राष्ट्रियमुक्तविद्यालयीशिक्षासंस्थानम् (NIOS)
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
राष्ट्रियमुक्तविद्यालयीशिक्षासंस्थानम् (NIOS) उच्चमाध्यमिकगणस्य तथा नीचमाध्यमिकगणस्य अध्येतॄणां पदवीपूर्वशिक्षणपर्यन्तं अत्र शिक्षणं दीयते ।१९७९ तमे वर्षे एतत् केन्द्रीयमाध्यमिकशिक्षासंस्थया परियोजनाङ्गतया आरब्धम्। १९८६ तमे वर्षे राष्ट्रियशिक्षानीत्यनुगुणं अस्य बलवर्धनं कर्तुं स्वतन्त्रसंस्थानरूपेण कार्यं कर्तुं च सर्वकारः निश्चयमकरोत् । तस्य स्वयं पठ्यविषयनिर्माणं, परीक्षानिर्वहणं, प्रमाणनं च कर्तुं अनुमतिः प्रदत्ता । तदनुगुणमेव मानवसंसाधनमन्त्रालयेन १९८९ तमे वर्षे राष्ट्रियमुक्तविद्यालयीशिक्षासंस्थानम् आरब्धम् ।