वराहगिरि वेङ्कट गिरि

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
वराहगिरिः वेङ्कटगिरिः
भारतस्य राष्ट्रपतिः
कार्यालये
क्रि.श. १९६९तमवर्षस्य अगस्टमास्य २४तमदिनम् । – क्रि.श. १९७४तमवर्षस्य अगस्टमास्य २४तमदिनम् ।
उपराष्ट्रपतिः गोपालस्वरूपः पाठकः
पूर्वगमः मुहम्मद हिदायतुल्लाहः
पादानुध्यातः फ़ख़रुद्दीन अली अहमदः
कार्यकारी
भारतस्य राष्ट्रपतिः
कार्यालये
क्रि.श. १९६९तमवर्षस्य मे मासस्य तृतीयदिनम् । – क्रि.श. १९६९तमवर्षस्य जुलैमासस्य २०तमदिनम् ।
पूर्वगमः डा.ज़ाकिर् हुसैन्
पादानुध्यातः मुहम्मद हिदायतुल्लाहः
भारतस्य तृतीयः राष्ट्रपतिः
कार्यालये
क्रि.श. १९६७तमवर्षस्य मे माससस्य त्रयोदशदिनम् । – क्रि.श. १९६९तमवर्षस्य मे मासस्य तृतीदिनम् ।
राष्ट्रपतिः ज़ाकिर हुसैन
पूर्वगमः डा.ज़ाकिर् हुसैन्
पादानुध्यातः गोपालस्वरूपः पाठकः
व्यक्तिगत विचाराः
जननम् क्रि.श. १८९४तमवर्षस्य आगस्ट् मासस्य दशमदिनम् ।
बर्हाम्पुरम्, गञ्जाममण्डलम्, भारतम्
मरणम् क्रि.श. १९८०तमवर्षस्य जून् मासस्य २३तमदिनम् ।
चेन्नै, तमिळ्नाडु
राष्ट्रीयता भारतीयः
राजनैतिकपक्षः निर्दलीयः
पतिः/पत्नी सरस्वतीबायी

वराहगिरिः वेङ्कटगिरिः अथवा वि. वि. गिरिः कश्चित् भरतीयः राजनितिनेता । एषः क्रि.श. १८९४तमे वर्षे ओरिस्साराज्यस्य बर्हाम्पुरे अजायत । अस्य पिता जोगय्य पन्तुलु न्यायवादी आसीत् । तदीयः द्वादशबालानां बृहत्कुटुम्बः। वेङ्कटगिरेः प्राथमिकविद्याभ्यासः महाविद्यालयाध्ययनं च बर्हाम्पुरे एव अभवत् । सः भारतदेशस्य चतुर्थ: राष्ट्पति: इति निर्वाचितः। यदा बाङ्ग्लादेशः इति राष्ट्रं निर्मितं तदा सः भारतराष्ट्रस्य राष्ट्रपतिः आसीत्‌ । सः उच्चततमेन नागरपुरस्कारेण भारतरत्नप्रशस्त्या सम्मानितः ।

देशविदेशे शिक्षा[सम्पादयतु]

