वर्गः:वेदः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

सनातन धर्मस्‍य प्राणवत्, विश्‍वस्‍य महानतम: आदिग्रन्‍थ: वेद न केवलं हिन्‍दुधर्मस्‍य अपितु सर्वेषां धर्माणां मूलम् अस्ति । वेदोखिलो धर्ममूलम् अर्थात् समेषां धर्माणां उत्‍पत्ति: अनेन एव अभवत् इति ।

अद्य अस्मिन् लेखे अहं वेदानां विषये केचन महत्‍वपूर्ण तथ्‍यानां उद्घाटनं करोमि । एते विषया: ते सर्वे ज्ञायेयु: ये धर्मविषये जिज्ञासमाना: सन्ति, इत्‍यपि उक्‍तमेव अस्ति- धर्मजिज्ञासमानानां प्रमाणं परमं श्रुति:

वस्‍तुत: वेदानां प्रादुर्भाव: श्रृष्‍ट्यारम्‍भे एव अभवत किन्‍तु केचन् पाश्‍चात्‍यीयानां दुराग्रहकारणात् एव अस्‍माकं विद्वान्‍स: अपि वेदानां रचनाकालं केवलं विगत चतुर्पंच सहस्र वर्षाणि एव मन्‍यन्‍ते । ते अवधानं न ददति यत् वेदानां परम्‍परा अपि वर्णिता अस्ति । अनेन क्रमेण ईश्‍वरेण ब्रह्मा, तेन वशिष्‍ठ अपि च अनेनेव क्रमेण शक्ति, पराशर , द्वैपायन: च वेदानां ज्ञानं प्राप्‍तवान् । वेदानां विस्‍तारकारणात् एव तस्‍य नाम वेदव्‍यास: इति अभवत ।

वेदेषु प्राचीनतम: ऋग्‍वेद: अस्ति । इत्‍यपि प्राप्‍यते यत् सर्वप्रथम: केवलं ऋग्‍वेद: एव आसीत् , पठन-पाठनसारल्‍यहेतु: एव द्वैपायन: अस्‍य विस्‍तारं चतुर्षु वेदेषु कृतवान अत: तस्‍य नाम व्‍यास इति अभवत् । अत्र अहं ऋग्‍वेद विषये कानिचन् महत्‍तत्‍वानां उद्घाटनं करोमि । विज्ञा: स्‍वविचारान अवश्‍य दद्यु: ।

