राष्ट्रियस्वयंसेवकसङ्घः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
राष्ट्रियस्वयंसेवकसङ्घः
२00px
राष्ट्रियस्वयंसेवकसङ्घस्य ध्वजः
संस्थापकः केशव बलिराम हेडगेवार
निर्माणम् विजयदशमी१९२५
केन्द्रम् नागपुरम्
भौगोलिकस्थितिः 21°02′N 79°10′E / 21.04°N 79.16°E / 21.04; 79.16
ध्येयम् "भारतस्य परमवैभवम्"
जालस्थानम् www.rssonnet.org

विश्वस्य बृहत्तमं सङ्घटनम् अस्ति राष्ट्रियस्वयंसेवकसङ्घः (संक्षेपेण आर्.एस्.एस् ) । सङ्घस्य कार्यम् आभारते मण्डलस्तर(पञ्चग्रामस्य समुहः) पर्यन्तं अस्ति । सङ्घे राष्ट्रकार्यं कुर्वन्तः बहवः प्रचारकाः, विस्तारकाः स्थानिककार्यकर्तारस्सन्ति । राष्ट्रस्य उपरि यदा-यदा कष्टम् आगतं तदा-तदा तत्र सङ्घेन सेवाकार्याणि कृतानि । सङ्घः नाम किञ्चन व्यक्तिवादिसङ्घटनं न , ध्येयवादिसङ्घटनम् अस्त्येतत् । राष्ट्रियस्वयंसेवकसङ्घः विचारमात्रं नास्ति , संस्थामात्रम् अपि नास्तिराष्ट्रियस्वयंसेवकसङ्घस्तु एका जीवनपद्धतिः अस्ति । सङ्घे सर्वे समानाः भवन्ति सङ्घे अधिकारिणः अपि भवन्ति किन्तु व्यवस्था द्रष्टया । सङ्घे जातिभेदः नास्ति । सङ्घः कुटुम्बम् अस्ति अतः सङ्घे गुणानां चर्चा सामुहिकम् ,दोषाणां चर्चा वैयेक्तिगतं भवति । सरलं जीवनं सङ्घस्य विशिष्टं लक्षणम् अस्ति । इदानीं सङ्घस्य सर्वत्र स्वीकारः अस्ति । राष्ट्रियस्वयंसेवकसङ्घस्य स्वयंसेवकः राष्ट्रियस्वयंसेवकसङ्घस्यआधारः अस्ति अतः प्रथमतः एव स्वयंसेवकस्य योग्य संस्काराः भवन्तु इति सङ्घस्य आग्रहः भवति । व्यक्ति निर्माणेन राष्ट्र निर्माणम् इति सङ्घस्य लक्ष्यम् अस्ति भारतस्य परमवैभवं सङ्घस्य अन्तिमं लक्ष्यम् अस्ति ।

स्थापना[सम्पादयतु]

सङ्घस्य स्थापना १९२५तमे वर्षे नागपुरे डॉ.केशव बलिराम हेडगेवारद्वारा जाता । डॉ.केशव बलिराम हेडगेवारजी बाल्यकालात् एव राष्ट्रभक्तः आसीत् । तदानीङ्काले भारतं पराधिनम् आसीत् , भारतीयाः सङ्घटिताः न आसन् । तदानीङ्काले भारते स्वतन्त्रतार्थं रीतिद्वयम् आसीत् - १) काङ्ग्रेसदलः २)क्रान्तिकारिणां दलः , इत्युक्ते हिंसकदलः - अहिंसकदलः । डॉ.हेडगेवारजी उभयत्र कार्यम् अकरोत् ।

सः यदा चिकित्सकपदवीं पठितुं कलकत्तानगरं गतवान् तदा क्रान्तिकारिणां सम्पर्के आगतः । क्रान्तिकारिणाम् एका संस्था " अनुशीलन-समिति " आसीत् । तस्यां युवा केशवः सदस्यः जातः । केशवः तत्र शिक्षाद्वयं प्राप्तवान् , चिकित्सायाः स्वतन्त्रतायाः च । केशवःझटिति एव अनुभूतवान् यत् हिंसकआन्दोलनेन किमपि न भविष्यति । अतः ततः निर्गतः ।

