विकिपीडिया:उपपृष्ठानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उपपृष्ठानि तु तानि पृष्ठानि यानि तु स्वकीयाय अस्तित्वाय मुख्येन केनचित् पृष्ठेन सम्बद्धानि भवन्ति। तेषां पारिभाषिकं लक्षणम् अस्ति यत् तेषां नाम्नि '/' इति चिह्नं (स्लैश् इति) दृश्यते। तानि पृष्ठानि एतेषु प्रयोगेषु सदस्यैः योक्तुं शक्यन्ते-

  • प्रयोक्तुः उपपृष्ठानि- स्वच्छाऽनुसारेण काचित् विकिपीडियोपयोगि-सामग्री (लेखाद् इतरा) चेत् लेखनीया, सा तु प्रयोक्तुः पृष्ठे अथवा प्रयोक्तुः उपपृष्ठे लेखितुं शक्यते। यथा हि

[[User:उदाहरणसिंहः/लेखस्य प्रारूपम्]] अथवा [[User:उदाहरणसिंहः/मद्विषये विस्तरशः]] इत्येते उदाहरणसिंहेन कृतानि उपपृष्ठानि स्युः।

  • विकिपरियोजना उपपृष्ठानि - तेषु तु विकिपरियोजनाविशेषेण सम्बन्धितानि फलकानि, विचारविनिमयाः अथवा पथनिर्देशाः (guidelines) भवितुं शक्नुवन्ति।
  • फलकसम्बन्धीनि वृत्तलेखानि (documentation) फलकस्य उपपृष्ठे भवितुम् अर्हन्ति।
  • सम्भाषण-पृष्ठस्य पुरालेखनयनम्- लेखानां प्रयोक्तृणां च सम्भाषणपृष्ठानि यदा दीर्घीभवन्ति तदा केचिदंशाः पुरालेखेषु रक्ष्यन्ते। प्रायेण सङ्ख्यायुतेषु उपपृष्ठेषु नीयते पुरातनः पाठः।


मुख्ये नामाकाशे (अर्थात् सामान्येन लेखेन केनचित् सम्बन्धितं कृत्वा) उपपृष्ठं स्रष्टुं न शक्यते।

उपपृष्ठस्य नाम सदैव "पितृपृष्ठम्/उपपृष्ठम्" इति प्रारूपे भवति। उपपृष्ठस्यापि उपपृष्ठं स्रष्टुं शक्यते।