वायुर्यमोऽग्निर्वरुणः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वायुर्यमोऽग्निः - 11.39 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवत्रिंशत्तमः(३९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः त्वं प्रपितामहः च नमो नमस्ते अस्तु सहस्रकृत्वः पुनः च भूयः अपि नमो नमः ते ॥ ३९ ॥

अन्वयः[सम्पादयतु]

त्वं वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः प्रपितामहः च । ते सहस्रकृत्वः नमः नमः अस्तु । पुनः च भूयः अपि ते नमः नमः ।

शब्दार्थः[सम्पादयतु]

त्वम् = भवान्
वायुः = वायुः
यमः = अन्तकः
अग्निः = हुताशनः
वरुणः = प्रचेताः
शशाङ्कः = चन्द्रः
प्रजापतिः = हिरण्यगर्भः
प्रपितामहः च = हिरण्यगर्भस्य अपि पिता
ते = तुभ्यम्
सहस्रकृत्वः = सहस्रवारम्
नमः नमः = नमोस्तु
पुनः च भूयः अपि = पुनः पुनः अपि
ते नमः नमः = तव नमस्कारः ।

अर्थः[सम्पादयतु]

त्वं वायुः यमः अग्निः वरुणः शशाः प्रजापतिः प्रपितामहः च । तुभ्यं सहस्रवारं प्रणामं करोमि । पुनः पुनः प्रणामं करोमि । नमो नमः अस्तु । पुनः च भूयः अपि तुभ्यं नमो नमः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]