रुद्राणां शङ्करश्चास्मि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

रुद्राणां शङ्करः च अस्मि वित्तेशः यक्षरक्षसाम् वसूनां पावकः च अस्मि मेरुः शिखरिणाम् अहम् ॥ २३ ॥

अन्वयः[सम्पादयतु]

रुद्राणां शङ्करः च अस्मि । यक्षरक्षसां वित्तेशः, वसूनां पावकः, शिखरिणां मेरुः च अहम् अस्मि ।

शब्दार्थः[सम्पादयतु]

रुद्राणाम् = रुद्राणाम्
शङ्करः च अस्मि = शङ्करः अस्मि
यक्षरक्षसाम् = यक्षाणां राक्षसानां च
वित्तेशः = कुबेरः
वसूनाम् = वसूनाम्
पावकः = अग्निः
शिखरिणाम् = पर्वतानाम्
मेरुः च = मेरुपर्वतः च अस्मि ।

अर्थः[सम्पादयतु]

एकादशसु रुद्रेषु अहं शरः अस्मि । यक्षाः राक्षसाश्च ये सन्ति तेषु कुबेरः अस्मि । विख्यातेषु अष्टसु वसुषु अग्निः अस्मि । पर्वतेषु मेरुपर्वतः अस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]