विनायक दामोदर सावरकर

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(विनायकदामोदरसावरकरः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
विनायकदामोदरसावरकरः

विनायकदामोदरसावरकरः
जननम् May 28, 1883
भगुर्, महाराष्ट्रम्, भारतम्
मरणम् February 26, 1966(1966-02-26) (aged 82)
मुम्बै, भारतम्
मरणस्य कारणम् आत्महत्या
राष्ट्रियता भारतीयः
इतरनामानि वीर सावरकर
राजनैतिक पक्षम् हिन्दू महासभा
पतिः/पत्नी यमुनाभायी
मातपितरौ दामोदरसावरकरः
यशोदा सावरकरः
बान्धवाः गणेशदामोदरसावरकरः (सहोदरः),

नारायणदामोदरसावरकरः (सहोदरः),

मैना दामोदरसावरकरः (अनुजा)
एतद एकः निर्वाचित लेख अस्ति। अधिक विज्ञप्या टक्टकायन करोतु।

विनायकदामोदरसावरकरः ईशवीये १९१० वर्षे जूलै १० दिनाङ्कः। सूर्योदयसमयः । फ़्रान्स्-देशे मार्सेल्स्-नौकाश्रये मोरिया नाम्नी नौका नौकीलेन स्थापिता । तस्यां कोऽपि यान्त्रिकलोपः सञ्जातः । नौकायाः कर्मकराः तस्य लोपस्य निवारणे मग्नाः आसन् । यात्रिकाः सा कदा सम्यग् भविष्यति इति प्रतीक्षायाम् आसन् । सागरः प्रशान्तः आसीत् । यात्रिकाः अपि निश्चिन्ताः आसन् । किन्तु एतस्मिन् व्यवहारे असावधानः कश्चन युवा किमपि गणयन् आसीत् । निश्चिन्ततया अवस्थानं तस्य न अभ्यस्तम् नासीत्। कारणम्...? सः बन्दी आसीत् । तत्रापि आङ्ग्लसर्वकारस्य । तस्मिन् राजद्रोहः आरोपितः आसीत्। तस्य चलनवलनं द्वौ आरक्षकौ निर्निमेषं परिशीलयन्तौ आस्ताम् च ।

समुद्रप्लवनम्[सम्पादयतु]

आरक्षकद्वयम् उद्दिश्य"मया बहिः गन्तव्यम्" इति पृष्टवान् सः बन्दी । एकः आरक्षकः तं शौचालयं नीतवान् बन्दी अन्तः गत्वा द्वारं पिहितवान् । बहिः आरक्षकद्वयं परस्परम् अभिमुखं चलन्तौ रक्षन्तौ आस्ताम् । शौचालयद्वारस्य उपरि काचनिर्मितः गवाक्षः असीत् । तस्य गवाक्षस्य द्वारा अन्तःस्थस्य बन्दिनः चलनं द्रष्टुं शक्यते स्म। अन्तर्गतः बन्दी स्वस्य दीर्घप्रावारकम् अपावृत्य तस्य गवाक्षस्य काचं रोधयन् अवलम्बितवान् । एवम् आरक्षकद्वयस्य दृष्टिपथात् सः अपगत: अभवत् । अन्यक्षणे सः शौचालयस्य रन्ध्रद्वारा समुद्रं प्राप्तवान् । ऊर्मिभिः सह युद्ध्यन् कथञ्चित् तीरं प्रति तरन् गतवान् । नौकाश्रयस्य द्वारतः उपरि अभिप्रसर्प्य पलायनं कृतवान् । अधिककाले गतेऽपि अन्तर्गतः युवा बहिः नागतवानिति शौचालयस्य बहिः स्थितस्य आरक्षकद्वयस्य सन्देहः जातः । अन्तः किमपि अभवत् इति सन्देहेन नौकायाः उपरि गत्वा दृष्टवन्तौ । तत्र किमस्ति ..? तदैव बन्दी समुद्रे कूर्दित्वा प्लवमानः पलायते । तत्क्षणे आरक्षकद्वयम् उच्चैः आक्रोशत् " बन्दी पलायते, गृह्ण्न्तु" इति

गणेशविनायकौ[सम्पादयतु]

