लाल कृष्ण आडवाणी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(लालकृष्णाडवाणी इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Lal Krishna Advani
लाल कृष्ण आडवाणी
भारतस्य प्रति प्रधानमन्त्री
कार्यालये
29 June 2001 – 22 May 2004
पूर्वगमः चौधरी देवी लाल
पादानुध्यातः रिक्त
Minister of Home Affairs
कार्यालये
19 March 1998 – 22 May 2004
प्रधानमन्त्री अटलबिहारीवाजपेयी
पूर्वगमः Indrajit Gupta
पादानुध्यातः Shivraj Patil
Leader of Opposition (Lok Sabha)
कार्यालये
May 2004 – December 2009
पूर्वगमः Sonia Gandhi
पादानुध्यातः Sushma Swaraj
कार्यालये
1989–1993
Minister of Personnel, Public Grievances and Pensions
कार्यालये
29 January 2003 – 21 May 2004
प्रधानमन्त्री Atal Bihari Vajpayee
Minister of Coal and Mines
कार्यालये
1 July 2002 – 25 August 2002
प्रधानमन्त्री Atal Bihari Vajpayee
President of Bharatiya Janata Party
कार्यालये
1986–1991
कार्यालये
1993–1998
कार्यालये
2004–2006
Leader of Opposition (Rajya Sabha)
कार्यालये
January 1980 – April 1980
व्यक्तिगत विचाराः
जननम् नवम्बर ८, १९२७ (1927-11-08) (वयः ८६)
Karachi, (Sindh) British India (now Pakistan)
राजनैतिकपक्षः Bharatiya Janata Party (1980–present)
अन्यराजनैतिक-
सम्बन्धः
Bharatiya Jana Sangh (Before 1977)
Janata Party (1977–1980)
पतिः/पत्नी Kamla Advani
अपत्यानि Pratibha (Daughter)
Jayant (Son)
मुख्यशिक्षणम् Saint Patrick's High School, Karachi Sindh
D. G. National College, Hyderabad, Sindh
Government Law College, Bombay University.
वृत्तिः Lawyer
धर्मः Hindu
हस्ताक्षरम्
जालस्थानम् Official website

बाल्यजीवनं पृष्ठभूमिका च[सम्पादयतु]

लालकृष्णः अड्वानी तदानीन्तनस्य भारतस्य, सिन्धप्रान्तस्य कराचीनगरे जन्म प्राप्तवान् । तस्य माता ग्यानी देवी, पिता च कृष्णचन्द डि अड्वानी । सः प्याट्रिक् प्रौढशालायां शालीयविद्याभ्यासं कृतवान् । अनन्तरम् इदानीन्तनपाकिस्थानस्य हैदराबाद् नगरे, डि.जि.न्याष्नल् कालेज् मध्ये अध्ययनं कृतवान् । अनन्तरं, मुम्बयी विश्वविद्यालयस्य सर्वकरीयविधिमहाविद्यालयात् पदवीं प्राप्तवान् ।

राजकीयमार्गः, प्राक् जीवनं च[सम्पादयतु]

एल् .के. अड्वानी -अस्य राजकीयजीवनं १९४७ मध्ये आरब्धम् । सः कराचीनगरे राष्ट्रियस्वयंसेवकसङ्घस्य कार्यदर्शित्वेन निर्वाचितः । अड्वानीं राजास्थानस्य मेवारप्रान्तं प्रति रा.स्व.से.सङ्घस्य कार्याणां पर्यवेक्षणार्थं प्रेषितवन्तः । तत्तत्र देशविभजनस्य कारणतः जातीयकलहः आरब्धः आसीत् ।

जनसङ्घस्य दिनानि[सम्पादयतु]

