वत्ससाम्राज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वत्सः इत्यस्मात् पुनर्निर्दिष्टम्)
१६ जनपदान् दर्शयत् मानचित्रम्

वत्साः वंसाः अथवा वच्चाः इति अभिधीयमानाः कुरुवंशसम्बद्धाः एव आसन् । कुरुवंशस्य एव एका शाखा आसीत् वत्सवंशः अपि । वत्सदेशः इदानीन्तन-अलहाबाद्प्रदेशे व्याप्तः आसीत् । अलहाबाद्तः ३८मैलदूरे स्थितेन "कोसम्" इत्याख्येन ग्रामेण सम्बद्धः आसीत् वत्सदेशः । वत्सदेशे राजत्वस्वरूपः सर्वकारः अपि आसीत् । कौसम्बीनगरम् अत्यन्तं सम्पद्भरितं नगरम् आसीत् । तस्मिन् नगरे बहवः लक्षाधिपतयः वणिजः निवसन्ति स्म । उत्तरतपश्चिमतः दक्षिणतः च आगन्तृणां जनानां वणिजां च प्रवेशद्वारमिव आसीत् एतत् कौसम्बीनगरम् । षष्ठे शतके तन्नाम बुद्धस्य अवधौ वत्सदेशस्य राजा आसीत् उदयानः । सः अत्रत्यः बलवान् राजा आसीत् । सः युद्धप्रियः आसीत् । मृगयाम् आसक्तः आसीत् अपि । आरम्भे राजा उदयानः बौद्धधर्मविरोधी आसीत् । किन्तु कालान्तरे सः बौद्धमतावलम्बी अभवत् । बौद्धधर्मं राष्ट्रधर्मम् अकरोत् च ।

"https://sa.wikipedia.org/w/index.php?title=वत्ससाम्राज्यम्&oldid=366120" इत्यस्माद् प्रतिप्राप्तम्