वातामक्षीरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कूप्यां सङ्गृहीतं वातामक्षीरम्

वातामक्षीरं जगति सर्वत्र अपि पीयमानं किञ्चित् पेयम् । भारते तु इदं पेयं बहु प्रसिद्धम् अस्ति । एतत् वातामक्षीरम् आङ्ग्लभाषायां Almond milk इति उच्यते । वातामक्षीरं चायस्य वा काफीपेयस्य वा स्थाने पातुं शक्यते । वातामक्षीरं कदाचित् उष्णं, कदाचित् च शीतलं पीयते । वातावरणस्य अनुगुणं तत् निर्णीयते । घर्मकाले शीतलं वातामक्षीरं, शैत्यकाले च उष्णं वातामक्षीरं पीयते । वातामचूर्णेन वातामक्षीरं निर्मीयते ।

वातामस्य चूर्णीकरणावसरे एव तत्र एला शर्करा च योजिता भवति । अपेक्षानुसारं पुनः वातामक्षीरस्य निर्माणावसरे शर्करा योज्यते । दुग्धं, जलं, शर्करा, वातामचूर्णं च योजयित्वा क्वथयन्ति चेत् वातामक्षीरं सिद्धं भवति । इदानीं वातामक्षीरस्य विक्रयणम् उद्यमत्वेन प्रवृद्धम् अस्ति । सर्वत्र उपहारमन्दिरेषु वातामक्षीरं प्राप्यते । कुत्रचित् मार्गपार्श्वे अपि वातामक्षीरस्य विक्रयणं कुर्वन्ति ।

"https://sa.wikipedia.org/w/index.php?title=वातामक्षीरम्&oldid=345369" इत्यस्माद् प्रतिप्राप्तम्