रीवामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रीवामण्डलम्

Rewa District
रीवा जिला
रीवामण्डलम्
रीवामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे रीवामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे रीवामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि जावा, तेवथर, मङ्गावा, सेमरिया, नईघडी, हनुमाना, हुजूर, रायपुर-करचुलिया, मौगणी, गुढ
विस्तारः ६,३१४ च. कि. मी.
जनसङ्ख्या (२०११) २३,६५,१०६
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७१.६२%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४६.५%
Website http://rewa.nic.in/

रीवामण्डलम् ( /ˈrvɑːməndələm/) (हिन्दी: रीवा जिला, आङ्ग्ल: Rewa District) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रीवा इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

रीवामण्डलस्य विस्तारः ६,३१४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे सतनामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे सीधीमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं रीवामण्डलस्य जनसङ्ख्या २३,६५,१०६ अस्ति । अत्र १२,२५,१०० पुरुषाः, ११,४०,००६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३७५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३७५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३१ अस्ति । अत्र साक्षरता ७१.६२% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- जावा, तेवथर, मङ्गावा, सेमरिया, नईघडी, हनुमाना, हुजूर, रायपुर-करचुलिया, मौगणी, गुढ ।

कृषिः वाणिज्यं च[सम्पादयतु]

अस्मिन् मण्डले चूर्णपाषाणानां, ’सिमेण्ट’ इत्यस्य च व्यापारः भवति । अस्मिन् मण्डले बहवः ’सिमेण्ट’ यन्त्रागराः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

१ देवकोठार २ गोविन्दगढ ३ लक्ष्मण-उद्यानम् ४ बघेला सङ्ग्रहालयः, दुर्गश्च

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://rewa.nic.in/
http://www.census2011.co.in/census/district/297-rewa.html

"https://sa.wikipedia.org/w/index.php?title=रीवामण्डलम्&oldid=463989" इत्यस्माद् प्रतिप्राप्तम्