राष्ट्रियस्वयंसेवकसङ्घः
अन्तर्विषयाः |
[सम्पादयतु] स्थापना
राष्ट्रियस्वयंसेवकसङ्घः (संक्षेपेण आर्.एस्.एस्)विश्वस्य बृहत्सङ्घटनम् एतत् १९२५ तमे वर्षे सप्टम्बर् मासस्य २७ तमे दिनाङ्के विजयदशम्यां महाराष्ट्रराज्यस्य नागपुरे डा. केशवबलिरामहेडगेवारमहाशयेन स्थापितः । हिन्दुराष्ट्रियदक्षिणमार्गस्य सङ्घटनम् इति सामान्यतया परिगणितं भवति । अस्य मुख्यकार्यालयः नागपुरे अस्ति । हिन्दुसङ्घटनम् एकता च अस्य उद्देशः । एतत्सम्बद्धाभिः अन्यसंस्थाभिः सह एनं सङ्घपरिवारः इति जनाः कथयन्ति । प्रायः षड्वर्षाणि यावत् अधिकारारूढः भारतीयजनतापक्षः एतस्य राजनैतिकं मुखं इति बहूनाम् अभिप्रायः ।
[सम्पादयतु] सरसङ्घचालकाः
प्रायः अस्य राष्ट्रियस्वयंसेवकसङ्घस्य सदस्यसङ्ख्या षष्ठिलक्षमिता स्यात् । एतस्य सङ्घटनस्य राष्ट्रस्तरस्य प्रमुखं सरसङ्घचालकः इति वदन्ति । संस्थापनावर्षादारभ्य एतावद्पर्यन्तं ये ये सरसङ्घचालकाः आसन् तेषां सरसङ्घचालकानां पट्टिका अत्र दत्ता अस्ति।
- १. डा केशवबलिरामहेडगेवारः संस्थापकः । १९२५-१९३० तथा १९३१-१९४० । एतं डाक्टर्जी इत्येव जनाः आह्वयन्ति ।
- २. डा लक्ष्मणवामनपराञ्जपे ।१९३०-१९३१ । एतस्मिन् समये डाक्टर्जी सत्याग्रहे भागं स्वीकृत्य कारागरे वसति स्म ।
- ३ श्रीमान् माधवसदाशिवगोळवलकरः । १९४०-१९७२ एतं गुरूजी इति कथयन्ति ।
- ४ श्रीमान् मधुकरदत्तात्रेयदेवरसः । १९७२-१९९२ एतं बाळासाहेब् इति कथयन्ति ।
- ५ प्रो. राजेन्द्रसिङ्गः । १९९२-२००० एतं रज्जुभैय्या इति कथयन्ति ।
- ६ श्रीमान् कुप्पहळ्ळि सीतारामय्य सुदर्शन २०००-२००९। सुदर्शनजी इति ख्यातः।
- ७ डा मोहनमधुकरभागवतः । २००९ तमवर्षस्य मार्चमासस्य २१ तः----- ।
[सम्पादयतु] शाखाः
रा.स्व सङ्घस्य प्रमुखः कार्यक्रमः शाखा । रा.स्व.सं तावत् शाखाद्वारा चलति । शाखा प्रतिदिनं घण्टां यावत् सार्वजनिकेषु स्थानेषु चलति । प्रायः राष्ट्रे अधुना ६०,००० शाखाः सन्ति । रा.स्व.सङ्घस्य शाखासु स्वयं सेवकानां व्यक्तित्वनिर्माणस्य विकसनस्य दृष्ट्या बहूनि कार्याणि आयोज्यन्ते । देहस्य दृढतासम्पादनाय योगः तथा व्यायामः अपि भवति । प्रतिदिनं क्रीडा अपि भवति । नागरिकज्ञानं, समाजसेवा, समुदायजीवनं, देशभक्तिः इत्यादयः गुणाः अत्र कार्यक्षेत्रे योजिताः सन्ति । स्वयं सेवकानां प्रथमचिकित्साविषये आपत्काले जनानां रक्षणं, पुनर्वसतिः इत्यादीनां कार्याणां विषये प्रशिक्षणं दीयते अत्र । शाखाः यत्र चलन्ति ताद्शग्रामेषु अथवा प्रदेशेषु स्वच्छताकार्येषु अभिवृद्धिकार्येषु प्रवृत्ताः भवितुं सङ्घः स्वयंसेवकान् प्रेरयति ।
[सम्पादयतु] बाह्यसम्पर्कः
u tube RSS
|
||||||||||||||