’भगूर्’ महाराष्ट्रस्थे नासिकजनपदे एकः कुग्रामः । तत्र दामोदरपन्तसावरकरस्य गृहे ईशवीये १८८३तमे वर्षे मे मासस्य २८तमे दिनाङ्के एकः बालः जातः । तस्य विनायक: इति नाम कृतवन्तः । दामोदरपन्तस्य पूर्वमेव अन्यः पुत्रः आसीत् । तस्य नाम गणेश: । गणेशः, विनायकः इति नामद्वयमपि एकस्यैव देवस्य । समानार्थकनामवन्तौ सोदरौ ज्योष्ठौ भूत्वा देशहितकार्ये अपि समानं भागं स्वीकृत्य नामसमानतायाः सार्थकतां कल्पितवन्तः । गृहजनाः गणेशं ’बाबू’ इति विनायकं ’तात्या’ इति च सम्बोधयन्ति स्म ।

विद्याभ्यासः[सम्पादयतु]

विनायकस्य नवमे वर्षे तस्य माता राधाबायी दिवङ्गता । विद्याभ्यासार्थं गणेशविनायकौ नासिकं गतवन्तौ । तयोः पिता दामोदरपन्तः कनिष्ठपुत्र्या मेनया, पुत्रेण नारायणेन च सह भगूरग्रामे एव जीवनं यापयति स्म । आङ्ग्लजनानां शासनसमयः । विक्टोरियामहाराज्ञ्याः पट्टाभिषेकस्य पञ्चाशद्वर्षसमाप्तिं पुरस्कृत्य १८९७तमे वर्षे भारते स्वर्णोत्सवः आचरणीयः इति आङ्ग्लसर्वकारेण निश्चितम् । तस्मिन् समये महाराष्ट्रे सर्वत्र भयङ्करः प्लेग् व्याधिः सङ्क्रान्तः आसीत् । सर्वत्र जनाः प्लेग् व्याधिग्रस्ता मक्षिका इव मरणं प्राप्नुवन्ति स्म | मृत्योः भीकरं नृत्यं प्रचलति स्म । तादृश्यां दुर्भरबाधाकरपरिस्थितौ आङ्ग्लेयैः महाराज्ञ्याः पट्टाभिषेकोत्सवः सवैभवं करणीयः इति निश्चितम् इति तत्रत्यानां प्रजानां मनसि व्रणे मरीचचूर्णक्षेपणमिव अभवत् । देशभक्ताः जनाः एतं विषयं न असहन्त। आङ्ग्लेयानाम् एतस्य दुर्व्यवहारस्य स्वविरोधं निरूपयन्तौ पूनानगरीयौ चापेकरसोदरौ आङ्ग्लाधिकारिद्वयं बध्द्वा विस्फोटनगोलकेन मारितवन्तौ । आङ्ग्लसर्वकारः चापेकरसोदरद्वयं बद्ध्वा कण्ठपाशदण्डेन अहनत् |चापेकरसोदरद्वयस्य एतदात्मार्पणं सावरकरसोदरद्वयम् अत्यधिकम् आकृष्टवत् ।

प्रतिज्ञास्वीकारः[सम्पादयतु]

बालकः विनायकः चापेकरसोदरद्वयेन दर्शितं साहसमधिकृत्य स्फूर्तिदायकम् एकं गेयं रचितवान् । तत्र अन्तिमपङ्कतयः एवमासन् ।

भवतोः आरब्धं कार्यम्
मध्ये अवरुध्दमिति न भवतु शङ्का भवतोः ।
तत् कार्यम् अग्रे नेतुम्
वयम् स्मः, भवन्तौ निश्चिन्तौ भवताम् ॥

विनायकः केवलं कवित्वं विरच्य, तूष्णीं नौव स्थितवान् । स्वीयकुलदेवतायाः अष्टभुजादेव्याः दुर्गामातुः पुरतः स्थित्वा ’देशस्वातन्त्र्यार्थं सायुधसङ्ग्रामध्वजम् आरोपयामि । स्वप्राणान् पणीकृत्य सङ्ग्रामं करोमि’ इति प्रतिज्ञाम् अपि कृतवान् ।

मित्रमेलायाः आरम्भः[सम्पादयतु]