केशवः चिकित्सकपदवीं प्राप्यनागपुरं प्रत्यागतः । डॉ.हेडगेवारजी धनार्जनविषये विवाहविषये वा चिन्तनम् अकृत्वा राष्ट्रकार्ये एव संलग्नः अभवत् । १९१४तमे वर्षे लोकमान्यतिलकस्य आह्वाहनेन डॉ.हेडगेवारजी काङ्ग्रेसदले आगतः । काङ्ग्रेसदलस्य कार्यं कुर्वन् डॉ.हेडगेवारजी कारावासम् अपि प्राप्तवान् । डॉ.हेडगेवारजी काङ्ग्रेसदलस्य हिन्दु- मुस्लिम एक्ताविषये चिन्तनात् दुःखी आसीत् । सः वदति स्म यत् भारते हिन्दु , पारसी ,यहुदि ,मुस्लिम इत्यादयः सर्वे सन्ति, तर्हि हिन्दु - मुस्लिम एक्ताविषये एव किमर्थं चिन्तनम् ? १९१८तमे वर्षे महायुद्धः समाप्तः । तुर्किदेशः पराजितः । कमालपाशा राष्ट्रप्रमुखः जातः । सः खलिफापदं( मुस्लिमसम्राट ) निष्काषितवान् । तदा मुस्लिमजनान् आकर्षयितुं गान्धिः आन्दोलनं कृतवान् । आन्दोलनं खलिफात नाम्ना प्रसिद्धः आसीत् । आन्दोलनम् असफलं जातं यतोहि स्वयं तुर्किजनाः खलिफापदं न इच्छन्ति स्म । किन्तु एतेन आन्दोलनेन भारते हिन्दु - मुस्लिम मध्ये वैरभावः वर्धितः । एतत् कारणात् डॉ.हेडगेवारजी काङ्ग्रेसदलं त्यक्तवान् ।

डॉ.हेडगेवारजी इदानींभारतस्य पराधिनतायाः विषये मूलतः चिन्तनम् आरब्धवान् । प्राचीनस्य भारतीयराष्ट्रस्य पराभवः किमर्थं जातः? एवञ्च कथम् एतत् राष्ट्रं बलवत् सङ्घटितं च भवेत् ? इत्यन्योः प्रश्नयोः समाधानं कश्चित् स्वप्नदृष्टवत् सः आजीवनम् अन्विष्यन् आसीत् । सः ज्ञातवान् यत् भारतीयाः सङ्घटिताः न सन्ति अतः पराधिनाः सन्ति । अतः राष्ट्रहिताय सङ्घटननिर्माणं कुर्मः । इदं कार्यम् ईश्वरीयं कार्यम् । " राष्ट्राय जीवदानं सरलं किन्तु राष्ट्राय एव जीवनं कठिनम् " । वयं कठिनं कार्यं कुर्मः । एतेन विचारेण १९२५तमे वर्षे विजयादशम्याः दिने गोष्ठिद्वारा सङ्घस्य आरम्भः जातः । गोष्ठ्याम् उपस्थितेषु प्रमुखाः आसन् भाऊजीकावरे, अण्णासोहोनी, विश्वनाथकेलकर .बालाडीहुद्दार , बापूराभेदी च । सङ्घस्य स्थापनां तु नागपुरस्य निर्जनायां भूम्यां " मोहितेवाड " इति स्थाने जाता किन्तु अधुना सङ्घः आभारते अस्ति ।

नामकरणम्[सम्पादयतु]

राष्ट्रियस्वयंसेवकसङ्घस्य नाम्नि त्रयः शब्दाः वर्तन्ते । १) राष्ट्रिय २)स्वयंसेवकः ३)राष्ट्रियस्वयंसेवकसङ्घः । १) वयं वदामः यत् कार्यं करणीम् , किन्तु कस्य कृते ? उत्तरम् आगच्छति राष्ट्रार्थम् । को नाम राष्ट्रः ? केवलभूभागः ? केवलजनानां समुहः वा? न , राष्ट्रः इत्युक्ते समान इतिहासः येषाम् अस्ति , येषां कृते समानपरिमाणाः सन्ति तादृशानां समुहः । ये राष्ट्रं स्वमातृभूमिं गण्यते तादृशानां राष्ट्रियानां समुहः एव राष्ट्रः ।

२)स्वयंसेवकः धनपेक्षा विना एव समाजकार्यं करोति । वयं मातुः सेवां कृत्वा धनं याचयामः वा ? न , तर्हि मातृभूम्याः कार्यार्थम् अपि धनं नावश्यकम्। स्वयंसेवकः इत्युक्ते नेतुः कृते व्यवस्था कर्ता,जयघोषकर्ता वा न , डॉक्टरजी वदति स्म स्वयंसेवकः अर्थात् राष्ट्रभक्तः जनः । राष्ट्रियस्वयंसेवकसङ्घस्य पूजनीयद्वितीयः सरसङ्घचालकः श्रीगुरुजी आत्मानं स्वयंसेवकरुपेण ????????? ।

३)सङ्घः अर्थात् एकत्रीकरणमात्रं न । संस्कारयुक्तानां जनानाम् एकत्रीकरणम् । शाखायाम् आज्ञा भवति " एकशः सम्पत् " तदा जातिभेदं विना सर्वे एकपङ्कत्यां तिष्ठन्ति । सङ्घस्य अर्थः अस्ति सामाजिकानां राष्ट्रियानाम् एकत्रीकरणम् । राष्ट्रियस्वयंसेवकसङ्घस्य नामद्वारा एव सङ्घस्य उदेश्यः स्पष्टः भवति । राष्ट्रार्थं सामाजिकानां समुहः राष्ट्रियस्वयंसेवकसङ्घः ।

