विज्ञानोत्सवः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

प्रतिवर्षं फेब्रवरीमासस्य २८ तमे दिने भारतदेशे विज्ञानदिनम् इति वैभवेन आचरन्ति । अस्य कारणं श्री. सि. वि. रामन् महोदयस्य नोबेलपुरस्कारप्राप्तिः । श्रीचन्द्रशेखरवेङ्कटरामन् श्रेष्ठः विज्ञानी आसीत् ‘रामन् एफेक्ट्’ इति तस्य शोधस्य नाम अस्ति । विज्ञानं नाम उपकरणं न किन्तु स्वतन्त्रालोचनाश्रमेण कार्यकरणं च इति रामन् उक्तवान् । चन्द्रशेखर वेङ्कटरामन् महोदयः तमीलुनाडु राज्ये तिरुचिरपल्ली पत्तने ७ नवम्बर् १८८८ तमे दिने जन्म प्राप्तवान् । कावेरीनदीतीरे स्थिते नगरे रामन् महोदयस्य उत्तमे कुले जन्म अभवत् । रामन् महोदयस्य पिता चन्द्रशेखर अय्यर् अध्यापकः आसीत् । माता च पार्वतीअम्माळ् सुसंस्कृता सङ्गीतज्ञा गृहिणी आसीत् ।

गृहे सङ्गीतज्ञानां प्रभावः आसीत् । बाल्ये सर्वत्र शालाध्ययने प्रतिभावान् रामन् महोदयः विज्ञाने आसक्तः अभवत् । चेन्नैनगरे प्रेसिडेन्सि महाविद्यालयतः एं. ए पदवीं प्राप्तवान् । सर्व विषयेषु कुतूहली रामन् सर्वतः उत्तरं प्राप्तुं प्रयत्नं करोतिस्म । यत्किमपि पश्यति चेत् एषः मनसि ‘एतत् किमर्थम्’ इति चिन्तयति स्म । श्री रामन् महोदयः कलकत्तानगरे महालेखपालस्थाने नियुक्तः उद्योगम् आरब्धवान् । तदा भारतीविज्ञानानुसन्धानसंस्थायाः सदस्य अभवत् । भारतीयप्राशासनिकपदवीम् अपि प्राप्तवान् । १९१५ तमे वर्षे कलकत्तानगरे विज्ञान महाविद्यालये प्राध्यापकः अभवत् । रामन् महोदयः सदा मनसि विज्ञान-संशोधनविषये चिन्तयति स्म । प्रयोगशालासु नवीनसंशोधनातत्परः आसीत् । एदर्थम् इङ्गलैण्डदेशं गत्वा अनुभवं प्राप्तवान् ।

लण्डन् नगरे एकदा सागरजलं नीलवर्णं भाति एतस्य कारणं किमिति विषये भाषणं कृतवान् । भौतशास्त्र सङ्घे भाषण कार्यक्रमः अभवत् भारतागमनानन्तरं संशोधनात्मक लेखनानि लिखित्वा लण्डन नगरे स्थिताणै ‘शयल् सोसयिती’ संस्थायै प्रेषितवान् अस्य प्रबन्धः अनेक विज्ञानिनां प्रशंसापात्रम अभवत् । १९२४ तमे वर्षे ‘द्युति शास्त्र’ सम्बन्धिप्रबन्धेन रामन् रायल् सोसायिटी सदस्यः घोषितः अभवत् । १९२५ तमे वर्षे रष्यादेशं गतवान् रामन् तत्रत्य रष्यन् अकाडमी आफ साइन्स् संस्थायाः गौरवम् प्राप्तवान् । १९२६ तमे वर्षे इण्डियन जर्नल आफ फिसिकस् इति पत्रिकां प्रकटितवान् । सततं अध्ययन शीलः सङ्गीतप्रियः संशोधकः श्री रामन् अनेक संशोधन कार्येषु तत्परः अभवत् ।