गणेशविनायकौ स्वमित्रैः सह नासिके स्वपाठशालायां ’मित्रमेला’ नाम्नीम् काञ्चित् संस्थाम् आरब्धवन्तौ । व्यायामशालायाः निर्वहणम्, गणेशपूजा-शिवाजीजयन्तीत्यादिसार्वजनिकोत्सवानाम् आयोजनञ्च मित्रमेलायाः कार्यम् । मित्राणि सर्वाणि सम्भूय गातुं योग्यानि गीतानि विनायकः रचयति स्म । शिवाजि:, तानाजि:, वासुदेवबलवन्तफडके इत्यादीनां महावीराणां जीवनचरितानि च अत्यन्तस्फूर्तिकरं श्रावयति स्म । एवं युवकेषु, बालेषु च देशभक्तिनिर्माणाय स्फूर्तिकेन्द्रम् अभवत् मित्रमेला । ईशवीये १८९९तमे वर्षे विनायकस्य पिता दामोदरपन्तः प्लेगव्याधिकारणतः दिवङ्गतः । तेन कुटुम्बपोषणभारः गणेशे समापतितः । गणेशः कनिष्ठसोदरीं मेनां सोदरं नारायणं च भगूरतः नासिकनगरम् आनीतवान् । किञ्चित्कालानन्तरं गणेशस्य यशोदया सह विवाहोऽभवत् । यशोदागणेशौ विनायकं, नारायणं मेनाञ्च अत्यन्तानुरागेण पालयन्तौ आस्ताम् । विनायकः भ्रार्तृजायां स्वमातरमेव पश्यति स्म । स्वानुजस्य विनायकस्य विवेके गणेशस्य अपारः विश्वासः आसीत् । कुटुम्बस्य सर्वमपि भारं स्वयं वहन् विनायकं विद्याविषये प्रोत्साहितवान् सः ।

अभिनवभारतम्[सम्पादयतु]

पाठशालायां विद्याभ्याससमाप्त्यनन्तरम् उन्नतविद्याप्राप्त्यर्थं विनायकः पूनानगरं गतवान् । तदैव बाबासाहेबचिप्लूणकरस्य पुत्र्या यमुनया तस्य विवाहः अभवत् । विनायकः उन्नतविद्याभ्यासार्थं फर्र्ग्युसन्-महाविद्यालये प्रविष्टः । तेन सह तस्य मित्रमेलाप्राणाली अपि तत्र प्रविष्टा । सः स्वप्रणालीं सहविद्यार्थिनां कृते निरूप्य तत्राऽपि एकां संस्थाम् आरब्धवान् । विनायकस्य प्रेरणया वसतिगृहभोजनशालायां छ्त्रपतेः शिवराजस्य वर्णचित्राविष्कारणं सम्पन्नम् । प्रतिदिनं शिवराजस्य स्तोत्रपठनं, सप्ताहे एकवारं सिंहगढगमनम्, तत्र शिवराजस्य अन्येषां महाराष्ट्रियाणां, विजयनगरीयाणाञ्च हिन्दुवीराणाम् इतिहासाध्ययनम् इत्यादिकमपि आरब्धम् । एतानि कार्याणि फलप्रदानि प्रचलन्तीति अमितोत्साहेन विनायकः अग्रजाय गणेशाय पत्रं लिखितवान् । ’बाबा! आगामिग्रीष्मविरामेषु नासिके अस्माकं संस्थायाः सभ्याः सर्वे मिलित्वा एकं सम्मेलनम् आयोजयितुमिच्छामः । देशस्वातन्त्र्यार्थं क्रियमाणे आस्मिन् अस्माकं सङ्ग्रामे पुरोगमनम् आवश्यकम् । अस्मिन् विषये भवतः अभिप्रायः अपि आवश्यकः ।" इति लिखितवान् ।

अनुजस्य लेखं पठित्वा गणेशः अधिकं प्रसन्नः । पूर्वचिन्तनानुसारं ग्रीष्मविरामेषु नासिकनगरे सर्वे सुहृद: मिलितवन्तः । सर्वे मिलित्वा देशहितार्थं करणीयं कार्यमुद्दिश्य बहुविधं चिन्तनं कृतवन्तः । अनेकविधान् तर्कान्, प्रणालीश्च निर्मितवन्तः । स्वरक्तेन परस्परं तिलकं धरितवन्त: । ’देशस्वातन्त्र्यार्त्थं सायुधसङ्ग्रामं कुर्मः’ इति कङ्कणानि बध्दवन्तः । अस्य सम्मेलनबृन्दस्य ते ’अभिनवभारतम्’ इति नामकरणं कृतवन्तः ।

नूतनप्रणाल्याः आरचनम्[सम्पादयतु]