राष्ट्रियस्वयंसेवकसङ्घस्य कार्यक्रमाः[सम्पादयतु]

राष्ट्रियस्वयंसेवकसङ्घस्य बहवः कार्यक्रमाः सन्ति । तेषां विभागत्रयम् अस्ति-

१) नित्यकार्यक्रमाः २) नैमितिककार्यक्रमाः ३) उत्सवाः ।

१) नित्यकार्यक्रमाः सङ्घस्य नित्यकार्यक्रमः शाखा अस्ति । शाखायां ये कार्यक्रमाः भवन्ति ते नित्यकार्यक्रमाः । ते यथा सूर्यनमस्काराः , निःयुद्धः , दण्डयुद्धः इत्यादयः । पुनः ये विविधाः वर्गाः भवन्ति ते अपि नित्यकार्यक्रमाः। यथा दीपावलिवर्गः, सङ्घशिक्षावर्गाः । एते कार्यक्रमाः करणियाः एव ।

२) नैमितिककार्यक्रमाः

सङ्घकार्यवर्धनार्थं विविधाः


३) उत्सवाः

पारिभाषिकशब्दाः[सम्पादयतु]

सङ्घस्य केचन पारिभाषिकशब्दाः सन्ति , यथा

सरसङ्घचालकः - सङ्घस्य मार्गदर्शकः ।

सरकार्यवाहः - राष्ट्रियस्वयंसेवकसङ्घस्य निर्वाचितः सर्वोच्चः पदाधिकारी ।

सङ्धचालकः - स्थानीयकार्यस्य ,स्थानीयकार्यकतृणां च पालकः ।

मुख्यशिक्षकः - नित्यशाखायाः कार्यक्रमाणां सञ्चालकः ।

कार्यवाहः - शाखा‌क्षेत्रस्य प्रमुखः ।

गटनायकः - शाखा‌क्षेत्रस्य एकस्य लघुभौगोलिकभागस्य प्रमुखः ।

प्रचारकः - साकल्येन सङ्घकार्याय समर्पितः अवैतनिकः अविवाहितः कार्यकर्ता ।

चन्दनम - सपीतिः ।

सङ्घशिक्षावर्गः - सङ्घस्य कार्यपद्धतेः पाठनस्य क्रमबद्धा वर्षत्रयीया प्रशिक्षण योजना ।

सरसङ्घचालकाः[सम्पादयतु]

शाखाः[सम्पादयतु]

मातृभूम्याः रक्षणस्य प्रतिज्ञां कुर्वाणः स्वयंसेवकः

रा.स्व सङ्घस्य प्रमुखः कार्यक्रमः शाखा । रा.स्व.सं तावत् शाखाद्वारा चलति । शाखा प्रतिदिनं घण्टां यावत् सार्वजनिकेषु स्थानेषु चलति । प्रायः राष्ट्रे अधुना ६०,००० शाखाः सन्ति । रा.स्व.सङ्घस्य शाखासु स्वयं सेवकानां व्यक्तित्वनिर्माणस्य विकसनस्य दृष्ट्या बहूनि कार्याणि आयोज्यन्ते । देहस्य दृढतासम्पादनाय योगः तथा व्यायामः अपि भवति । प्रतिदिनं क्रीडा अपि भवति । नागरिकज्ञानं, समाजसेवा, समुदायजीवनं, देशभक्तिः इत्यादयः गुणाः अत्र कार्यक्षेत्रे योजिताः सन्ति । स्वयं सेवकानां प्रथमचिकित्साविषये आपत्काले जनानां रक्षणं, पुनर्वसतिः इत्यादीनां कार्याणां विषये प्रशिक्षणं दीयते अत्र । शाखाः यत्र चलन्ति ताद्शग्रामेषु अथवा प्रदेशेषु स्वच्छताकार्येषु अभिवृद्धिकार्येषु प्रवृत्ताः भवितुं सङ्घः स्वयंसेवकान् प्रेरयति ।

राष्ट्रियस्वयंसेवकसङ्घस्य ध्वजः[सम्पादयतु]

सङ्घस्य प्रार्थना[सम्पादयतु]

