वाक्तत्त्वम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

व्याकरणशास्त्रे ग्रन्थेकारैः वाक्तत्त्वविषये महती चर्चा कृता । अस्याः वाचः मौलिकचिन्तनमत्र शास्त्रे दृश्यते । पाणिनि- पतञ्जलिप्रभृतिभिः वैयाकरणैः परोक्षरुपेण अस्याः विवेचनं कृतम् । परन्तु भर्त्तृहरिणा प्रथमतया प्रत्यक्षरुपेण दार्शनिकधारा प्रदर्शिता ।

  • यथा ऋग्वेदे वाचः चातुर्विध्यं वर्णितम् किन्तु तस्याः नामोल्लेखो न कृतः तथैव पाणिनीयशिक्षायां स्पष्टरुपेण नोक्त्वा केवलं तस्याः स्थितीनां परिगणनं कृतम् । तथाहि –
आत्मा बुद्ध्या समेत्यार्थान् मनो युक्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।
मारुतस्तूरसि चरन्मन्द्रं जनयते स्वरम् ।
अत्र चतसृणामवस्थानां वर्णनं कृतम् ।
  • पतञ्जलिना चत्वारि श्रृंगा त्रयोऽस्य । चत्वारि वाक् परिमितानि इत्यादि ऋग्वेदमन्त्रद्वयस्य व्याख्या कृता । संभवतः तस्मिन् समये वाचो नाम्नः स्थिरत्व्ं न स्यात् । अतः पदजातानि इत्युक्त्वाऽपि नामाख्यतोपसर्गनिपाताश्च इत्यर्थनिर्देशः कृतो न तु परा –पश्यन्ती- मध्यमा –वैखर्यादीनां नामोल्लेखः कृतः । यद्यपि गुहा त्रीणि निहिता नेंगयन्ति तुरीयं वाचो मनुष्या वदन्ति इति वाचः चातुर्विध्यं प्रदर्शितम्, तथापि पतञ्जलिना चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्चेति व्याख्या कृता । परन्तु पदजातानि इत्यस्य व्याख्यानावसरे नागेशेन प्रतिपादितं यत् – पदजातानि परा पश्यन्तीमध्यमावैखर्यः, नामादीनि चेति ।
  • भर्त्तृहरिणा श्रुति- आगम- भाषाविज्ञानादिन्याधारीकृत्य वाचः तत्त्वमुद्घाटितम् । तस्य मते ज्ञानस्य हि वाग्रुपत्वम् । यथा प्रकाशकत्वमग्नेः स्वरुपम्, अथवा चैतन्यमन्तयार्मिणः स्वरुपम् । यदि प्रकाशकस्य प्रकाशकत्वमुत्सीदेत् , चैतन्यमन्तर्यामिणः तर्हि प्रकाशोऽन्तर्यामी च नैव भवेताम् । एवं च ज्ञानस्य वाग्रुपतायामुत्कान्तायां ज्ञानमपि न भवेत् । तथा च सकलमपि ज्ञानं सूक्ष्मया वाग्रुपतया स्थूलशब्दस्योपादानभूतया स्वरुपभूतयाऽनुगतम् । अत एव वाग्रपूता ज्ञानस्य शाश्वतो धर्मः । प्रकाशितस्य ज्ञानस्य चावधारिका वाक् ।

भर्त्तृहरिमते वाक् त्रिविधा । यथा –पश्यन्ती, मध्यमा, वैखरी चेति । पश्यन्ती वागेव जगदुत्पादयति । सैव पराशब्देनाप्युच्यते, सैव च शब्दब्रह्म । सा च त्रिकालाबाध्यत्वरुपा नित्या । इदं शब्दब्रह्म वेदान्तवेदयब्रह्मतः अभिन्नम् । यद्यपि वाक्यपदीये पश्यन्ती-मध्यमा –वैखरीणां विवेचनं प्रतिपदोक्तं प्राप्यते , तथापि अत्रातीतविपर्यासः केवलामनुपश्यति इत्यत्र केवलापदप्रयोगेण परावाचः संकेतः प्राप्यते । अथवा सूक्ष्मपश्यन्तीरुपेण शब्दब्रह्मणः निर्देशः कृतः स्यात् । पश्यन्त्येव सूक्ष्मत्वेन परावाक्, पश्यन्तीमतिक्रान्ता तदभिन्नरुपा वा सेति विचारस्तु व्यर्थ एव । सगुणनिर्गुणादिभेदेन परापराभेदेन वा द्विविधतया र्वार्णतस्यापि ब्रह्मणः यथा एकत्वं न विरुद्ध्यते, तथा एकैव प्रत्यवर्शिनी वाक् गुणभूमिमतीत्य कदाचित् पश्यन्तीति कदाचिच्च परेति संज्ञयोपवर्ण्यते । अतः प्राचीनवैयाकरणैः पश्यन्त्येव परेति स्वीकृतमासीत् ।