महाभाष्‍य (पश्‍पसाह्निक) अनुसारं ऋग्‍वेदस्‍य एकविंशति: (21) शाखा: आसन् । एताषु शाखासु चरणव्‍यूह ग्रन्‍थानुसारं पंच (5) शाखा: (शाकल, बाश्‍कल, आश्‍वलायन, शांखायन, माण्‍डूकायन) मुख्‍या: सन्ति । यासु साम्‍प्रतं केवलं शाकल शाखा एव प्राप्‍यते । ऋग्‍वेदस्य (शाकल शाखा) विभाजनं द्विधा, अष्‍टक क्रमेण, मण्‍डल क्रमेण च कृतं अस्ति । अष्‍टक क्रमे , अष्‍ट अष्‍टकेषु अष्‍ट-2 अध्‍याया: , प्रत्‍ये‍कस्मिन् अध्‍याये केचन् वर्गा: , प्रत्‍येकवर्गे केचन ऋचा: सन्ति । अनेन क्रमेण सम्‍पूर्ण 2006 वर्गा: 10417 ऋचा: च सन्ति । शौनकाचार्यस्‍य अनुक्रमण्‍यां अस्‍य पूर्णसंख्‍या 10580-1/4 इति अस्ति । ऋचां दशसहस्राणि ऋचां पंचशतानि च, ऋचामशीति: पादश्‍च पारणं सम्‍प्रकीर्तितम् । मण्‍डल क्रम: अतिप्रचलित: अस्ति । एतस्‍यानुसारं ऋग्‍वेद: दश मण्‍डलेषु विभक्‍त: अस्ति । प्रत्‍येकेषु मण्‍डलेषु विभिन्‍न अनुवाका: , तेषु कानिचन् सूक्‍तानि, प्रत्‍येकेषु सूक्‍तेषु केचन् मन्‍त्रा: सन्ति । औसतसंख्‍या पंच अस्ति । एवं विधा सम्‍पूर्णं 1028 सूक्‍तानि सन्ति येषु 11 खिल सूक्‍तानि सन्ति । प्रथम मण्‍डलस्‍य द्रष्‍टार: शतार्चिननामधारिण: सन्ति । 2 त: 8 पर्यन्‍तं वंशमण्‍डल इति संज्ञया अभिहिता: । नवम मण्‍डलं सोम, पवमान मण्‍डलं वा कथ्‍यते । अस्‍य मण्‍डलस्‍य सर्वाणि सूक्‍तानि सोम देवं समर्पितमस्ति । दशम मण्‍डलस्‍य नासदीय सूक्‍तपर्यन्तं सूक्‍तानि महासूक्‍तानि, अनन्‍तरं क्षुद्रसूक्‍तानि इति अथ च एतेषां द्रष्‍टार: अपि एतया संज्ञया एव अभिहिता: । ऋग्‍वेदस्‍य प्रधानदेव: इन्‍द्र: अस्ति । अस्‍य 250 सम्‍पूर्णसूक्‍तेषु अपि च अन्‍येषु आंशिकरूपेण अर्चना कृता अस्ति । ऋग्‍वेदे समस्‍तमण्‍डलानां प्रारम्भिकसूक्तानि अग्निं समर्पितमस्ति । अग्नि: ऋग्‍वेदस्‍य द्वितीय: प्रधानदेव: अस्ति । अस्‍य 200 सम्‍पूर्ण सूक्‍तेषु अन्‍यत्र च आंशिक रूपेण अर्चना कृतास्ति । ऋग्‍वेदस्‍य रक्षार्थं, अपरिवर्तनीयं भूयात् अत: अपि सूक्‍तानां शब्‍दानाम् अपि गणना कृतास्ति । शौनकानुक्रमणी मध्‍ये एषा संख्‍या 153826 अस्ति । शाकल्‍यदृष्‍टे: पदलक्षमेकं सार्धं च वेदे त्रिसहसयुक्‍तम् , शतानि चाष्‍टौ दशकद्वयं च पदानि षट् चेति हि चर्चितानि । (अनुक्रमणी 45) शब्‍दानां एव न अपितु वर्णानाम् अपि गणना कृता अस्ति । अनुक्रमणी अनुसारं एषा संख्‍या 432000 अस्ति । वृहतीसहस्राण्‍येतावत्‍यो हर्चो या: प्रजापति सृष्‍टा: (शत0 ब्रा0-10,4,2,23), चत्‍वारिंशतसहस्राणि द्वात्रिंशच्‍चाक्षरसहस्राणि - (शौनक-वाकानुक्रमणी) ऋग्‍वेदस्‍य प्रथम अध्‍यापनं वेदव्‍यास: स्‍वशिष्‍यं पैलं प्रति कृतवान् । तत्रगर्वेदधर: पैल: । ऋग्‍वेदस्‍य दशममण्‍डलस्‍य ऋषय: एव तस्‍य देवतार: अपि सन्ति । मन्‍त्राणां दर्शने महिलानाम् अपि सहयोग: अस्ति । तासु अगस्‍त्‍यपत्‍नी लोपामुद्रा, महर्षि अम्‍भृणपुत्री वाक् इत्‍ययो: नाम विशेष उल्‍लेखनीय: अस्ति ।

एवंविधा ऋग्‍वेदविषये अत्र दत्‍त: सन्ति केचन् महद्विषया: । पाठकानां विचाराणां स्‍वागतमस्ति ।


भवदीय:-आनन्‍द:

उपवर्गाः

अस्मिन् वर्गे अधोलिखिताः उपवर्गाः विद्यन्ते

"वेदः" इत्येतस्मिन् वर्गे विद्यमानानि पृष्ठानि

अस्मिन् वर्गे केवलम् इदं पृष्ठं विद्यते ।

"http://sa.wikipedia.org/w/index.php?title=वर्गः:वेदः&oldid=158692" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका