रायचूरुमण्डलम्
कर्णाटकराज्यस्य उत्तरभागस्य मण्डलेषु रायचूरुमण्डलम् अन्यतमम् । मण्डलस्य नाम एव मण्डलकेन्द्रस्यापि नाम अस्ति । एतत् बेङ्गलूरुतः ४०९ कि.मी दूरे अस्ति ।भारतस्य स्वातन्त्रसङ्ग्रामे हैदराबाद्विमोचनान्दोलने अस्य मण्डलस्य योगदानं महत् वर्तते ।राचूर रायपुर् इति च प्रसिद्धः अयं प्रदेशः पूर्वं हैदराबाद् संस्थानाधीनः आसीत् । शिवशरणानां विजयदासः जगन्नाथदासः गोपालदासः तिम्मण्णदासः आनन्ददासः इत्यादीनां जन्मभूमिः ।
अन्तर्विषयाः |
[सम्पादयतु] भौगोलिकता
गिरिशिखराणि अतीव अल्पानि सानुप्रदेशाः एव अधिकाः भवन्ति ।
[सम्पादयतु] खनिजाः
”’हट्टी”’ इत्यत्र सुवर्णनिक्षेपः अस्ति । सामान्यप्रमाणेन वर्षा पतति ।
[सम्पादयतु] वातावरणम्
सामन्यतः शुष्कवायुः सञ्चरति । ग्रीष्मकाले ४५ डिग्रिपर्यन्तं औष्ण्यं बाधते ।
[सम्पादयतु] दर्शानीयानि स्थानानि
क्रि.श. १२९४ तमे वर्षे निर्मितं रायचूरुदुर्गं नगरस्य सांस्कृतिकाकर्षणम् अस्ति।शक्तिनगरस्य शाखोत्पन्नविद्युत्स्थावरः, लिङ्गसूरु हट्टिसुवर्णनिक्षेपः, सिन्धनूरुशालिक्षेत्राणि, मुद्गल् दुर्गं, जलदुर्गम् इत्यादीनि सुन्दराणि स्थलानि सन्ति।
[सम्पादयतु] उपमण्डलानि
रायचूरु, मान्वी, देवदुर्गं सिन्धनूरु, लिङ्गसूगूरु
[सम्पादयतु] नद्यः
[सम्पादयतु] क्षेत्राणि
रायचूरु, मान्वी, मुद्गल्, बणलवाड, कल्लूरु सिन्धनूरु छायाभगवती, अमरेश्वरः गाणदाळु कुरवगड्डे, नारदगड्डे, गब्बुरु, सन्नती,कोप्पर, लिङ्गसूगूरु
१)सन्नती - अत्र (८०० वर्ष प्राचीनः) चन्द्रलापरमेश्वरी देवालयः पूर्वाभिमुखः विशालः अस्ति । देवीं चन्दलाम्बां सन्तिहोन्नम्म इति च कथयन्ति । सीतादेव्याः अवताररुपा प्रसन्नवदना इति देवीं कथयन्ति । चालुक्यवंशीयानाम् अधिदेवता चन्द्रलाम्बा भीमानदीतीरे स्थितवती अस्ति। शङ्कराचार्यः अत्र एकस्य श्रीचक्रस्य निर्माणं कृतवान्। सन्नती बैध्दानामपि पवित्रं क्षेत्रमास्ति । अत्र बौध्दधर्मस्य अवशेषाः, नागायिबौद्धविश्वविद्यानिलयः विद्याकेन्द्राणि च (१२२ शतकीयानि) अत्र आसन् ।
मार्गः मुम्बयी-बेङ्गळूरुरेलमार्गे नल्वाररेलनिस्थानतः २० कि.मी ।
२) कोप्पर - कृष्णानदीतीरे स्थितं महाक्षेत्रम् एतत् । पूर्वं कर्परमहर्षिः अत्र स्थितवान् । कार्परक्षेत्रमिति च क्षेत्रस्य नाम आसीत् । अत्र देवः श्रीनरासिंहः अश्वत्थवृक्षे सालिग्रामरुपेण अस्ति । मूलवृक्षस्य स्फोटानन्तरं षोडशबाहुः श्रीनरसिंहः आयुधसहितः आविर्भूतः अभवत् ।श्रीविजयदासः स्वसुळादिपद्ये क्षेत्रमहिमां स्वयं दृष्टवानिव वर्णितवान् अस्ति । अत्र नदीस्नानं देवपूजादिकं सर्वार्थसाधकं भवति । नवरात्रिसमये अत्र वैभवेण उत्सवः प्रचलति ।
मार्गः
- देवदुर्गतः १२ कि.मी ।
- रायचूरुतः ४८ कि.मी ।