लोनार् क्रेटर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लोनार क्रेटर् सायङ्कालीनं दृश्यम्
लोनार् क्रेटर् सरोवरम्

लोनारक्रेटर् – ज्वालामुखीगर्तः बृहदाकाराणाम् उल्कानां भूमौ वेगेन पतनात् एतादृशस्य अद्भुतगर्तस्य निर्माणम् अभवत् । प्रायशः भूमौ एतादृशाः गर्ताः १४० सङ्ख्याकाः सन्ति । ५० सहस्रवर्षेभ्यः प्राक् एतदभवत् इति विशेषज्ञानाम् अभिप्रायः अस्ति । विश्वे एषः तृतीयः गर्तः इति प्रसिद्धः अस्ति । महाराष्ट्रराज्ये बुल्ढाणामण्डले एषः ज्वालामुखीगर्तः अस्ति । विश्वे अन्यत्र एतादृशं द्र्ष्टुम् अतीवश्रमः आवश्यकः भवति । अत्र प्राप्तुं वनप्रदेशे गन्तव्यं भवति । एतत् द्विकिलोमीटर् विस्ततं सरोवरमिव दृश्यते । जलं पानयोग्यं न भवति । क्षारयुक्तम् अस्ति । वनप्रदेशे गत्वा ततः कष्टेन एतत् स्थानं प्राप्तव्यं भवति । चन्द्रस्य उपरितनस्तरः इव अत्रापि दृश्यते ।

वाहनमार्गः[सम्पादयतु]

औरङ्गाबादतः २४५ कि.मी । चतुर्घण्टात्मकं प्रयाणम् ।

धूमशकटमार्गः[सम्पादयतु]

मुम्बयीनागपुरमार्गे मल्लपुरनिस्थानतः अग्रे वाहनेन गन्तव्यं भवति ।

"https://sa.wikipedia.org/w/index.php?title=लोनार्_क्रेटर्&oldid=376947" इत्यस्माद् प्रतिप्राप्तम्