  • नागेशभट्टेन वाचः चातुर्विध्यं स्वीकृतम । यथा –परा, पश्यन्ती, मध्यमा वैखरी चेति । ऋग्वेदे चत्वारि वाक् परिमिता पदानि इति मन्त्रे चतुर्विधा वाक् वर्णिता । किन्तु तत्र तासां नामोल्लेखो न दृश्यते । अस्य व्याख्यानावसरे महाभाष्ये चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च इत्युक्तम् । अस्य भाष्यस्या प्रतिकमादाय वाचः चातुर्विध्यं सिद्धान्तितं नागेशेन । तथाहि उद्द्योते – वाक्परिमितानीति षष्ठीतत्पुरुषः, पदजातानि- परापश्यन्तीमध्यमावैखर्थः, नामादीनि चेति । तस्य मते चशब्दोऽयं परापश्यन्तीमध्यमावैखरीणामपि संग्रहं बोधयति । अन्यथा चकारस्यानर्थक्यापत्तिः स्यात् । नामाख्यातादीनामपि परेत्यादिरुपचतुष्टयं वर्त्तते । तत्र त्रयोंऽशा मध्यमान्ता हृदयादिरुपायां गुहायां वर्त्तन्ते । चतुर्थं भागं वैखरीरुपं मनुष्याः वदन्ति । अवैयाकरणाः अज्ञानात् वैखरीरुपमेव जानन्ति व्यवहरन्ति च । वैयाकरणाः परादिमध्यमान्ता जानन्ति, वैखरीरुपेण व्यवहरन्ति ।

परा वाचः अस्तित्वप्रतिपादनाय नागेशेन प्रमाणद्वयं प्रदत्तम् ।

  • वाक्यपदीये अनादिनिधनम् इति कारिकायां शब्दब्रह्मणः उल्लेखः कृतः । एवं च शब्दब्रह्म रवशब्देन पराशब्देन चोच्यते । मतमिदं समर्थनाय प्रपंचसारतन्त्रस्य कारिकामुद्धरति । यथा –
बिन्दोस्तस्माद्भिद्यमानाद् रवोऽव्यक्तात्मकोऽभवत् ।
स एव श्रुतिसम्पन्नैः शब्दब्रह्मेति गीयते ॥
  • वाक्यपदीये वैखर्या मध्यमायाश्च इति कारिकायां त्रय्या वाचः परं पदम् इति लिखितमस्ति । तत्र श्रोत्रविषया वैखरी, मध्यमा व्यवहारकारणम् पश्यन्ती तु लोकव्यवहारातीता । योगिनां तु तत्रापि प्रकृतिप्रत्ययविभागावगतिरस्ति । परायां तु नेति । अतः तासां तिसृणां वाचां व्याकरणशास्त्रे प्रक्रियोपोगित्वमस्ति । शब्दब्रह्म ताभ्यः बहिर्भूतम् । सा परावाक् भवति । एतत् प्रमाणीकर्त्तुमुद्द्योते एका कारिका उदधृता । यथा –

स्वरुपज्योतिरेवान्तः परा वागनपायिनी इति । नागेशस्य मते बिन्दोः शब्दब्रह्मापरनामधेयम्, वर्णादिविशेषरहितम्, ज्ञानप्रधानम् सृष्टयुपयोग्यवस्थाविशेषरुपम्, चेतनमिश्रम्, नादमात्रमुत्पद्यते । एतज्जगदुपादानमेव रवपरादिशब्दैः व्यवह्रियते । सा च परावाक् नित्या नित्यत्वं न यावत्सृष्टिस्थित्या व्यवहारनित्यतया च बोध्यम् ।

चतस्रः वाचः[सम्पादयतु]

  1. परावाक्
  2. पश्यन्तीवाक्
  3. मध्यमावाक्
  4. वैखरी

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • Dictionary of Hindu Lore and Legend (ISBN 0500510881) by Anna Dhallapiccola
  • Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions (ISBN 8120803795) by David Kinsley
"http://sa.wikipedia.org/w/index.php?title=वाक्तत्त्वम्&oldid=232713" इत्यस्माद् पुनः प्राप्तिः