्त समारोह" (in हिन्दी). बुन्देलखण्ड लाईव. मार्च ७, २०१०. आह्रियत जून २४, २०११. 
  63. संवाददाता, चित्रकूट (मार्च ७, २०१०). "अच्छी शिक्षा-दीक्षा से विकलांग बनेंगे राष्ट्र प्रगति में सहायक" (in हिन्दी). जागरण याहू. आह्रियत जुलाई २, २०११. 
  64. इंडो-एशियन न्यूज़ सर्विस (जनवरी १५, २०११). "चित्रकूट में राजनाथ सिंह को मानद उपाधि" (in हिन्दी). वन इंडिया हिन्दी. Archived from the original on 2011-09-22. आह्रियत जून २४, २०११. 
  65. एस एन बी, चित्रकूट (जनवरी १५, २०११). "रामभद्राचार्य विवि का दीक्षांत समारोह - राजनाथ सिंह डीलिट की उपाधि से सम्मानित" (in हिन्दी). राष्ट्रीय सहारा. Archived from the original on 2016-03-10. आह्रियत जून २४, २०११. 
  66. "Himachal Pradesh State Level Award For Sandeep Marwah" (in आङ्ग्लभाषा). एशियन न्यूज़ एजेंसी. मार्च ४, २०११. आह्रियत जून २५, २०११. 
  67. विशेष संवाददाता (फ़रवरी २०, २००८). "Selected for Birla Foundation awards" (in आङ्ग्लभाषा). दि हिन्दू. Archived from the original on 2008-02-28. आह्रियत जून २४, २०११. 
  68. विशेष संवाददाता (अप्रैल १९, २००८). "K.K. Birla Foundation awards presented" (in आङ्ग्लभाषा). दि हिन्दू. Archived from the original on 2008-04-23. आह्रियत जून २४, २०११. 
  69. औपचारिक वेबसाइट. "गोस्वामी तुलसीदास समर्चन सम्मान". श्री तुलसी पीठ सेवा न्यास. आह्रियत जुलाई २, २०११. [नष्टसम्पर्कः]
  70. औपचारिक वेबसाइट. "२००६ में संस्कृत महामहोपाध्याय". श्री तुलसी पीठ सेवा न्यास. आह्रियत जुलाई २, २०११. [नष्टसम्पर्कः]
  71. "साहित्य अकादमी सम्मान २००५". नेशनल पोर्टल ऑफ इण्डिया. २००५. आह्रियत अप्रैल २४, २०११. 
  72. ७२.० ७२.१ ७२.२ ७२.३ ७२.४ चन्द्रा, आर (सितम्बर २००८). "सम्मान और पुरस्कार". क्रान्ति भारत समाचार (लखनऊ, उत्तर प्रदेश, भारत) (११): २१. 
  73. टी एन एन (मार्च १७, २००३). "Bhaurao Samman for Dattopanth Thengadi" (in आङ्ग्लभाषा). The दि टाईम्स ऑफ़ इंडिया. Archived from the original on 2011-08-11. आह्रियत मई २७, २०११. 
  74. विशेष संवाददाता केन्द्र, लखनऊ (मार्च ३०, २००३). "जगद्गुरु स्वामी रामभद्राचार्य तथा वरिष्ठ चिंतक दत्तोपंत ठेंगडी को भाऊराव देवरस सेवा सम्मान - वैभवशाली राष्ट्र के निर्माण का आह्वान". पाञ्चजन्य. Archived from the original on 2003-05-04. आह्रियत अप्रैल २९, २०११. 
  75. औपचारिक वेबसाइट. "दीवालीबेन पुरस्कार". श्री तुलसी पीठ सेवा न्यास. आह्रियत जुलाई २, २०११. [नष्टसम्पर्कः]
  76. औपचारिक वेबसाइट. "उत्तर प्रदेश संस्कृत संस्थान द्वारा विशिष्ट पुरस्कार". श्री तुलसी पीठ सेवा न्यास. आह्रियत जुलाई २, २०११. [नष्टसम्पर्कः]
  77. "Shri Lal Bahadur Shastri Rashtriya Sanskrit Vidyapeetha - Convocation" (in आङ्ग्लभाषा). श्री लाल बहादुर शास्त्री राष्ट्रिय संस्कृत विद्यापीठ. आह्रियत जून ११, २०११. "The Fourth Convocation of the Vidyapeetha was organized on 11 February 2000. ... Honorary title of Mahamahopadhyaya was conferred on Shri Swami Rambhadracharya (U.P.), ... by the Chancellor." 

टिप्पण्यः[सम्पादयतु]

  • अग्रवाल, न्यायमूर्ति सुधीर (सितम्बर ३०, २०१०). Consolidated Judgment in OOS No. 1 of 1989, OOS No. 3 of 1989, OOS No. 4 of 1989 & OOS No. 5 of 1989 (in आङ्ग्लभाषा). इलाहाबाद, उत्तर प्रदेश, भारत: इलाहबाद उच्च न्यायालय. 
  • दिनकर, डॉ वागीश (२००८). "महाकवि परिचय (व्यक्तित्व एवं कृतित्व)". श्रीभार्गवराघवीयम् मीमांसा. दिल्ली, भारत: देशभारती प्रकाशन. ISBN 978-81-908276-6-9. 
  • प्रसाद, राम चन्द्र (१९९९) [प्रथम संस्करण १९९१]. Sri Ramacaritamanasa The Holy Lake Of The Acts Of Rama (in आङ्ग्लभाषा) (सचित्र, पुनर्मुद्रित संस्करण ed.). दिल्ली, भारत: मोतीलाल बनारसीदास. ISBN 978-81-208-0762-4. 
  • रामद्राचार्य, स्वामी, ed. (मार्च ३०, २००६). श्रीरामचरितमानस – मूल गुटका (तुलसीपीठ संस्करण) (चतुर्थ संस्करण ed.). चित्रकूट, उत्तर प्रदेश, भारत: जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय. 
  • शर्मा, न्यायमूर्ति धरम वीर (सितम्बर ३०, २०१०). Judgment in OOS No. 4 of 1989 (in आङ्ग्लभाषा). इलाहाबाद, उत्तर प्रदेश, भारत: इलाहाबाद उच्च न्यायालय. 
  • शर्मा, न्यायमूर्ति धरम वीर (सितम्बर ३०, २०१०). Annexure V (in आङ्ग्लभाषा). इलाहाबाद, उत्तर प्रदेश, भारत: इलाहाबाद उच्च न्यायालय. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रामभद्राचार्यः&oldid=484809" इत्यस्माद् प्रतिप्राप्तम्