श्रीरामन् सूर्यस्य श्वेतकिरणविषये विशेषतः संशोधनं कृतवान् श्वेतवर्ण सप्तवर्णविशिष्टः अस्ति । पाददर्शकवस्तुद्वारा किरणः गच्छतिचेत् सप्तवर्णान ज्ञातुं शक्यम् अस्ति । अनेन रासायनिकवस्तूनां परमाणुसनां ज्ञातुं साध्यं अस्ति इति निरुपितवान् । ‘रामन् रेखाः’ अथवा रामन् परिणामः (रामन् इफेक्त ) इति प्रसिद्धः अयं विषयः रामन् महोदयाय नोनेल परितोषकप्राप्तये कारणं अभवत् । अनन्तरं विध्वे २००० संयुक्तवस्तूनां स्वरुपनिर्णये प्रमुखसहकारी अभवत् अयं विषयः । अतः एव २९३० फेब्रवरी २८ तमे दिने रामन् नोबेल प्रशस्तिं प्राप्तवान् । रामन् महोदयस्य सर्वदा विज्ञानविषये चिन्तनं मुख्म् कार्यं आसीत् । विज्ञां एव देवमिति सः ज्ञातवान् ।

बेङ्गलूरु नगरे रामन् संशोधना केन्द्रं स्थापिं अस्ति । अत्र अनेकविध संशोधनानं कार्याणि सततं प्रचलन्ति । विज्ञां इत्यस्य व्यवस्थितं ज्ञानं इत्यर्थः प्रत्यक्षं इष्टमपि वैज्ञानिकरीत्या प्रमाणैः परिशीलनं विज्ञानक्षेत्रे भवति । तस्य वैज्ञानिकमनोभावना इति कथयन्ति । ज्ञानं एव विज्ञानमिति आधुनिककाले, प्रसिद्धम् अस्ति भारतदेशे प्राचीन काले रामायण महाभारतपुराणेषु अनेक विषयाः सम्यक् निरुपिताः सन्ति । विज्ञानिनां कार्यं अपि सत्यस्य् दर्शनं । भारते आयुर्वेद तन्त्रशास्त्र वास्तुशास्त्र, रसायनशास्त्र्, रसविद्या, जयतिशशास्त्र इत्यादि विषयेषु ज्ञानिनः बहवः आसन् पाश्चात्यदेशेषु च अनेक विज्ञानिनः तत्वज्ञानिनः इति च ख्याताः सन्ति ।

ज्ञानिनां, तत्वज्ञानिनां, विज्ञानिनां जीवनक्रमः एव विशिष्टः भवति । परमाणुस्फोटकस्यापि समाजहिताय शान्तिकार्याय उपयोगः भवतु इति भारतीयानाम् अभिप्रायः । सर्वतः विज्ञानस्य संशोधनानां च फलानुभविनः लोके स्थिताः जनाः एव सर्वजनहिताय एव सर्वकार्याणि भवन्तु इति भारतीयाः वदन्ति । विज्ञानदिनस्य आचरणस्योद्देशः भाविप्रजासु अधुनातनविद्यार्थिषु सम्यकदर्शनस्य विज्ञानस्य परिचयः भवतु । अन्धविश्वासः नाशं गच्छ्तू । स्वतः आलोचनं कर्तुं बालाः उत्सुकाः भवन्तु इति । अम्मात् कारणात् महात्मनां जीवनदर्शनसाधनानि अधिकृत्य उपन्यासाः, प्रदर्शनानि, चित्रदर्शनानि, संशोधनानां विवरणानि कुर्वन्ति । पत्रिकासु आकाशवाणीदूरदर्शनादिषु उत्तमविज्ञा न साधकानां जीवनदर्शनं कारयन्ति । शैक्षणिकसंस्थासु विज्ञानप्रदर्शनानि आयोजयन्ति । विद्यालयस्तरे राज्यस्तरे देशस्तरे च विज्ञानवस्तुप्रदर्शकाणां विविधानि पारितोषकाणि यच्छन्ति ।

विज्ञानसंशोधनैः मानवानाम् अनेक रीत्या सौलभ्यं प्राप्तमस्ति । देशस्य अभिवृद्धये विज्ञानस्य पात्रं महत्वपूर्णमस्ति । दिनाचरणस्य पूर्वाजानां श्रमः सार्थकः भवतु । अग्रिम समाजस्य विज्ञानसम्शोधनानां लाभाः प्राप्ताः भवन्तु इति सदिच्छा अस्ति । एवं विश्वे एव विज्ञान दिनम् अतीव प्रसिद्धम् अस्ति ।

बाह्यसम्पर्कतन्तुः [सम्पादयतु]