रायसेनमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रायसेन मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
रायसेनमण्डलम्

Raisen District
रायसेन जिला
रायसेनमण्डलम्
रायसेनमण्डलस्य नयनाभिरामदृश्यम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि रायसेन, गोहरगञ्ज, बादी, बरैली, सिलवानी, उदयपुरा, गिरतगञ्ज
विस्तारः ८,४६६ च. कि. मी.
जनसङ्ख्या (२०११) १३,३१,५९७
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७२.९८%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४५%
Website http://raisen.nic.in/

रायसेनमण्डलम् ( /ˈrɑːjəsɛnəməndələm/) (हिन्दी: रायसेन जिला, आङ्ग्ल: Raisen district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रायसेन इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

रायसेनमण्डलस्य विस्तारः ८,४६६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सागरमण्डलं, पश्चिमे भोपालमण्डलम्, उत्तरे विदिशामण्डलं, दक्षिणे सीहोरमण्डलम् अस्ति । अस्मिन् मण्डले वेत्रवतीनदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं रायसेनमण्डलस्य जनसङ्ख्या १३,३१,५९७ अस्ति । अत्र ७,००,३५८ पुरुषाः, ६,३१,२३९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५७ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.३५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०१ अस्ति । अत्र साक्षरता ७२.९८% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- रायसेन, गोहरगञ्ज, बादी, बरैली, सिलवानी, उदयपुरा, गिरतगञ्ज ।

वीक्षणीयस्थलानि[सम्पादयतु]

भोजपुरम्[सम्पादयतु]

भोजपुरं भोपाल-नगरात् २५ कि. मी. दूरे अस्ति । इदं नगरं मध्यभारतस्य सोमनाथ इति प्रसिद्धम् । इदं नगरं वेत्रवतीनद्याः तटे स्थितमस्ति । अस्य नगरस्य समीपे लघुपर्वते एकं विशालं शिवमन्दिरं वर्तते । अस्मिन् मन्दिरे विद्यमानस्य शिवलिङ्गस्य स्थापना परमारराज्ञा भोजेन कारितम् । अतः इदं मन्दिरं भोजपुर-मन्दिरं, भोजेश्वरमन्दिरम् इत्यपि कथ्यते । अस्य मन्दिरस्य निर्माणं पूर्णतया न कृतमस्ति । अस्मिन् मन्दिरे एकः पाषाणखण्डः लिङ्गरूपेण अस्ति । तल्लिङ्गम् आलीढम् अस्ति । तस्य उच्चता ३.८५ मी. अस्ति ।

सांची-स्तूपः[सम्पादयतु]

सांची-स्तूपः भोपाल-नगरात् ४५ कि. मी. दूरे अस्ति । इदं स्थलं वेत्रवतीनद्याः तटे स्थितमस्ति । अस्य समीपे एकस्मिन् उपशैले एकः विशालः बौद्धस्तूपः अस्ति । अस्मिन् स्तूपे भगवतः बुद्धस्य अस्थीनि स्थापितानि सन्ति ।

भीम बेटका[सम्पादयतु]

भीम बेटका इति इदं स्थलं भारतस्य मध्यप्रदेशराज्यस्य रायसेनमण्डले स्थितमस्ति । इदम् एकं प्राचीनं स्थलम् अस्ति । अत्र बहूनि शैलचित्राणि सन्ति । तेषां चित्राणां रचना आदिमानवैः कृता । इदं स्थलं प्रसिद्धम् अस्ति । इमानि शैलचित्राणि नवसहस्रवर्षप्राचीनानि सन्ति । अत्र पुरावशेषेषु दुर्गभित्तयः, लघुस्तूपाः, पाषाणनिर्मितानि भवनानि, शुङ्ग-गुप्तकालीनाः अभिलेखाः, शङ्खाभिलेखाः एवं परमार-कालीनमन्दिराणाम् अवशेषाः प्राप्यन्ते । भीम बेटका इति इदं स्थलं भारतीयपुरातत्वसर्वेक्षण इत्यनया भारतसर्वकारीयसंस्थया ई. १९९० तमस्य वर्षस्य अगस्त-मासे राष्ट्रियपारम्परिकस्थलत्वेन उद्घोषितम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://raisen.nic.in/
http://www.census2011.co.in/census/district/313-raisen.html

"https://sa.wikipedia.org/w/index.php?title=रायसेनमण्डलम्&oldid=390187" इत्यस्माद् प्रतिप्राप्तम्