वसुदेवः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

वसुदेवः महाभारते, भागवते च विद्यमानं किञ्चन पात्रमस्ति । वसुदेवः श्रीकृष्णस्य पिता ।

कृष्णबलरामवसुदेवानां मेलनस्य - राजारविवर्मविरचितं चित्रम्

दशसु अवतारेषु अष्टमः श्रीकृष्णावतारः श्रेष्ठः । पूतन्याः संहारः, गोवर्धनोद्धारः, कालिङ्गमर्दनम् इत्यादिकं महत्साहसम् अवातारपुरुषः एव कर्तुं शक्नोति । दुष्टसंहारः , शिष्टरक्षणम् , पाण्डवकौरवाणां युद्धम्, अर्जुनस्य सारथ्यम् इत्यादीनि कार्याणि धर्मसंस्कृतिरक्षणार्थं, लोककल्याणार्थं कृतवान् कृष्णः । गीतोपदेशः अपि लोककल्याणाय एव । एतादृशस्य कृष्णस्य जन्मदाता एव वसुदेवः ।

यदुवंशोत्पन्नः शूरः तस्य पिता, माता मारिषा । एतयोः सुपुत्रः वसुदेवः । एतस्य जन्मसमये देवताः दुन्दुभिं नादितवन्तः । यतः देवताः जानन्ति यत् अग्रे एतस्य गृहे भगवतः अवतारः भविष्यति इति । अतः एव वसुदेवस्य अनेकदुन्दुभिः इति नाम ।

वसुदेवस्य अनुजस्य देवभागस्य पुत्रः भक्ताग्रेसरः उद्धवः । महान् विद्वान् एषः । देवसमाना कीर्तिः एतस्य उद्धवस्य अपरं नाम देवश्रवः इति । वसुदेवस्य अन्यः सहोदरः अनादृष्टिः । अनादृष्टेः अश्मक्यां निवृत्तशत्रुः इति पुत्रः जातः । वसुदेवस्य अन्यः अनुजः देवशिवः । देवशिवस्य शत्रुघ्नः इति पुत्रः जातः । शत्रुघ्नं तस्य पिता येनकेनचित् कारणेन वने एव परित्यक्तवान् । एषः अटव्यां बिल्लवैः परिपालितः । एषः एव अग्रे एकलव्यः इति प्रसिद्धः धनुर्धरः जातः ।

वसुदेवस्य पौरविः, रोहिणिः, मादिरा, भद्रा, वैशालिः, देवकी इत्यादयः पत्न्यः । तासु रोहिणी बलभद्रः, सारणः, दुर्मदः इत्यादीन् प्रसूतवती । वैशाल्यां कौशिकः उत्पन्नः, देवक्यां कीर्तिमान्, सुषेणः, दायुः, भद्रसेनः, ऋजुदासः, भद्रदेवः समुत्पन्नाः । परन्तु कंसः एतान् मारितवान् । अन्ते सप्तमं गर्भं भगवत्प्रेरिता माया आकृण्य रोहिण्यां स्थापितवती । आकृण्य स्थापितम् इति कारणतः बलरामस्य सङ्कर्षः इत्यपि नाम अस्ति । अष्टमे गर्भे सञ्जातः श्रीकृष्णः ।

कृष्णस्य जन्म[सम्पादयतु]

वसुदेवस्य पत्नी देवकी । विवाहसन्दर्भे "देवक्याः अष्टमपुत्रतः मातुलस्य कंसस्य मरणम्" इति आकाशवाणी श्रुता । एषा देवकी देवकस्य पुत्री । कंसस्य अनुजा । अशरीरवाणीं श्रुत्वा भीतः कंसः देवकीं मारयितुं सज्जः । तदा वसुदेवः "मास्तु , तां न मारयतु, तस्यां ये पुत्राः जायन्ते तान् भवते अर्पयामि" इत्युक्तवान् । एवं वचनं दत्तवान् इति कारणतः देवकी रक्षिता ।

कारागृहे पूर्णगर्भिणीं देवकीं वसुदेवेन सह स्थापितवान् कंसः । श्रावणकृष्णाष्टम्यां रोहिणीनक्षत्रे मध्यरात्रे श्रीकृष्णस्य जन्म अभवत् । तदा "नन्दगोकुले यशोदायाः पुत्री जाता । ताम् अत्र आनयतु । एतं पुत्रं यशोदायाः समीपे त्यजतु"- इति अशरीरवाणी वसुदेवेन श्रुता । बद्धाः श्रृङ्खलाः स्वयम् उन्मुक्ताः जाताः । द्वाराणि उद्घाटितानि । एतैः अद्भुतदृश्यैः वसुदेवः ज्ञातवान् एषः अवतारपुरुषः इति । शिशुम् उन्नीय यमुनातीरं गच्छति । यमुना मार्गं कल्पयति ।

वसुदेवस्य स्वपुत्रौ बलरामश्रीकृष्णौ प्रकृतिपुरुषस्वरूपिणौ इति ज्ञानं भवति । अतः वसुदेवः अग्रे यदा तौ पश्यति अभिनन्दनपूर्वकं श्रद्दापूर्वकञ्च पश्यति । कृष्णं बाल्ये पालितवन्तं नन्दगोपं पालितवतीं यशोदां च सम्मान्य बहुमूल्यानि आभरणानि, वस्त्राणि उत्तमवस्तूनि च ददाति ।

सम्बन्धितपुस्तकानि[सम्पादयतु]

  • RG Bhandarkar: "Vasudeva of Panini" 4.3.98. Journal of the Royal Asiatic Society, 1910.‎
"http://sa.wikipedia.org/w/index.php?title=वसुदेवः&oldid=253624" इत्यस्माद् पुनः प्राप्तिः