सङ्घस्य प्रार्थनायां त्रयः श्लोकाः सन्ति । प्रथमश्लोकस्य वृत्तं भुजङ्गप्रयात , अन्यद्वयस्य मेघनिर्घोष अस्ति । प्रार्थनायां त्रयोदशपंक्तयः सन्ति । द्वादशपंक्तयः संस्कृते सन्ति , अन्तिमा हिन्दिभाषायाम् अस्ति । १९४०तमे वर्षे अस्याः संस्कृतप्रार्थनायाः आरम्भः जातः । तस्मात् पूर्वं प्रार्थना मराठि - हिन्दि भाषयोः आसीत् , किन्तु कार्यवर्धनान्तरं प्रार्थनायाः भाषा परिवर्तनीया इति एका गोष्ठि जाता । तस्यां गोष्ठ्याम् आद्य सरसङ्घचालकः डॉ.हेडगेवारजी, श्रीगुरजी, श्री अप्पाजी ,श्री बाबासाहेबजी , श्रीबाळासाहेबजी इत्यादयः गणमान्याः उपस्थिताः आसन् । प्रार्थनायाः संस्कृत रुपातरं श्री नरहरनारायणभिडे द्वारा १९३९तमे वर्षे फरवरीमासे जातम् । एतस्याः प्रथमवारं गानं १९४०तमस्य वर्षस्य पुणे - शिक्षावर्गे अभवत् । श्री यादवरावजोषी स्वरं दत्तवान् , सः एव प्रथमं प्रार्थनायाः गानं कृतवान् ।

सङ्घस्य प्रार्थना
नमस्ते सदा वत्सले मातृभूमे
त्वया हिन्दुभूमे सुखं वर्धितोहम् ।
महामङ्गले पुण्यभूमे त्वदर्थे
पतत्वेष कायो नमस्ते नमस्ते ।। १ ।।
प्रभो शक्तिमन् हिन्दुराष्ट्राङ्गभूता
इमे सादरं त्वां नमामो वयम्
त्वदीयाय कार्याय बद्धा कटीयम्
शुभामाशिषं देहि तत्पूर्तये ।
अजय्याञ्च विश्वस्य देहीश शक्तिम्
सुशीलं जगद्येन नम्रं भवेत्
श्रुतञ्चैव यत्कण्टकाकीर्णमार्गम
स्वयं स्वीकृतं नः सुगं कारयेत् ।। २ ।।
समुत्कर्षनिःश्रेयसस्यैकमुग्रम्
परं साधनं नाम वीरव्रतम्
तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा
ह्रदन्तः प्रजागर्ततुतीव्रा निशम् ।
विजेत्री च न संहता कार्यशक्तिः
विधायास्य धर्मस्य संरक्षणम्
परं वैभवं नेतुमेतत् स्वराष्ट्रम्
समर्था भवत्वाशिषा ते भृशम् ।। ३ ।।
।। भारत माताकी जय ।।

सङ्घविषयक साहित्यानां प्रकाशकाः[सम्पादयतु]

१. सुरुचि प्रकाशन ; देशबन्धु गुप्ता मार्ग झण्डेवाला, नई दिल्ली -५५

२. लोकहित प्रकाशन संस्कृति भवन ; राजेन्द्र नगर, लखनऊ -४

३. राष्ट्रोत्थान साहित्य केशव शिल्प ; केम्पगौड़ा नगर, बंगलौर -१९

४. भारतीय विचार साधना

(क) डा. हेडगेवार भवन महाल, नागपुर -४४०००२
(ख) मोती बाग ; ३०९, शनिवार पेठ, पुणे -४११०३०
(ग) मंगलदास बाड़ी, डा. भडकम्कर मार्ग नाज सिनेमा परिसर, मुम्बई -४०००४

५. ज्ञान गंगा प्रकाशन ; भारती भवन, बी-१५, न्यू कालोनी, जयपुर -३०२००१

६. अर्चना प्रकाशन ; एच.आई.जी.-१८, शिवाजी नगर, भोपाल -४६२०१६

७. साधना पुस्तक प्रकाशन ; राम निवास ; बलिया काका मार्ग, जूनाढोर बाजार के सामने, कांकरिया, अहमदाबाद -३८००२८

८. सातवलेकर स्वाध्याय ; पो - किलापारडी मण्डल जिला-वलसाड , गुजरात -३९६१२५

९. साहित्य निकेतन ; ३-४/८५२, बरकतपुरा, हैदराबाद -५०००२७

१०. स्वस्तिश्री प्रकाशन ; ४४/९, नवसहयाद्री सोसाइटी, नवसहयाद्री पोस्टास मोर पुणे -४११०५२

११. जागृति प्रकाशन ; एफ. १०९, सेक्टर-२७ , नोएडा (गौतम बुद्ध नगर) उ.प्र.२०१३०१

१२. सूर्य भारती प्रकाशन ; २५९६, नई सड़क, दिल्ली -११०००६


राष्ट्रियस्वयंसेवकसङ्घस्य सहयोगीसंस्थाः[सम्पादयतु]

बाह्यतन्तुः[सम्पादयतु]

विशेष

बाह्यानुबन्धः[सम्पादयतु]