वाल्मीकिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वाल्मीकिमहर्षिः (Valmiki Maharshi) श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताःरत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।

रत्नाकरः वाल्मीकिरभूत्.....[सम्पादयतु]

रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् । रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते ।

शीर्षकपाठ्यांशः[सम्पादयतु]

शोकः श्लोकत्वमागतः[सम्पादयतु]

श्रीमद्रामायणस्य रचनायां वाल्मीकिः

एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत् । स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् ।तस्य मुखात् शापः श्लोकरूपेण निःसृतः । स च -

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधि: काममोहितम्॥ इति ॥

आश्रमे आश्रिता सीता[सम्पादयतु]

वाल्मीकिमुनेः आश्रमे सीता

रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वाल्मीकिः&oldid=480937" इत्यस्माद् प्रतिप्राप्तम्