अड्वानी भारतीयजनसङ्घ्स्य सदस्यः अभवत् । एषः सङ्घः श्यामप्रसादमुखर्जिना १९५१ तमे वर्षे आरब्धः। सः तस्मिन् पक्षे विविधपदेषु कार्यं कृत्वा १९७५ तमे वर्षे पक्षस्य अध्यक्षः अभवत् ।यदा जयप्रकाशनारायणः 'विरोधपक्षाः यावत् एकीभूय कार्यं न कुर्वन्ति तावत् अपत्कालिकां स्थितिं विरुध्य कार्यं न करोमि इति उद्घुष्टवान् तदा जनसङ्घादयः विरोधपक्षाः एकीभूताः। जनसङ्घघपक्षस्य विसर्जनेन अड्वानी तथा सहोद्योगी अटलबिहारी वाजपेयी च जनतापक्षम् आगत्य १९७७ तमे वर्षे निर्वाचने भागं स्वीकृतवन्तौ ।

जनतापक्षः[सम्पादयतु]

जनतापक्षः अनेकपक्षाणां नेतृभिः कार्यकर्तृभिः च सम्भूय निर्मिता वेदिका । ते सर्वे एकीभूय १९७५ तमे वर्षे तदानीन्तनप्रधानमन्त्रिणा इन्दिरा गान्न्धिःवर्यया प्रयुक्तायाः आपत्कालिक्याः स्थित्याः विरोधं कृतवन्तः।

यदा १९७७ तमे वर्षे निर्वाचनम् उद्घोषितम् अभवत् तदा ,कांग्रेस् (ओ), स्वतन्त्रपक्षाः, भारतीयसमाजवादीपक्षः, भारतीयजनसङ्घः, लोकदलं च मिलित्वा, जनतापक्षः इति नाम्ना नूतनं पक्षम् आरब्धवन्तः। जगज्जीवनरामः अपि कांग्रेसपक्षतः बहिरागत्य, कांग्रेस् फ़ार् डेमोक्रसि इति, पक्षं संस्थाप्य, जनतापक्षस्य आश्रयम् आगतवान् । आपत्कालिकीं स्थितिं विरुध्य जनाः निर्वाचने जनतापक्षं प्रति स्वमतदानेन अधिकारारूढं कृतवन्तः । मोरार्जी देसायी भारतस्य प्रधानमन्त्री अभवत् । अड्वानी तदा सूचना तथा प्रसारणविभागस्य सचिवः अभवत् । तस्य परममित्रं जनसङ्घस्य सहोद्योगी , अटलबिहारी वाजपेयी विदेशाङ्गसचिवः अभवत् ।

जनतापक्षस्य जन्म एव तदीयस्य विनाशे बिजाङ्कुरः इव अभवत् । मिथः अविश्वासः च सर्वकारस्य पतने हेतू अभवताम् । द्विसदस्यता एव कलहे प्रमुखं कारणं सञ्जातम्। जनसङ्घतः ये आगताः, ते राष्ट्रियस्वयंसेवकसङ्गस्य सदस्यत्वं त्यजेयुः इति वादः प्रादुरभवत्।

जनसङ्घस्य पूर्वतनसदस्याः जनतापक्षात् बहिरागत्य, “भारतीयजनतापक्षः“इति नूतनं पक्षम् आरब्धवन्तः। अड्वानी तत्र प्रमुखः नायकः भूत्वा , राज्यसभायां तस्य पक्षस्य नायकः अभवत् ।

भारतीयजनतापक्षस्य उन्नतिः[सम्पादयतु]

अड्वानी १९८६ तमे वर्षे भारतीयजनतापक्षस्य अध्यक्षः अभवत् । मण्डल-आयोगस्य राजकीयतः उत्पन्ना तस्य उन्नतिः कांग्रेस् पक्षे अशान्तताम् उदपादयत् । मुस्लिम्जनेषु मूलभूतवादिता वृद्धिं गता। अड्वानी तावत् स्वदृढमनसा पक्षम् १९९१ तमे वर्षे उन्नतस्थानं नीतवान् । सः क्रमेण पक्षस्य सिद्धान्तेषु हिन्दुत्वपोषकांशान् संयोजितवान् । तेन फलमपि प्राप्तवान् । वित्तसचिवस्य विश्वनाथप्रतापसिंहस्य कांग्रेसपक्षतः बहिरागमनं लाभकारि अभवत्। १९८९ तमे निर्वाचने वी.पी.सिंहस्य जनतादलस्य तथा भारतीयजनतापक्षस्य च स्थितिः उत्तमा अभवत् । यद्यपि कांग्रेस् पक्षः एकाकिना अधिकसदस्ययुतः अभवत् तथापि सः पक्षः विरोधपक्षत्वेन कार्यं कर्तुं सिद्धः अभवत्। वी.पी. सिंहः अनेकमित्रपक्षाणां सहयोगेन प्रधानी अभवत्। भारतीयजनतापक्षःसर्वकारतः बहिः स्थित्वा एव तस्य समर्थनम् अकरोत्।

