रैवतकः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

अयं सौराष्ट्रे (गुजरातराज्ये) विद्यमानः प्रमुखः कश्चन पर्वतः । २६०० पादमितम् उन्नतः अस्ति । द्वारकावासिनां प्रियः पर्वतः आसीत् अयम् । ते सहस्रशः जनाः एतं पर्वतम् आरुह्य “गिरिमहः” इत्येकं पर्व आचरन्ति स्म इति उक्तम् अस्ति पुराणे । सौराष्ट्रस्य दक्षिणभागे आनर्तराज्ये रैवतको नाम पर्वतः अस्ति इति महाभारते उक्तम् अस्ति । आनर्तराज्यस्य युवराजस्य नाम आसीत् रेवतः इति । तस्मात् एव कारणात् अस्य पर्वतस्य नाम “रैवतकः” इति जातं स्यात् । प्राचीनकाले अयं पर्वतः ऊर्जयन्तः, प्रभासः, वस्त्रापथः, पुष्पगिरिः इत्यादिभिः नामभिः निर्दिश्यते स्म । सम्राजः अशोकस्य अपेक्षया अपि पूर्वारभ्य अस्य पर्वतस्य उल्लेखः दृश्यते । जैनमतस्य प्रथमः तीर्थङ्करः ऋषभदेवः अपि अस्य पर्वतस्य उल्लेखं कृतवान् अस्ति । जरासन्धस्य पीडया श्रान्ताः यादवाः मथुरां परित्यज्य द्वारकां निर्मितवन्तः । तदारभ्य अयं पर्वतः यादवानां लीलाभूमिः अभवत् ।

स्कन्दपुराणस्य प्रभासखण्डानुसारं परमेश्वरः तदा तदा दैत्येभ्यः वरान् प्राददात् । तदा ब्रह्मा परशिवस्य निन्दनम् अकरोत् । तेन दुःखितः परशिवः गुप्तरूपेण कैलासतः गिरिनारम् आगतवान् । पार्वत्याः सङ्गीतेन मुग्धः परशिवः देवतानाम् आग्रहेण कैलासं प्रतिगतवान् । गमनावसरे पार्वतीसहितः अंशरूपः अस्मिन् पर्वते तिष्ठामि इति उक्तवान् । अतः एतत् किञ्चित् शक्तिपीठम् अपि । श्रीकृष्णस्य काले अन्या काचित् घटना प्रवृत्ता अत्र । तीर्थयात्राव्याजेन अर्जुनः अत्र आगतः । अत्रैव श्रीकृष्णस्य मार्गदर्शनानुसारं बलरामस्य इच्छायाः विरुद्धं सुभद्राम् अपहृत्य ऊढवान् अर्जुनः । १८ धर्माज्ञायुक्तम् ऐतिहासिकं प्रसिद्धम् अशोकस्य शिलाशासनम् अत्र प्राप्तम् अस्ति । रुद्रदामननामकः (क्रि.श.१५०) अत्रत्यं सुदर्शनसरोवरं समीकारयत् इति अन्यस्मिन् शिलाशासने उल्लिखितम् अस्ति । अपरस्मिन् शिलाशासने स्कन्दगुप्तस्य काले (क्रि.श.४५६) तस्य सरोवरस्य समीकरणं कृतम् इति उल्लिखितम् अस्ति । अस्य सरोवरस्य निर्माणं चन्द्रगुप्तमौर्यः अकरोत् इति । हिन्दुसमाजस्य सर्वेषाम् अपि मतानां सङ्गमस्थानम् अयं पर्वतः । किन्तु तेषु अधिकांशाः जैनमतीयाः यात्रिकाः एव । जैनशास्त्रस्य अनुसारं जैनानां पवित्रक्षेत्रस्य शत्रुञ्जयपर्वतस्य यात्राफलं प्राप्यते गिरिनारस्य दर्शनेन एव । जैनमतस्य २२तमस्य तीर्थङ्करस्य निर्वाणं सञ्जातम् अस्मिन् एव पर्वते । अतः एतत् जैनतीर्थम् इत्येव मन्यते ।

अस्मिन् पर्वते आहत्य २१ शिखराणि सन्ति । तेषु अम्बिका, गोरखी, नेमीनाथः, गुरुः, कालिका च प्रसिद्धानि । अस्य पर्वतस्य आरोहणार्थं त्रिसहस्राधिकानि सोपानानि सन्ति । आरोहणावसरे प्रथमं प्राप्यते दातारशिखरम् । तत् शिखरं “जलस्रोतशिखरम्” इत्यपि वदन्ति । अत्र कश्चन जलस्रोतः अस्ति । तस्य स्रोतस्य जलं चर्मरोगनिवारकम् इति विश्वासः अस्ति । अस्य पार्श्वे एव ब्रह्मणः यज्ञस्थानम् अस्ति । तत्रैव ब्रह्मणा निर्मितः बाघेश्वरीसरोवरः अस्ति । अग्रिमं शिखरम् अस्ति अम्बादेव्याः (अम्बिका) । एतदपि किञ्चन शक्तिपीठम् अस्ति । अत्र सौराष्ट्रस्य सर्वस्यापि कुटुम्बस्य नवोढौ वधूवरौ देव्याः दर्शनार्थम् आगच्छतः एव । अग्रे लभ्यते गोरखशिखरम् (गोरक्षनाथः) । एतत् अत्यन्तम् उन्नतं शिखरम् (३६६६ पादमितम्) । एषा गोरखनाथस्य तपोभूमिः । गुरुशिखरं दत्तात्रेयस्य तपोभूमिः । तत्र दत्तात्रेयस्य पादुका अस्ति । अस्मिन् एव शिखरे निरञ्जनरघुनाथः, किनाराम-अघोरी, नारायणः, जालवणकरः इत्यादयः दत्तोपासकाः दत्तसाक्षात्कारं प्राप्नुवन् । गुरु-गोरखनाथशिखरयोः मध्ये अस्ति नेमीनाथशिखरम् । एतत् नेमीनाथस्य निर्वाणस्थानम् । अत्र नेमीनाथस्य पदचिह्नम् अपि अस्ति । अत्रत्ये मन्दिरे नेमीनाथस्य सालिग्रामशिलया निर्मितः विग्रहः अस्ति । अस्य शिखरस्य चन्द्रगुहायाम् एव जैनाचार्यः धरसेनः शिष्यौ भूतबलिं पुष्पदन्तं च “षट्खण्डागमम्” अबोधयत् । जैनागमग्रन्थानां रचना अपि इतः एव आरब्धा ।

अस्मिन् पर्वते गोमुखं, हनुमधारा, दामोदरकुण्डं, रेवती इत्यादीनि पवित्रकुण्डानि सन्ति । तेषु पितॄणाम् अस्थिविसर्जनं कुर्वन्ति । एतं पर्वतं प्रति जुनागढद्वारा अपि गन्तुं शक्यते । यादवानां क्रीडाभूमिः, ऋषिमुनीनां तपोभूमिः च अयं पर्वतः । अशोकेन, हर्षेण, कर्णेन, रुद्रमेन, स्कन्दगुप्तेन इत्यादिभिः राजर्षिभिः पूजितानां देवानां कृष्णस्य, बलरामस्य, शिवपार्वत्योः, श्रीहरेः, ब्रह्मणः च सान्निध्यम् इति विश्वसताम् अस्माकं प्रातःस्मरणीयः पर्वतः अयं रैवतकः ।

"http://sa.wikipedia.org/w/index.php?title=रैवतकः&oldid=254467" इत्यस्माद् पुनः प्राप्तिः