वातामम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
शुष्काणि भर्जितानि वातामानि
त्वक्-रहितानि वातामानि
वातामफलानि, फलस्य अन्तः वातामबीजं चापि
वातामपुष्पम्
सस्याग्रे विद्यमानानि वातामफलानि
वातामवृक्षः
वातामरसः
वातामलेह्यम्


एतत् वातामम् अपि भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् वातामम् अपि सस्यजन्यः आहारपदार्थः । एतत् वातामम् आङ्ग्लभाषायां almond इति उच्यते । एतत् वातामं न केवलं भारते अपि तु जगतः सर्वेषु देशेषु उपयुज्यते । एतत् वातामं मधुराणां भक्ष्याणां निर्माणे तथा कटूनां खाद्यानां च निर्माणे अपि उपयुज्यते । एतत् वातामं Dryfruits इति यानि उच्यन्ते तेषां शुष्कफलानां गणे अन्तर्भवति । एतत् वातामं नेत्रस्य आकारकं भवति । एतत् वातामं “वातादः” इत्यपि वदन्ति ।


आयुर्वेदस्य अनुसारम् अस्य वातामस्य स्वभावः[सम्पादयतु]

एतत् वातामं पचनार्थं जडम् । एतत् स्निग्धम्, उष्णवीर्ययुक्तं च अपि । वातामं मधुररसयुक्तम् ।

“वातादो वातवैरी स्यात् नेत्रोपमफलस्तथा ।
वाताद उष्णः सुद्निग्धो वातघ्नः शुक्रकृद् गुरुः ॥“


“वाताद मज्जामधुरो वृष्यः पित्तनिलापहः ।
स्निग्धोष्णः कफकृन्नेष्टो रक्तपित्तविकारिणाम् ॥“
१. एतत् वातामं वातं पित्तं च हरति, कफं च वर्धयति ।
२. वातामं शुक्रधातुं वर्धयति ।
३. वातामं तैलांशयुक्तम् अपि ।
४. वातामं गर्भवतीभ्यः दौर्बल्यस्य निवारणार्थं दीयते ।
५. वातामम् उष्णवीर्ययुक्तम् इति कारणतः रक्तपित्तरोगिभ्यः न दातव्यम् ।
६. वातामं, द्राक्षां, भल्लातकं च योजयित्वा रसायनं निर्मीय सन्तानवृद्ध्यर्थं स्त्रीपुरुषेभ्यः दीयते ।
७. गर्भवतीभ्यः गर्भस्य वर्धनार्थं वातामं कुङ्कुमेन सह चूर्णीकृत्य दातुं शक्यते ।
८. वातामं यद्यपि उष्णवीर्यं तथापि क्षीरेण सह यदा योज्यते तदा पित्तहरं पौष्टिकं च भवति ।
९. प्रसवस्य अनन्तरं यत् “महासौभाग्यशुण्ठी” नामकं लेह्यं दीयते तत्रापि वातमं योज्यते । अस्य लेह्यस्य सेवनेन वातः निवारितः भवति इति कारणतः “सूतिकावायुः” इति उच्यमानात् दोषात् मुक्तिः प्राप्यते । गर्भकाले उदरं यत् वर्धितं भवति तस्य सङ्ग्कुचनं जायते, तथा च बलं प्राप्यते ।
१०. पर्वदिनेषु देवानां नैवेद्यार्थं ये खाद्यविशेषाः निर्मिताः भवन्ति तत्र सर्वत्र सामान्यतया वातामम् अपि योजितं भवति ।
११. एतत् वातामम् आध्यात्मस्य दृष्ट्या अपि पवित्रम् इति उच्यते । यतः अस्य सेवनेन सत्त्वगुणः वर्धते, तमोगुणश्च निवार्यते । तस्मात् कारणात् मनः निष्कल्मषं, शान्तं च भवति इति ।‎
"http://sa.wikipedia.org/w/index.php?title=वातामम्&oldid=250525" इत्यस्माद् पुनः प्राप्तिः