१९८९ तमे वर्षे भारतीयजनतापक्षः अड्वानीनायकत्वे रामजन्मभूमिरिति नूतनं विषयं स्वीकृत्य देशे आन्दोलनम् आरभत। । भा.ज.पक्षः बाब्रीमस्जिद् यत्र अस्ति तत्रैव रामालयस्य स्थापनं भावेत् इति निर्धारम् अकरोत् । भारतीयपुरातत्त्वविभागस्य आशयः यत् तत्र एव राममन्दिरम् आसीत् यत्र इदानीं बाबरीमस्जिद् अस्ति इति। १५२८ तमे वर्षे यदा बाबरः आक्रमणं कृतवान् तस्मात् पूर्वं तत्र देवालयः आसीत्। केन्द्रीय सुन्निमण्डली विभागस्य वादं निराकरोत्, ५० पादमिते तले खननं न अभवत् एव। राजकीयपरिहारस्य अभावे, कश्चन हिन्दुगणः तस्य विवादितस्य भवनस्य नाशम् अकरोत् । एतेन हिन्दूमुस्लिम् जनानां मध्ये वैषम्यं प्रादुरभवत् ।

अड्वानी रथयात्राप्रसङ्गेन करसेवकान् सर्वान् बाबरीमस्जिद् स्थाने प्रार्थनां कर्तुम् आहूतवान् । एषा रथयात्रा वातानुकूलितवाहनेन अभवत् , यच्च वाहनं रथसदृशं कल्पितम् आसीत् ।गुजरात्राज्यस्य सोमनाथदेवालयतः आरब्धा यात्रा उत्तरभारते बहून् प्रदेशान् अगच्छत् । परन्तु बिहारराज्ये मुख्यमन्त्रिणा लालूप्रसादेन एषा यात्रा स्थगिता । तदा अड्वानीबन्धनम् अभवत् । तदा मतीयवैषम्यस्य कारणात् बहवः मारिताः।

भाजपक्षस्य स्थितिः विशेषतः उत्तरभारते उत्तमा अभवत् । एतेन ध्रुवीकरणेन उच्चजातीयजनानां मतानि भा.ज.पक्षं प्रति आगतानि । ये च उच्चजातीयाः आसन् ते मण्डल् आयोगस्य कारणतः कांग्रेस्पक्षः विमुखाः आसन् ।१९९१ तमे निर्वाचने भारतीयजनतापक्षः सदस्यसंख्यया द्वितीयं स्थानं प्राप्नोत् । कांग्रेस् पक्षः प्रथमं स्थानम् अलभत ।

रथयात्रायाः वर्षद्वयानन्तरं,१९९२ तमे वर्षे ,कल्य़ाणसिंहस्य नेतृत्वे वर्तमानः भा.ज.पक्षस्य सर्वकारः उच्चन्यायालये यद्यपि बाब्रीरक्षणार्थं कृतप्रमाणः, आसीत् तथापि बाबरी विनाशे कारणमभवत् । कल्याणसिंहस्य सर्वकारः एतदर्थं साहाय्यमकरोत् । बाबरीमस्जिद् विनाशे अड्वानी दोषिश्वन्यतमः इति।

भा.ज.पक्षः, अड्वानीनायकत्वे १९९१ तः आरभ्य १९९६ पर्यन्तं विरोधपक्षत्वेन कार्यम् अकरोत्, यदा पी वी नरसिंहरावः प्रशास्ति स्म। रावस्य प्रशासनं उत्कोचयुतं, बहवः दोषाः सञ्जाताः प्रशासनेन इति भा.ज.पक्षः अवदत् । भा.ज.पक्षः एक एव पक्षः यः भ्रष्टरहितशासनं कर्तुं समर्थः इति ।

