वाल्मीकिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
एतद एकः निर्वाचित लेख अस्ति। अधिक विज्ञप्या टक्टकायन करोतु।



वाल्मीकिमहर्षिः श्रीमद्रामायणस्य कर्ता । अयम् आदिकविरित्युच्यते ।अस्य पिता प्रचेताःरत्नाकरः इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।

अन्तर्विषयाः

रत्नाकरः वाल्मीकिरभूत्..... [सम्पादयतु]

रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् । किन्तु नारदमहर्षिः तन्मुखे विशिष्टं तेजः अवलोक्य रत्नाकरेण सह प्रीत्या सम्भषणं कृतवान् । चौर्यं कृत्वा धनसम्पादनस्य उद्देशं पृष्टवान् । तदा गृहजनानां सन्तोषार्थं चौर्यं कृत्वा जीवन् अस्मीति रत्नाकरः प्रत्युत्तरं दत्तवान् । तदा चौर्यकर्मणः पापविषये नारदः रत्नाकरं बोधयित्वा,किमिदं पापफलं गृहजना: अपि भोक्तुं सिद्धाः? इति नारदः पुनः प्रश्नं पृच्छति । रत्नाकरः निरुत्तरो भूत्वा गृहं प्रतिनिवर्तते । नारदेन पृष्टं प्रश्नं गृहजनानां सकाशे अपृच्छत् । परं गृहजनाः पापभाजः भवितुं नेष्टवन्तः। रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते ।

शोकः श्लोकत्वमागतः [सम्पादयतु]

श्रीमद्रामायणस्य रचनायां वाल्मीकिः

एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत् । नद्याः मञ्जुलं जलं दृष्ट्वा रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा इत्येवं नदीजलं वर्णयति । तस्मिन्नेव क्षणे कश्चित् व्याधः द्वयोः क्रौञ्चपक्षिणोः मिथुनसमये एकेन शराघातेन हननं करोति । स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् ।तस्य मुखात् शापः श्लोकरूपेण निःसृतः । स च -

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधि: काममोहितम्॥ इति ॥

एष एव श्लोकः रामायणस्य बीजभूतोऽभवत् । अनन्तरं वाल्मीकिः श्रीमद्रामयणं रचयितुं ब्रह्मणा आदिष्टः । नारदमहर्षिः संक्षेपेण रामायणकथाम् उपदिष्टवान् ।

आश्रमे आश्रिता सीता [सम्पादयतु]

वाल्मीकिमुनेः आश्रमे सीता

रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।

बाह्यसम्पर्कतन्तुः [सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=वाल्मीकिः&oldid=233575" इत्यस्माद् उद्धृतम्