वासकसस्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
वासकसस्यम्
वासकपुष्पगुच्छः

सिंहपुरी, अडुसा, वासकः इति कथ्यमानम् एतत् औषधीयं सस्यं अल्पप्रमाणेन वर्धमानः वृक्षकः । उत्कृष्टगुणयुक्तस्य अङ्कातकीकुटुम्बस्य अस्य सस्यस्य सस्यशाश्त्रीयं नाम अडतोड झीलानिका (Adhatoda zeylanica) इति । सदा हरिद्वर्णेन शोभमानस्य अस्य गुल्मस्य पत्राणि आम्रपत्राणि इव दीर्घाणि किन्तु मृदूनि कुशाग्राणि च भवन्ति । अस्मिन् दलद्वयस्य श्वेतपुष्पाणि विकसन्ति । भारतदेशस्य उष्णप्रदेशेषु स्वयं प्ररोहन्ति । कृषकैः स्वक्षेत्राणां संरक्षणार्थं सीमासु एतेषां सस्यानां वृतिः निर्मीयते । अस्य गुल्मस्य गरिष्ठौन्नत्यं नाम २मी. एव । इदं वासकसस्यं भारते अपि वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं यत्र अधिका वृष्टिः सञ्जायते तादृशेषु प्रदेशेषु अधिकतया वर्धते । इदं किञ्चित् गुल्माकारकं सस्यम् अस्ति । ६ – ८ अङ्गुलमितस्य काण्डस्य आरोपणेन नूतनं सस्यं वर्धयितुं श्क्यते । बीजस्य वा मूलस्य वा आवश्यकता न भवति । अस्य वासकसस्यस्य पर्णं, रसः च औषधत्वेन उपयुज्येते । अस्य वासकसस्यस्य “वासा”, “सिंहास्यं, “भिषङ्माता” इत्यादीनि नामानि अपि सन्ति ।

वासकः एक नित्यहरिद्वर्णः सस्यम् । बेङ्गलूरु मैसूरु मण्ड्य इत्यादि प्रदेशेषु इदं सस्य वृतौ वर्धयन्ति । केषुचिन् प्रदेशेषु प्राकृतिकतया इदं न वर्धते । सस्यस्य काण्डे अधिकाः उपशाखाः वर्धन्ते इति कारणेन इदं गुल्पवत् वर्धते । काण्डः धूसरवर्णः नयः च भवति । सस्य पर्णानि काण्डे अभिमुखं योजितानि भवन्ति । पुष्पस्य दलानि श्वेतानि भवन्ति । दलानम् उपरि तत्र तत्र रक्तवर्णस्य बिन्दवः रेखाः च भवन्ति दलानाम्

इतरभाषाभिः अस्य वासकसस्यस्य नामानि[सम्पादयतु]

इदं वासकसस्यम् आङ्ग्लभाषयाAdatod Vasaka इति उच्यते । सस्यकुले इदं Acanthaceae कुले अन्तर्भवति । हिन्दीभाषया “आडूसा” इति, तेलुगुभाषया “अडसारम्” इति, तमिळ्भाषया “आडदोडायि” इति, मलयाळभाषया “अड्डलसा” इति, कन्नडभाषया “आडुसोगे” इति च उच्यते । मलयालम् - आटलोटकम् (Atalotakam , ആടലോടകം) हिन्दी : आडोसा, अरुशा, रस, बन्सा (Adosa, Arusha, Rasa, Bansa) बङ्गाली : आदुल्सा, बकश (Adulsa, Bakash) गुजराती : आडुल्सो, आडुर्स्पी, बान्सा (Adulso, Aduraspee, Bansa, અરડૂસી) कन्नड़ : आडुसोगे (Adusogae, ಆಡುಸೋಗೆ) मराठी : Adulsa, Adusa (अडुळसा) फ़ारसी : बन्सा (Bansa) पञ्जाबी : भेक्कर् (Bhekkar) तमिळु  : अधतोड Adhatoda तेलुगु : - अड्डसरम् (Addasaram, అడ్డసరం)

आयुर्वेदस्य अनुसारम् अस्य वासकसस्यस्य प्रयोजनानि[सम्पादयतु]

इदं वासकसस्यं यद्यपि आकारेण लघु तथापि प्रयोजनदृष्ट्या महत् एव । इदं प्रायः सर्वत्र गृहौषधेषु उपयुज्यते एव । वासाकासस्यस्य पत्राणि त्वक् मूलानि पुष्पाणि इति सर्वाङ्गाणि आयुर्वेदचिकिस्ताक्रमे उपयुज्यन्ते । आस्त्मा, शीतपीडा, खासः अतिसारः इत्यादिषु सामान्यरोगेषु अस्य उत्मन्नानि औषधानि भवन्ति । अस्य पत्रं antispasmodic रूपेण mucolytic एजेंट रूपेण च कार्यं करोति ।

