दाण्डीयात्रा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(लवणसत्याग्रहः/दण्डीयात्रा इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गन्धिमहोदयस्य नायकत्वे दण्डीयात्रा

भारते ब्रिटिष् प्रशासनकाले लवणस्य करः सञ्चालितः । तं विरुध्य महात्मा गान्धिः सत्याग्रहं सञ्चालितवान् । अस्य एव लवणसत्याग्रहः अथवा दण्डीयात्रा इति कथयन्ति । ब्रिटिष् लवणकरं तिरस्कृत्य गन्धिमहात्मा स्वानुयायिभिः सह गुजरात्राज्यस्य सबरमतीआश्रमतः समुद्रतटस्य दण्डी पर्यन्तं २४०मैलि दूरं पादक्रमणेन अक्रामत् । तत्र गत्वा साङ्केतिकरुपेण लवणस्य निर्माणम् अकरोत् । एतत् आन्दोलनं क्रि.श.१९३०तमे वर्षे मार्चमासस्य १२दिनाङ्कतः एप्रिल् ६दिनाङ्कपर्यन्तं प्राचलत् ।

पृष्ठभूमिः[सम्पादयतु]

क्रि.श.१९२९तमे वर्षे डिसेम्बर् ३१दिनाङ्के मध्यरात्रं लाहोर् इति नगरे प्रचालितायां भारतीयराष्ट्रियकाङ्ग्रेस्सभायां स्वतन्त्रभारतस्य ध्वजं समारोपयन् । तदनन्तरं क्रि.श.१९३०तमे वर्षे जनवरिमासस्य २६दिनाङ्के गान्धिमहोदयस्य जवाहर लाल नेह्रू महोदयस्य च नायकत्वे काङ्ग्रेस् पक्षः स्वातन्त्र्यस्य घोषणं कृतम् । सर्वकारस्य शासनानि उल्लङ्घ्य शासनभङ्गान्दोलनम् प्रचालनस्य निर्धारः कृतः । अस्य आन्दोलनस्य छायायां हिन्दुमुसल्मानजनानाम् एकीकरणम् उद्दिष्टम् । एतत् आन्दोलनम् अपि अहिंसामार्गेण एव सञ्चालनीयम् इति गान्धिमहोदयस्य दृढः निश्चयः आसीत् । अस्य सत्याग्रहतत्त्वं सहनशीलप्रतिरोधम् अतिरिच्य विशालं व्याप्तम् आसीत् ।

गान्धि उवाच[सम्पादयतु]

अस्मिन् विषये तस्य कानिचनवचनानि एवं सन्ति । सत्यं प्रीत्याः, आग्रहः दृढविश्वासस्य च सङ्केतः । तन्नाम सत्येन प्रीत्या अहिंसया च जाता दृढता । वयं सत्याग्रहनिरताः तत् समाचर्य यदि अस्माकं दृढतायां विश्वस्ताः तर्हि प्रतिदिनं वयं ब्रबलाः भवेम । अनेन प्राबल्येन अस्माकं सत्याग्रहः अधिकफलयुतः भविष्यति । पुनः तस्य त्यागं कर्तुं कारणम् अपि किमपि न भविष्यति ।

दण्दीयात्रायां गान्धिमहोदयेन सह सरोजिनि नायिडु

लवणकरः[सम्पादयतु]

ब्रिटिष् सर्वकारः सामान्यजनानाम् अपि नित्योपयोगवस्तुनः यत् विशेषपरिश्रमेण विना उत्पादितं शक्यते तस्य लवणस्य करसङ्ग्रहं कृत्वा स्वकोशं पूरयति स्म । अनेन विषयेण आकृष्टः गान्धिमहात्मा लवणकरम् एव स्वस्य अहिंसात्माकान्दोलनस्य केन्द्रं कृत्वा सत्याग्रहं आरब्दवान् । ब्रिटिष् सर्वकारेण विना अन्यैः लवणस्य निर्माणं विक्रयणं वा न करणीयम् इति नियमः कृतः । समुद्रतटे विद्यामानानां निश्शुल्कं निरायासं लवणं मिलति चेदपि तत् न लभेत । केवलं ब्रिटिष् सर्वकारात् एव लवणं प्राप्तव्यम् । अपि च विविधवस्तूनां करग्रहणेन वस्तूनां मौल्यम् अधिकं भवति स्म । अतः करविरोधः सर्वेषां कृते अनिवार्यं कर्म अभवत् । अतः जातिमताभेदेन सर्वे सताग्रहे भागं स्वीकर्तुम् उत्सुकाः अभवन् । तेन एतत् लवणकरविरोधि अन्दोलनं यशस्वि अपि अभवत् । अस्मिन् एव समये काङ्ग्रेस् पक्षस्य सौम्यवादिनः सामान्यजानाः च अस्मिन् सत्याग्रहे भागं स्वीकर्तुं गान्धिमहोदयः प्रेरेपितवान् । अस्य वार्तां वृत्तपत्राणि प्रासारयन् ।

परिणामाः[सम्पादयतु]

दण्डिसत्याग्रहस्य परिणामः देशे सर्वत्र व्याप्तः । महात्मागन्धिमहोदयेन प्रेरिताः सहस्राधिकाः जनाः स्वयं लवणं निर्मितवन्तः विक्रीतवन्तः च । अनेन उत्साहिताः भारतीयाः बिटिष् समवायस्य अन्यानि उत्पादनानि अपि तिरस्कृतवन्तः । शासनविधिम् उल्लङ्घ्य लवणनिर्माणस्य विक्रयणस्य व्याजेन सहस्राधिकभारतीयान् ब्रिटिष् सर्वकारः बन्धनम् अकरोत् । अयं सत्याग्रहः भारतस्य अन्यप्रदेशम् अपि व्यापः। पेशावर इति प्रदेशे महात्मागान्धेः अनुयायी गफर् खान् इत्यस्य नेतृत्वे कुदाय् कित्मत्गार् इति नाम्ना सत्याग्रहीनां समूहः आन्दोलनं सञ्चालयति स्म । यदा गफर् खानस्य बन्धनम् अभवत् तदा तद्विरुध्य हिंसायुक्तः विरोधः कृतः । तादा ब्रिटिष् अधिकारिणः गोलिकाघतं कृतवन्तः । अनेन नैके सत्याग्रहकारिणः मृताः । अन्ते महात्मागान्धिम् अपि बन्धयितुं भारतस्य तदानीन्तनः ब्रिटिष्वैसरायः आदिष्टवान् । क्रि.श.१९३०तमे वर्षे मे मासस्य चतुर्थे दिने गुजरातस्य दण्डिग्रामे मध्यरात्रं ३०आरक्षकैः सहितः मण्डलन्यायाधीशः निद्रामग्नं गान्धिमहोदयं बन्धितवान् । समग्रभारतस्य सहस्रशः जनाः लवणसत्याग्रहात् आकृष्टाः । विश्वस्य लक्ष्यमपि आकृष्टम् अनेन लवणान्दोलनेन । केषुचित् दिनेषु गतेषु गान्धिमहोदयस्य विमोचनम् अभवत् । सः भारतस्य स्वातन्त्र्यसङ्ग्रामस्य नेतृत्वं समुन्नीतवान् । भारतस्य दीर्घेतिहासे दण्डिसत्यग्रहः महत्वपूर्णं पुटम् ।

"http://sa.wikipedia.org/w/index.php?title=दाण्डीयात्रा&oldid=267151" इत्यस्माद् पुनः प्राप्तिः