वज्रम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
वज्रम्

नवरत्नेषु वज्रं मुख्यम् । वज्रं षट्कोणं शुक्लवर्णम् - ऐन्द्रम् । असितं सर्पास्यसदृशं याम्यम् । नीलपीतं सर्पाकारं वैष्णवम् । स्त्रीमणिसदृशं वारुणम् । नीललोहितं कर्णिकारकुसुमसदृशं त्र्यस्रम् आग्नेयम् । यवाकारं मध्यस्थूलं लोहितवर्णमशोककुसुमसदृशं वायव्यम् ।

उत्पत्तिस्थानम्[सम्पादयतु]

१ स्रोतः - यतो जलं स्रवति ।
२ खनिः - (खन्यत इति) खातम् ।
३ प्रकीर्णम् - यस्या भूमेः मणयो भवन्ति तत्र आकरसम्भव इति त्रिविधानि तेषाम् उत्पत्तिस्थानानि ।

वज्रं सर्वद्रव्याभेद्यम्-लघु-रश्मिमत्-स्निग्धम्-भासा तटिदनिलशक्रचापोपमम्-हितम्-श्रेयस्करमिति भावः । यत् जलबुद्बुदसदृशं-विदारितप्रान्तं चर्पटं दीर्घं तस्य मूल्यम् अष्टमभागन्यूनम् । सभारष्ट्रकं मध्यमराष्ट्रकं श्रीकनकं, मणिमन्तकम्, इन्द्रवानकं च वज्रम् । तस्य खनिः, स्रोतः, प्रकीर्णं च यानेव इति कौटिल्यः ।
अन्यत्र एवमुक्तम् - यथा - वज्रं-कृते युगे कलिङ्गेषु कोसलेषु च वज्रसम्भवः । त्रेतायां हिमालये मतङ्गाद्रौ । द्वापरे पौण्ड्रके सुराष्ट्रे । कलौ वैराकरे सौवीरे इति प्रदर्शितः ।

गुणाः[सम्पादयतु]

षट्कोणत्वं लघुत्वं समाष्टदलता तीक्ष्णाग्रता निर्मलत्वमिति पञ्च ।

वज्रच्छाया[सम्पादयतु]

श्वेता, रक्ता, पीता, कृष्णेति चतुर्विधा ।

वज्रदोषाः[सम्पादयतु]

मलं मलिनता । बिन्दुः, आवर्तः, परिवर्तः, यवाकृतिरिति चतुर्विधाः । तेषु रक्तो वर्तुलश्च बिन्दुः आवर्तः । रक्त एव अपसव्यकः संरक्तः, परिवर्तः । खेदभ्रान्तिकरी रेखा । काकपदाकारः अङ्कः । भग्राग्रं भग्नधारं च दलहीनं च वर्तुलम् । भिन्नः भ्रान्तिकरः त्रासः ।

"http://sa.wikipedia.org/w/index.php?title=वज्रम्&oldid=232309" इत्यस्माद् पुनः प्राप्तिः