ली क्वान् यू

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ली क्वान यु इत्यस्मात् पुनर्निर्दिष्टम्)

Lee Kuan Yew
李光耀
सिङ्गपूरम् प्रधानमन्त्री
In office
३ जून् १९५९ तमे वर्षे – २८ नोवेम्बेर् १९९० तमे वर्षे
President यूसफ् बिन् इशाक् <भ्रा>बेञेमिन् शियारेश् <भ्र> देवन् नायर् <भ्रा> वीकिम् वी
Preceded by प्रथम:
Succeeded by गो चोक् टोङ्ग्
In office
१२ आगस्ट् २००४ तमे वर्षे – २१ मे २०११ तमे वर्षे
Prime Minister ली हसीन् लूङ्ग्
Preceded by कोऽपि नास्ति
Succeeded by कोऽपि नास्ति
सिङपुरस्य वरिष्ठमन्त्री
In office
२८ नोवेम्बर् १९९० तमे वर्षे – १२ आगस्ट् २००४ तमे वर्षे
Prime Minister गो चोक् टोङ्ग्
Preceded by सि। रजरत्नम्
Succeeded by गो चोक् टोङ्ग्
प्रजाक्रियापक्षस्य सचिवः
In office
२१ नवम्बेर् १९५४ तमे वर्षे – १ नवम्बेर् १९९२ तमे वर्षे
Preceded by कोऽपि नास्ति
Succeeded by गो चोक् टोङ्ग्
Member of Parliament
for डाङ्ग् जोङ्ग् बखार्
Assumed office
२ अप्रिल् १९५५ तमे वर्षे
Preceded by नूतन निर्वाचनक्षेत्रं
व्यैय्यक्तिकसूचना
Born ली क्वान् यू
१६ सेप्टेम्बेर् १९२३ तमे वर्षे
सिङ्गपूरम्
Died २३ मार्च् २०१५ तमे वर्षे
सिङ्गपूरम्
Political party प्रजाक्रियापक्षः(People Action Party/PAP)
Spouse(s) क्वा जियोक् छू फलकम्:ह्रस्वम्
Children ली हसीन् लूङ्<भ्रा>नै लिङ्ग्<भ्रा>चेयिन् याङ्ग्
Alma mater लण्डन् अर्थशास्त्रशाला<भ्रा> पिड्स्विल्लिअम् महाविद्यालया, केम्ब्रिड्ज्

ली क्वान् यू, 16 सेप्टेम्बेर् 1923 – 23 मार्च् 2015 (आङ्ग्लभाषायां Lee Kuan Yew, तमिल् भाषायां லீ குவான் யூ, सिङ्गपूरदेशस्य प्रथमप्रधानमन्त्री आसीत्। सः सिङपूरस्य पिता इति तद्देशस्य जनैः प्रीत्या निर्दिश्यते । सः प्रजाक्रियापक्षः , (People Action Party/PAP) इत्येतं पक्षं १९५४ तमे वर्षे संस्थापितवान् । १९५९ तमवर्षतः सप्तसु अपि निर्वाचनेषु विजयं प्राप्तावान् । ली महोदयः स्वस्य शासनकाले सिङ्गपूरदेशं लोकस्य तृतीयर्वर्गदेशस्य स्थानात् प्रथमवर्गदेशस्य स्थानं प्रापितवान् इति श्लाघ्यते । १९९० तमवर्षपर्यन्तं सः प्रधानमन्त्री आसीत् । तदनन्तरम् अपि सर्वकारस्य मार्गदर्शकरूपेण सेवां कृतवान् । २००४ तमे वर्षे तस्य पुत्रः ली हसीन् लूङ् प्रथानमन्त्रिपदवीं प्राप्तवान् ।

बाल्यं शिक्षणञ्च[सम्पादयतु]

ली क्वान् यू महोदयः १९२३ तमे वर्षे सिङ्गपुरे जातः । सः इङ्लन्ड् देशस्य प्रसिद्धकेम्ब्रिड्ज्विश्वविद्यालये न्यायशास्त्रं पठित्वा सिङ्गपूरं प्रत्यागम्य न्यायवादीरूपेण सेवां कृतवान् । अनन्तरं तस्य मित्रेण सह तेन राजनीतिक्षेत्रं प्रविष्म् । १९५० तमे वर्षे तस्य विवाहः क्वा जियोक् छू इत्यनया सह अभवत् । तस्य द्वौ पुत्रौ एका पुत्री । ली महोदयः चैनादेशवंशीयः आसीद् चेदपि बाल्ये चीनभाषां न ज्ञातवान् । ३२ तमे वयसि तेन चीनभाषा जपानभाषा च अधीता ।

मरणम् स्तुतिवचनम् च[सम्पादयतु]

२०१५ वर्षे मार्च्-मासस्य २२ दिनाङ्के, ९२ तमे वयसि तस्य मरणम् अभवत् । अमेरिकराष्ट्रपतिः बराक् ओबामा महोदयेन २००९ वर्षे उक्तवान् " ली महोदयस्य सहाय्येन एव एशियाखण्डस्य अर्थशास्त्रचमत्कारः(economic miracle) उपगतः। अतः एशियाखणडस्य २० एवं २१ शताब्दयोः इतिहासपुरुषेषु ली महोदयः अपि मुख्यः इति गणनीयः " इति । भारतप्रधानमन्त्री नरेन्द्र मोदी २०१५ वर्षे मार्च् २९ तमे दिनाङ्के लीमहोदयस्य अन्त्यक्रियायाम् उपगम्य, उक्तवान् " लीमहोदयः श्रेष्ठ-आधुनिकनायकानां सार्वलौकिकविचारकः आसीत्" इति । ली महोदयस्य् प्रति प्रबलसार्वजनिकाभिप्रायः अस्ति सः सर्वकारव्यवाहारेषु भ्रष्टाचारम् अपनीतवान् इति ।

पुरस्काराः[सम्पादयतु]

तेन रज्यपरिपालनकाले अनेके पुरस्काराः प्राप्ताः । विशेषतः,

  • १। दि आर्डर् ओफ़् ति रिसिङ् सन्-(१९६७)
  • २। दि आर्डर् आफ् कम्पेनियन्स् ओफ़् हानर् (१९७०)
  • ३। नैट् ग्राण्ड् क्रास् आफ् सैन्ट् मैकेल् अण्ड् सैन्ट् जार्ज् (१९७२)
  • ४। ति फ्रीडम् ओफ़् ति चिटि ओफ़् लण्डन् (१९८२)
  • ५। ति सेरि पादुका माह्किटा झोर् (१९८४)
  • ६। ति आर्डर् ओफ़् ग्रेट् लीडर् (१९८८)
  • ७। ति फेल्लोषिप् ओफ़् इम्पीरियल् कालेज् आफ् लण्डन् (२००२)
"https://sa.wikipedia.org/w/index.php?title=ली_क्वान्_यू&oldid=356800" इत्यस्माद् प्रतिप्राप्तम्