वसिष्ठः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

ब्रह्मणः मानसपुत्रः अयं कश्चन ब्रह्मर्षिः । अस्य पत्नी महापतिव्रता अरुन्धतिः । इयं नारदस्य सहोदरी । शक्तिः अस्याः पुत्रः । पराशरः अस्याः पौत्रः । वसिष्ठः मित्रावरुणेन ऊर्वश्यां जननं प्राप्तवान् । अयं वरुणस्य पुत्रः । कार्तवीर्यार्जुनेन अस्य आश्रमः दग्धः जातः । वसिष्ठस्य समीपे विद्यमानां कामधेनुं प्राप्तुं न शक्तः इत्यतः विश्वामित्रः अस्मै द्विषति । ब्रह्मर्षिणा मया भवितव्यम् इति चिन्तयन् घोरं तपः आचरति । अन्ते वसिष्ठस्य अनुग्रहेण एव विश्वामित्रः ब्रह्मर्षिपदं प्राप्नोति । इक्ष्वाकुवंशस्य वसिष्ठः पुरोहितः आसीत् इत्यतः सूर्यवंशस्य राज्ञां पुरोहितानां सामान्यनिर्देशः 'वसिष्ठः' इत्येव भवति स्म इति भाति । प्रजापतितः मरीचिः जातः । तस्य पुत्रः एव कश्यपः । अनेन अदित्यां यमलौ जातौ । एतौ एव मित्रावरुणौ । एताभ्यां क्रियमाणाय भव्ययज्ञाय देवताः, गन्धर्वाः, पितरः च आगताः आसन् । तत्र अप्सरासु लावण्ययुता ऊर्वशी च आगता आसीत् । अयं दीक्षाबद्धयोः मित्रावरुणयोः दृष्टिपथम् आगता । तस्याः दर्शनेन तौ विकारवशौ जातौ । अखण्डनिष्ठया पालितं ब्रह्मचर्यं शिथिलतां गतम् । उभयोः वीर्यस्खलनं जातम् । तत् कुम्बे अरक्षन् । ततः उभौ शिशुरत्नौ अजायताम् । प्रथमः शिशुः एव अगस्त्यः । कुम्भे विद्यमानं जलं सरोवरे यदा क्षिप्तं तदा तत्र विद्यमानः द्वितीयः शिशुः तरन् कस्यचन कमलदलस्य उपरि उपाविषत् । विशिष्टरीत्या जातः इत्यतः देवः अयं 'वसिष्ठः'इति निर्दिष्टवन्तः ।

आपवनामकः प्रजापतिः विसिष्ठः (ब्रह्मदेवः) अत्यन्तं सौन्दर्यवतीं काञ्चित् स्त्रीं निर्मितवन्तः । सा एव प्रपञ्चस्य प्रथमा स्त्री इति कथ्यते । 'शतरूपा' इति तस्याः नाम । इयं महातपस्विनी आसीत् । वसिष्ठः इमां पत्नीरूपेण स्व्यकरोत् । अनयोः पुत्रः एव वीरः (हरिः) ।

दक्षप्रजापतिः स्वस्य पुत्रीम् ऊर्जलां वसिष्ठाय अयच्छत् । वसिष्ठेन एतस्यां सप्त पुत्राः पुण्डरीका नामिका कुमारी च अजायन्त । एते सप्त पुत्राः एव सप्तर्षयः इति प्रसिद्धाः ।
वसिष्ठः श्वेतवर्णीयः । स्वस्य जटां शिरसः उपरि भागे दक्षिणपार्श्वे अयं बध्नाति स्म । स्ययभोः पत्न्याः शतरूपायाः पुत्री देवहूतिः कर्दमऋषेः पत्नी । अनयोः पुत्रः कपिलः । अस्याः सहोदरी एव अरुन्धतिः । अरुन्धतिः कश्यपस्य पुत्री इति वायुपुराणे उल्लेखः दृश्यते । वसिष्ठ-अरुन्धत्योः पुत्रः एव शक्तिः । शक्तेः पत्नी अदृश्यन्तिः । अनयोः पुत्रः एव पराशरः । अस्य पुत्रः एव वेदव्यासः
तृत्सुः नामकः राजा शत्रुणा सह युद्धं कृत्वा पलायितः सन् वसिष्ठं शरणम् अगच्छत् । वसिष्ठः इन्द्रस्य साहाय्येन जयं सम्पाद्य अयच्छत् । कदाचित् जरूथनामकः दैत्यः यज्ञं नाशयितुम् आरब्धवान् । तदा वसिष्ठः अग्नेः सहाय्येन तम् अमारयत् ।
हरिश्चन्द्रस्य सत्यसन्धतायाः विषये विश्वामित्रेण सह जाते वाग्विवादे वसिष्ठः एव जयं प्राप्तवान् ।

"https://sa.wikipedia.org/w/index.php?title=वसिष्ठः&oldid=448983" इत्यस्माद् प्रतिप्राप्तम्