प्राथमिकशिक्षातः महाविद्यालयाध्ययनपर्यन्तं बर्हाम्पुरे एव आभवत् । कल्लिकोटेमहाविद्यालयतः स्नातनकपदवीम् अलभत । पश्चात् मद्रास्(चेन्नै)नगरस्य सीनियर् केम्ब्रिज़् परीक्षाम् उत्तीर्य क्रि.श. १९१३तमवर्षे ऐर्लेण्डदेशस्य राजधानीं डब्लिन् प्रति आधुनिकन्यायशास्त्रस्य पदवीं प्राप्तुं गतवान् । तदा तस्मिन् देशे स्वातन्त्र्यन्दोलनं प्रचलति स्म । तदा गिरिः ऐर्लेण्ड् नायकस्य डेवेलेरा इत्यनेन सन्दृष्टवान् । ऐर्लेण्ड्देशे अध्ययनं कुर्वाणाः भारतीयविद्यार्थिनः क्रान्तिकारिणां सङ्घमेकं रचितवन्तःआसन् । तस्य देशस्य स्वातन्त्र्यप्राप्तये सङ्घर्षं कुर्वन्ति स्म । गिरिः अपि एतं सङ्घं प्रविष्टवान् । क्रि.श. १९१४तमे वर्षे यदा महात्मा गान्धिः लण्डन् नगरम् आगतवान् तदा गिरिः तस्य दर्शनं कृतवान् । अस्य मनसि महात्मा गान्धिः बहुधा प्रभावम् अजनयत् । क्रि.श. १९१९तमे वर्षे ऐर्लेण्ड्देशे ईस्टर् विप्लवः आरब्धः । सः विप्लवः गिरिमहोदयाय नवां दिशाम् अदर्शयत् । भारतस्य श्रमिकवर्गीयानाम् अपि ईस्टर्विप्लवः सदृशं भारतीयस्वातन्त्र्यान्दोलनं कर्तुं शक्यते इति सः अचिन्तयत् । अत्रान्तरे ईस्टर्विप्लवे वि.वि.गिरिः अपि भागी इति वदन्ती प्रसृता।अतः तेन एम्.एल्.पदवीं प्राप्तुंम् अमेरिकागमनम् अशक्यम् अभवत् । अतः क्रि.श. १९१६तमे वर्षे भारतं प्रत्यागतवान् ।

वृत्तिजीवनम्[सम्पादयतु]

भारतम् आगत्य वि.वि.गिरिः बर्हाम्पुरे न्यायवादिनः वृत्तिम् आश्रितवान् । पश्चात् भारतीयराष्ट्रियकाङ्ग्रेस् पक्षस्य सदस्यः अभवत् । क्रि.श. १९१६तमे वर्षे सञ्चालिते सम्मेलने भागम् अवहत् । स्ववृत्तौ अतिशीघ्रं यशः प्राप्तवान् । क्रि.श. १९२०तमे वर्षे भारतस्य स्वातन्त्र्यसङ्ग्रामे सक्रियः अभवत् । गञ्जाम्प्रदेशे क्रि.श. १९२२तमे वर्षे मदिरापणस्य पुरतः विप्लवनिरतः सः आरक्षकैः बद्धः सन् बर्हाम्पुरस्य कारागारं प्रति प्रेषितः । तत्र सत्याग्रहिभ्यः प्रदुष्टाहारः दीयते स्म। कारागारे प्रवृत्तं भ्रष्टाचारं विरुध्य उपवाससत्याग्रहं कृतवान् । पश्चात् कारागारा विमुक्तः रेलयानस्य श्रमिकवर्गाणां सङ्घं प्रतिष्ठापितवान् । एषः सङ्घः अतिशीघ्रं संवृद्धः भूत्वा अखिलभारतरेल्वेफेडरेशन् इति ख्यातम् अभवत् । तत्र वि.वि.गिरिः एव अध्यक्षः अभवत् । अनेन एषः कश्चित् समर्थः कर्मकरनायकः अभवत् । क्रि.श. १९३५तमे वर्षे भारतसर्वकारस्य नियमानुगुणं काङ्गेस् पक्षः प्रान्तीयशासनसभानिर्वाचने स्पर्धित्वा सप्तराज्येषु विजयी अभवत् । वि.वि.गिरिवर्यः मद्रास् विधानसभायाः प्रतिनिधित्वेन जयं प्राप्य मन्त्री अभवत् । तस्मै कर्मकराणां, यन्त्रोद्यमानां, सहकारस्य, वाणिज्यस्य, मत्स्योद्यमस्य विभागानां दायित्वं दत्तम् । क्रि.श.१९३८तमे वर्षे अखिलभारतराष्ट्रिययोजनायोगस्य सञ्चालकः अभवत् । आयोगस्य सम्मेलने गिरिवर्यः पञ्चवार्षिकयोजनाः अथवा दशवार्षिकयोजनाः वा रचनीयाः इति उक्तवान् । एषः कर्मकराणां नायकः चेदपि कदापि झटिति कार्यन्यासं न कारयति स्म । श्रमिकवर्गेषु समास्याः भवन्ति चेत् सन्धिं कृत्वा समापयितुं यतते स्म । क्रि.श. १९४७ तमवर्षस्य अगस्टमासस्य पञ्चदशतमे दिने भारतं पारतन्त्र्यात् मुक्तं स्वतन्त्रम् अभवत् । क्रि.श. १९४८तमे वर्षे गिरिवर्यः श्रीलङ्कायां भारतस्य राजदूतः इति नियोजितः । अग्रे भारतस्य संविधानं रचितम् । तदनुगुणं क्रि.श. १९५२तमे वर्षे प्रथमं महानिर्वाचनं सञ्चालितम् । तस्मिन् लोकसभानिर्वाचने स्पर्धित्वा जयं प्राप्तवान् गिरिवर्यः केन्द्रसर्वकारस्य सचिवमण्डले कर्मकरविभागस्य मन्त्री अभवत् । क्रि.श. १९५४तमे वर्षे इण्डस्ट्रियल् अपलेट् ट्रिब्युनल् वित्तकोशस्य उद्योगिनां विरुद्धम् आगतं न्यायालयनिर्णयं तिरस्कृत्य स्वपदत्यागम् अकरोत् ।