एन्.डि. ए. सर्वकारस्य स्थापानम्[सम्पादयतु]

१९९६ सार्वत्रिक निर्वाचने बाजप एकः एव पक्षः अधिकसंख्ययायुतः आसीत् ॥ राष्ट्रपतिना सर्वकारस्य घटनार्थं आहूतः। अटलबिहारी वाजपेयी देशस्य प्रधानी अभवत् । परन्तु बहुकालं शासनं कर्तुम् असमर्थः। १३ मासानन्तरं वाजपेयी त्यागपत्रं दत्तवान् वर्षद्वयानन्तरम्, राजकीयवनवासेन बहिरागतः भाजपः एन्.डि.ए नेतृत्वे पुनः अधिकारग्रहणम् अकरोत् ।१९९८ तमे वर्षे वाजपेयी पुनः प्रधानमन्त्रिपदे नियुक्तः । हेच् डी देवेगौड तथा ऐ.के गुज्राल् नेतृत्वे अस्थिरसर्वकारः स्थापितः अनन्तरम् निर्वाचनम् अभवत् । अड्वानी देशस्य गृहसचिवः अभवत् । अनन्तरम् उपप्रधानमन्त्रीपदे नियुक्तः । तदा पाकिस्थानतः उग्रगामिनाम् आक्रमणं देशस्य विभिन्न भागेषु अभवत्। वाजपेयी प्रधानमन्त्री भूत्वा भाजपनेतृत्वे, एन्.डि.ए.सर्वकारः आपञ्चवर्षं प्रशासनम् अकरोत् । अस्य सर्वकारस्य वाजपेयी प्रधानमन्त्री आसीत् । एन्.डि.ए केवलम् एकः एव तादृशः काङ्ग्रेस्भिन्नसर्वकारः यः आपञ्चवर्षं शासनम् अकरोत्।

आड्वानी हवालाद्वारा धनं स्वीकृतवान् इति आरोपः अभवत्। उच्चन्यायालयेन एषः आरोपः तिरस्कृतः। सि.बि.ऐ अपि एतदर्थं साक्ष्यं न प्राप्नोत् । तथापि सः अपराधित्वेन न परिगणितः इति सि.बि.ऐ निन्दनम् अभवत् सर्वत्र । केचन उक्तवन्तः एतेन भा.ज.पक्षः उन्नतस्थितिम् एव प्राप्नोत् इति । अन्ये केचन उक्तवन्तः एतत् केवलराजकीयप्रेरितम् इति ।

2004 निर्वाचनसभायां अड्वानी उद्घोषितवान् यत् 'कांग्रेस्पक्षः१०० स्थानानि अपि न प्राप्स्यति’ इति । परन्तु मतदातारः अन्यथा एव कृतवन्तः । भा.ज.पक्षः निर्वाचने पराजयं प्राप्नोत् , विरोधपक्षस्य स्थाने उपाविशत् । तदा अन्य गणः युनैटेद् प्राग्रेस्सिव अलयन्स् इति नाम्ना कांग्रेस्पक्षः अधिकारं प्राप्नोत् । ए.डि ए विभजितम् अभवत् । तेलगुदेशं पक्षः ततः निर्गत्य, युनैटेद् प्राग्रेस्सिव अलयन्स् (यु.पी.ए) सर्वकारं बाह्यतः एव समर्थनं ददाति स्म ।