१. अस्य वासकसस्यस्य स्वच्छं पर्णम् उष्णजलेन प्रक्षाल्य ततः रसः निष्पीडनीयः । १ चमसमितं रसं तावता एव प्रमाणकेन मधुना सह प्रातः मध्याह्ने रात्रौ च आहारस्य सेवनात् पूर्वं सेवनीयम् । तेन सामान्यतया पीड्यमानाः कासः, शुष्ककासः, कण्ठस्य ज्वलनं, श्वासावरोधः इत्यादयः रोगाः अपगच्छन्ति ।
२. उपर्युक्तस्य सेवनेन बुभुक्षा वर्धते, ज्वरः अपगच्छति चापि ।
३. उपर्युक्तम् औषधं ५ – १० वयोमानवतां बालानां कृते अर्धचमसमितं केवलं दातव्यम् ।
४. पिटकाः जाताः चेत्, कण्डूतिः जायते चेत्, चर्मरोगेषु सत्सु च अस्य वासकसस्यस्य पर्णानि सम्यक् पेषयित्वा लेपनीयम् । पेषणावसरे हरिद्रा अपि योजयितुं शक्या । ३ – ४ घण्टानाम् अनन्तरम् उष्णजलेन प्रक्षालनीयम् । एवं करणेन पिटकाः, कण्डूतिः, चर्मरोगाः च अपगच्छन्ति ।
५. smallpox, chickenpox दडार – इत्यादिभिः बालाः यदि पीड्यमानाः सन्ति तर्हि वासकरसम् अर्धचमसमितेन मधुना सह प्रतिदिनं प्रातः, सायं च रिक्तोदरे दातव्यम् । रसम् अथवा पर्णं पेषयित्वा पिटकानम् उपरि लेपनम् अपि शक्यते । ३ – ४ घण्टानाम् अनन्तरं क्षालनीयम् ।
६. तदा तदा विना कारणं नासिकातः रक्तं स्रवति चेत्, कफेन सह रक्तम् अपि बहिरागच्छति चेत् वासकरसं २ चमसमितया शर्करया सह दिने द्विवारम् हारस्य सेवनात् पूर्वं सेवनीयम् ।

सेवनक्रमः[सम्पादयतु]

१. १४-२८ मि.ली परिमितेन रसेन सह समप्रमाणेन मधु, गुडं वा मिश्रीकृत्य दिने त्रिवारं पिबन्ति चेत् कासः, ज्वरः क्षयरोगश्च अपगच्छति
२. १४-२८ मि.ली परिमितेन रसेन सह किञ्चित् मधु मिश्रीकृत्य प्रतिदिनं द्विवारं सेव्यते चेत् प्रदरः (Lellcorrhoea) शाम्यति ।
३. ७-१४ मि.ली. परिमितेन् रसेन मधु मिश्रीकृत्य द्विवारं सेवनेन रक्तवमनं स्थगितं भवति ।
४. १२. मि.ली परिमितेन् रसेन समप्रमाणेन मधु मिश्रीकृत्य प्रतिदिनं प्रातः रात्रौ च सेव्यते चेत् कफजन्यः पण्डुरोगः शाम्यति ।
५. पर्णस्य स्वरसस्य कषायव्य वा सेवनेन रक्तमूलव्याधिः शाम्यति ।

पर्णम्[सम्पादयतु]

१. पर्णं पिष्टा हरिद्रया गोमूत्रेन च मिश्रीकृत्य शरीरे लेपयन्ति चेत् पामा, घर्मपिटेकः च शाम्यति ।
२. पर्णं पिष्ट्वा शोथस्य उपरि लेप्यते चेत् वेदना न्यूना भवति
३. पर्णानि उष्णीकृत्य मूलव्याधेः अङ्कुरुस्य उणता दीयते चेत् वेदना शाम्यति ।

पुष्पम्[सम्पादयतु]

१. १/२ -१ ग्रां परिमितं पुष्पस्य चूर्णेन सह अपेक्षित- प्रमाणॆन मधु, गुहं वा मिश्रीकृत्य प्रतिदिनं त्रिवारं खादयन्ति चेत् बालानां कासः अपगच्छति ।
२. पुष्पं चूर्णस्य कषायस्य वा सेवनेन मूत्रज्वलनं (Strangery) मूत्रावरोधः (Oliguria) च शाम्यति ।


"http://sa.wikipedia.org/w/index.php?title=वासकसस्यम्&oldid=250962" इत्यस्माद् पुनः प्राप्तिः