विद्यारण्य

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

पम्पाक्षेत्रे मयणार्यो नाम विप्र: निवसति स्म । स: वैदिकधर्मपरायण: सदाचारसम्पन्नश्र्च आसीत् । तस्य पत्नी श्रीमतिदेवी । सापि धर्मपरा , सुशीला, रूपवती चासीत्। तौ दम्पती सर्वसौभाग्यसम्पन्नौ अपि सुतसम्पदं विना खिद्यतः स्म । पुत्रकामनया ताभ्यां तपः तप्तम्, तीर्थयात्रा अनुष्ठिता, देवपूजा च विहिता । दैवानुग्रहात् श्रीमतीदेवी सुतमसूत । तेन सन्तुष्टौ तौ दम्पती । जातस्य पुत्रस्य मायणार्य: जातकर्मादिसंस्कारान् कृतवान् । एकादशे अहनि पिता तस्या 'माधव' इति नाम अकरोत् । माधवस्य अनुजौ सायण-भोगनाथौ । तस्य अनुज सिङ्गला । ते त्रय: सहोदरा: अपि सत्यसन्धा: धार्मिका: तपोनिष्ठा: च आसन् । राजधर्मॆ अपि परं प्रावीण्यम् अलभन्त । श्रद्धया वेदाध्ययनमपि तै: कृतम् ।

इतिहासॆ त्रयोदशशतकम् सर्वदा अस्माभिः स्मर्तव्यमॆव । कारणं साधकानां साधनादि यथा ख्यातिमवाप तथैव तुरूष्काणाम् आक्रमणॆन उद्विग्नाः हैन्दवः सन्त्रासितासश्र्च । अस्माकं संस्कृतिं सम्पत्तिञ्च विनाशयितुमॆव समुत्पन्नाः नीचाः, एवं तैः संस्कृतॆः रक्षणमगत्यं कर्तव्यमिति मत्वा 'माधवः' एव तुरीयाश्रमाम् स्वीक्रुत्य 'विद्यारण्यः इति प्रथितः अभवत् ।

स्मरणीयः अयं महान् चॆतनः शङ्करभगवत्पादानाम् अवतारात् पञ्चशतवर्षानन्तरं द्वादश संख्याकः सन् शारदापीठमलङ्करॊत् । अस्य मार्गदर्शनॆ एव श्रृङ्गगिर्यां तथा पम्पाक्षॆत्रॆ दॆवालयादिकम् विनिर्मितमिति अवगच्छाम ऎतिह्यॆन । न कॆवलमयं सन्यासी आसीत् परं राजर्षिरपि भूत्वा जनान् राज्यञ्च सम्यक् पॊषयामास । अस्य "माधवीय शङ्करविजयं" इति कृतिः शङ्कराचार्याणां जीवनसूचीग्रन्थ इत्यॆव प्रसिद्धः अस्ति । अद्यापि काव्यमिदं शङ्करजयन्त्यां सर्वैः गीयतॆ तथा स्मर्यन्तॆ च जनैः ।

श्रीविद्यारण्ययति: तुङ्गभद्रातीरॆ शॊभमानं पम्पाक्षॆत्रम् अध्यतिष्ठत् । अराजकॆ तस्मिन् राज्यॆ राजानं समीक्षमाणः आसीत् । तदैव कदाचित् युवानौ आगतौ । तौ च यदुवंशंजातौ, शौर्यसम्पन्नौ, राजलक्षणयुतौ सुन्दरौ, सूर्यचन्द्राविव कान्तियुक्तौ आस्ताम् । तावॆव हरिहरबुक्कनामानौ । तौ यतिं श्रीविद्यारण्यम् उपसृत्य सप्रणामम् एवम् अवदताम् - "आवाम् अस्य राज्यस्य राजवंशीयौ, सम्प्रति राज्यकॊषाभ्यां विहीनौ अटन्तौ स्वः" ।

यतिर्विद्यारण्यः ताभ्याम् उक्तं विषयं श्रुत्वा समीहितं सिद्धं इति अमन्यत । अतः तौ शिष्यत्वॆन स्वीकृतवान् । श्रीविद्यारण्यॆन शिक्षितौ तौ । सर्वराजगुणपरिपूर्णौ प्रजानुरागिणौ च अवर्धताम् । तौ पूरस्कृत्य "शालिवाहनशकॆ धातुसंवत्सरॆ वैशाखशुद्धसप्तम्यां गुरूवासरॆ (क्रि.श.१३३६) अस्थापयन् च स्वतन्त्रं साम्राज्यम् । भूमिरियं वीरबहुलॆतिमत्वा तस्य साम्राज्यस्य 'विजयनगरम्' इति सार्थकं नाम अकरॊत् । तत्रैव राजगुरुः विद्यारण्यः हरिहरं राज्यॆ सिंहासनॆ प्रतिष्ठाप्य अभिषिक्तवान् । श्रीविद्यारण्यॆन उपदिष्टं मार्गम् अनुसरन् हरिहरः निरातङ्कं प्रजाः प्रर्यपालायत् । हरिहरॆ राज्यं शासति सति प्रजाजनाः सर्वॆ सुखिनः धर्मरताश्र्च जीवनम् अकुर्वन् । तदा वाणिज्यम् अतिशयॆन अवर्धत । कृषिक्षॆत्रं समृद्धिम् अलभत । साहित्यं कला संस्कृतिश्र्च नितराम् उन्नतिम् अवाप । अत एव भरतखण्डॆ विजयनगरसाम्राज्यकालः 'सुवर्णयुगम्' इति प्रथितः ।

सकलवॆदशास्त्रज्ञः श्रीविद्यारण्यः स्वयं 'सर्वदर्शनसङ्ग्रहः, जीवन्मुक्तिविवॆकः इत्यादीन् अनॆकान् ग्रन्थान् अरचयत् । एतॆन वॆदॆ शास्त्रॆ दण्डनीत्यां च श्रीविद्यारण्ययतिवर्यस्य पाण्डित्यं कियदिति स्फुटं विज्ञातं भवति । एवम् अप्रतिमसाम्राज्यसंस्थापकः विद्यारण्यः क्रि.श. १३८८ तमॆ वर्षॆ (अष्टाशीत्युत्तरत्रयॊदशशततमॆ वर्षॆ) परं धाम प्राप्तवान् । अद्यापि तस्य प्रतिमा पम्पाविरूपाक्षक्षॆत्रॆ विराजतॆ ।

External links[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=विद्यारण्य&oldid=275334" इत्यस्माद् पुनः प्राप्तिः