वाजपेयी २००४ निर्वाचनानतरं सक्रियराजकीयतः निवृत्तः । अड्वानी भा.ज.पक्षस्य नेता अभवत् । अड्वानी २००४ तः २००९ पर्यन्तं लोकसभायां विरोधपक्षस्य नायकः आसीत् । अस्मिन् समये पक्षे अपि केचन विरोधिनः उदभवन् । उमाभारती, मदनलाल् खुराना, दीर्घकालिकः विरोधी मुरलीमनोहरजोशी च साक्षात् तं विरुध्य आरोपाणि कृतवन्तः। २००५ तमे वर्षे यदा स पाकिस्थानदेशे जिन्ना स्मारकं प्रति गतवान् यत् च कराची मध्ये अस्ति । कराची अड्वाणीमहोदयस्य जन्मस्थानम् अस्ति । तत्र सः उक्तवान् ’मोहम्मद् आलि जिन्ना जात्यतीतः नायकः इति । भारते सर्वत्र जनाः एतं वादं तिरस्कृतवन्तः । तस्मिन् विश्वासः कुण्ठितः अभवत् । राष्ट्रियस्वयंसेवकसङ्घाय तु एतस्य वचनं न अरोचत। अतः सः पक्षाध्यक्षस्थानं त्यक्तवान् । परन्तु सः केषाञ्चन दिनानां अनन्तरं पुनः अध्यक्षपदवीं आरूढः।

यदा राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घचालकः के.एस् सुदर्शनः उक्तवान् "आड्वानीवाजपेयिभ्यां च नूतनजनानां कृते नायकपदवी दातव्या” इति तदा अड्वानी-रा.स्व.सङ्घ्योः परस्परं मैत्रीभावः दूरङ्गतः। मुम्बैनगरे प्रवृत्ते भाजपरजतमहोत्सवसन्दर्भे अड्वानी स्वपदवीं त्यक्तवान् । राजनाथसिंहः यश्च उत्तरप्रदेशराज्यीयः , राजकीये कश्चन कनिष्ठः अध्यक्षत्वेन निर्वाचितः । २००६ मार्च मासे , हिन्दूनां पवित्रतमे क्षेत्रे वाराणस्यां विस्फोटः अभवत्, तदा अड्वानी भारतसुरक्षायात्राम् आरब्धवान् , तेन प्रतिपादितं 'युनैटेद् प्राग्रेस्सिव अलयन्स् (यु.पी.ए) तावत् उग्रवादिनां निग्रहणे असमर्थम्’ इति ।

प्रधानमन्त्रिस्थानस्य अभ्यर्थी[सम्पादयतु]

२००६ तमे वर्षे एकस्याम् वार्तागोष्ठ्यां , सः उक्तवान् "प्रजाप्रभुत्वे, विरोधपक्षस्य नायकः सन् प्रधानमन्त्रिपदस्य अभ्यर्थी अहम् । निर्वाचनम् २००९ वर्षस्य मेमासे १६ दिनाङ्के भविष्यति” इति । एतद् वाक्यं बहूनां सहोद्योगिनां कृते अपि अपथ्थ्यं सञ्जातम् , ये च तं प्रधानमन्त्रिस्थानस्य कृते नेच्छन्ति स्म ।

मुख्यः अंशः नाम भा.ज.पक्षे , वाजपेयी अनन्तरम् बलावान् नायकः एषः एव । वाजपेयी अपि एतमेव इच्छति स्म प्रधानमन्त्रि-अभ्यर्थित्वेन। २००७ तमवर्षस्य मे मासस्य द्वितीये दिनाङ्के कस्मिंश्चित् सन्दर्शने राजनाथसिंहः अवदत् 'एषः एव प्रधानमन्त्री भवितुं अर्हः अभ्यर्थी । अटल- अनन्तरम् एकः एव अड्वानी । स एव प्रधानी भवेत् ।२००९ तमवर्षस्य निर्वाचने सः एव प्रधानमन्त्रिस्थानस्य अभ्यर्थी’ इति। भाजपसंसदीयमण्डल्या अपि उद्घोषितम्।

परन्तु पक्षस्य अन्तः पक्षात् बहिः च तस्य विद्यार्हता , प्रशासनकौशलस्य च विषये विरोधः प्रकटितः अभवत् । २००९ तमे निर्वाचने भारतीय-राष्ट्रिय-कांग्रेसपक्षस्य गणः जितवान्। मनमोहनसिंहः एव प्रधानमन्त्रिपदे अन्ववर्तत । लोकसभानिर्वाचने पराजितः पक्षस्य एल् के अड्वानी विरोधपक्षस्य नेतृत्वं सुष्मास्वराज् कृते प्रदत्तवान् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=लाल_कृष्ण_आडवाणी&oldid=275065" इत्यस्माद् पुनः प्राप्तिः