विद्युदणुः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Proton2electrontrapped.gif

विद्युदणुः (Electron) नाम ऋणात्मकशक्तिधारकाः कणाः भवन्ति । परमाणुः इत्यस्मिन् प्राधान्येन प्रोटान् , न्यूट्रान् विद्युदणु इति अंशत्रयं भवति । एतेषां घटकानां द्रव्यराशिः प्रोटान् अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र क्रि.श १८३८तमे वर्षे संशोधनम् आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । क्रि.श। १८७४ तमे वर्षे ऐरिश् विज्ञानी जार्ज् जोन्स्टन् स्टोने तस्य विशेषाध्ययनम् अकरोत् । क्रि.श १८९४तमे वर्षे युगाब्दे विद्युदणु इति अस्य नाम निर्दिष्टम् । जे. जे. थाम्सन् इति विज्ञानी प्रथमवारम् एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । विद्युदणूनां सहयोगकारणाद् एव रासायनिकक्रियाः, रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युच्छक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।

विद्युदणोः अन्तरम्

शताधिकाः उपघटकाः सन्ति एकस्मिन् परमाणौ । एवं विद्युदणुघटकाः तु लेप्टान् घटकानां समुदाये अन्तर्भवन्ति । पत्येकं विद्युदणुः ऋणात्मकशक्तिं धरन् विद्युदयस्कान्तीयेषु (electromagnetic) पुनः च न्यूनशक्तिसमन्वयेषु (weak interaction) भागं गृण्हन्ति ।

रासायनिकप्रक्रियाः[सम्पादयतु]

जलजनकस्य घनतास्थानानि

सर्वस्य अपि परमाणोः अन्तिमस्तरे विद्यमानाः विद्युदणोः अंशाः एव सर्वविधरासायनिकप्रक्रियायां भागं गृह्णन्ति । यस्मिन् परमाणौ अन्तिमस्तरे अधिक-विद्युदणु-अंशाः भवन्ति सः परमाणुः स्थिरः भवति अपि च यस्य न्यूनाः अंशाः भवन्ति सः अधिकक्रियाशीलः भवति इति विज्ञेयम् । परमाणोः विद्युदणु-अंशानां गणनानुगुण्येन एव periodic table निर्मितं वर्तते ।

जलजनकसमरेखाः

मापनम् (Measurement):[सम्पादयतु]

विद्युदणु-शक्तिं (charge) साक्षात् मापयितुं वर्तते एलेक्ट्रोमीटर् इति यन्त्रम् । परन्तु विद्युदणु-प्रवाहं (current) परिमापयितुं विद्यते गाल्वोनोमीटर् । पूर्वकाले तु एतेषां कणानां मापनं नाम बहु कष्टकरं कार्यमासीत् । इदानीं तु सामान्यप्रयोगशालायामपि मापनं कर्तुं शक्यते ।

विद्युदणु-दर्शनम्[सम्पादयतु]

प्रयोगशालायाः परिमितौ 'कणदर्शिका' (particle detector) इत्यनेन यन्त्रेण पत्येकस्य अपि विद्युदणोः अंशं ज्ञातुं शक्नुमः । तद्द्वारा तस्य शक्तिः, spin, charge इत्यादिकं गोचरं भवति । विद्युदणु-अंशस्य कान्तीयचलनस्य प्रथमचलच्चित्रं तु स्वीकृतं स्वीडन्-देशस्य लण्ड् विश्वविद्यालयेन फेब्रवरिमासस्य २००८ तमे वर्षे ।

"http://sa.wikipedia.org/w/index.php?title=विद्युदणुः&oldid=270346" इत्यस्माद् पुनः प्राप्तिः