राजनीतिनिवृत्तिः[सम्पादयतु]

पश्चात् क्रि.श. १९५७ तमे वर्षे उत्तरप्रदेशस्य, क्रि.श. १९६०तमे वर्षे केरळराज्यस्य, क्रि.श. १९६५तमे वर्षे कर्णाटकस्य च राज्यपालः अभवत् । सक्रियराजनीत्या निवृत्तः चेदपि राज्यपालः केवलम् उत्सवमूर्तिः न । सः जनप्रतिनिधिः केवलं नित्यकार्याणि कुर्वन् भवति चेत् समीचीनं न । तेनापि जनसेवायां निरतेन भूत्वा मुख्यकार्याणि करणीयानि इति गिरिवर्यः वदति स्म । गिरिवर्यः क्रि.श. १९६७ तमे वर्षे भारतस्य उपराष्ट्रपतिः इति नियुक्तः । स्वाधिकारपदं सुयोग्यम् उपयुज्य राज्यसभायाः नूतनवर्चः समानीतवान् । क्रि.श. १९६९तमवर्षे अकस्मात् भारतस्य राष्ट्रपतिः झाकिर हुसैन् दिवङ्गतः । तदा बेङ्गळूरुनगरस्य लालबाग् काचगृहे सञ्चालिते काङ्ग्रेस् अधिवेशने समितिः नीलं सञ्जीवरेड्डीवर्यं राष्ट्रपतिरिति नियोजयितुं निरचिनोत् । किन्तु तदानीन्तनप्रधानामन्त्रिणी इन्दिरा गान्धिः एतत् नाङ्ग्यकरोत् । सा वि.वि.गिरेः नाम सूचितवती । अनिवार्यस्पर्धया काङ्ग्रेस् द्विधा विभक्तम् । वि.वि.गिरिः एव जित्वा राष्ट्रपतिः अभवत् । क्रि.श. १९६९तमवर्षस्य अगस्ट् २३तमदिनात् क्रि.श. १९७४तमवर्षस्य २४तमदिनपर्यन्तं राष्ट्रपतिस्थानम् अलङ्कृतवान् । तस्य काले एव क्रि.श१९७१तमे वर्षे बाङ्ग्लाविमोचनसमस्या सम्मुखीकृता । क्रि.श. १९७५तमे वर्षे अस्मै भारतरत्नप्रशस्तिः प्रदत्ता । क्रि.श. १९८०तमवर्षस्य जून् मासे वि.वि.गिरिः दिवङ्गतः ।

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=वराहगिरि_वेङ्कट_गिरि&oldid=266830" इत्यस्माद् पुनः प्राप्तिः