नासिके आरब्धम् अभिनवभारतम् अत्यन्तोत्साहेन कार्यक्रमान् योजयत् अग्रे गच्छति स्म । अस्मिन् समये एव आङ्ग्लसर्वकारेण वङ्गप्रान्तः द्विधा विभक्तः । एतद्विरुध्य देशजनाः उद्यमम् आरब्धवन्तः । एतद्विभजनं प्रतिघटितवन्तः । एतद् विभजनं निरोध्दुम् अभिनवभारतम् अपि एकां नूतनां प्रणालीं निर्मितवत् । निरसनसभाः, समावेशाः , शोभायात्राः इत्यादिसार्वजनिककार्यक्रमाः प्रचलन्ति स्म । अभिनवभारतस्य प्रणाली का इत्युक्ते सार्वजनिकस्थलेषु बृहत्सु चतुष्पथेषु जनान् मेलयित्वा विदेशीयवस्त्राणि राशीकृत्य तेषां दहनं करणीयम् इति । अनेकस्थानेषु एतत् सफलमपि अभवत् । ज्वलन्ति विदेशीयवस्त्राणि दृष्ट्वा लोकमान्यतिलकः " आङ्ग्लेयान् विरुध्य हिन्दुदेशे उद्भूताः एते अग्निकणाः स्वल्पदिनेष्वेव ज्वालाः भूत्वा आङ्ग्लदेशं व्याप्स्यन्ति" इति व्याख्यातवान् । अभिनवभारतेन निरूढेन अनेन विदेशीयवस्त्राणां होलिकोत्सवेन विनायकं महाविद्यालयात्, वसतिगृह्तः अपि बहिष्कृतवन्तः पालकाः । स्वमित्रैः सह निवसन् सः कथमपि विद्याभ्यासं सम्पूरितवान् । परीक्षासु उत्तमान् अङ्कान् प्राप्य उत्तमश्रेण्याम् उत्तीर्णः पदवीं च प्राप्तवान् ।

उन्नतविद्याभ्यासः[सम्पादयतु]

अनन्तरं विनायकः न्यायसंहिताम् अध्येतुं मुम्बयीं गतवान् । तत्र सः विद्याभ्यासेन सहैव वार्तापत्रिकासु देशभक्तियुतान् लेखान् अपि लिखन् आसीत् । लण्डन् नगरे ’इण्डियाहाउस्’ इति काचन संस्था आसीत् । सा भारतस्वातन्त्र्यसङ्ग्रामाय प्रोत्साहं यच्छन्ती आसीत् । सा संस्था स्वकार्यकलापेषु योग्यान्, बुध्दिमतः विद्यावतः युवकान् आक्रष्टुं छात्रवृत्तिमपि ददाति स्म । एतेषां छात्रवृत्तीनां सम्बन्धिनी वार्ता पत्रिकासु प्रकटीक्रियते स्म । कदाचित् एतादृशं प्रकटनं दृष्ट्वा विनायकसावरकरः तस्मै अभ्यर्थनं कृतवान् । छात्रवृत्तिं प्राप्तवान् च । तदा विनायकः पत्नीं यमुनां तस्याः जन्मगृहं प्रेषयित्वा स्वयम् ईशवीये १९०६ तमे वर्षे आङ्ग्लदेशं प्रयातः ।

सावरकरस्य आदर्शनायकः[सम्पादयतु]

माजिनी(१८०४-१८७२) इटलीदेशीयः विख्यातः देशभक्तः । अयं विनायकस्य आदर्शनायकः । ईशवीये १९०६तमे विनायकः आङ्ग्लदेशं प्राप्तवान् । तत्र माजिनीसम्बन्धिसाहित्यं सर्वमपि पठितवान् । तस्य जीवनस्य सम्यगध्ययनं कृतवान् । स्वातत्र्यसाधनार्थं भारतीयानां प्रेरणायै, समरोत्साहनिर्माणार्थं च तस्य जीवनचरितम् अत्यन्तशक्तिमत्या, स्फूर्तिप्रदया च भाषया लिखितवान् । तस्य मुद्रणार्थं लिखितप्रतिकृतिं भारतदेशं प्रेषितवान् । तत् पठित्वा लोकमान्यतिलकः "माजिनीचरितम् अत्यन्तं स्फूर्तिप्रदम्, अस्माकं तात्याभाषा, तल्लेखनशैली च इतोऽपि शक्तिमती । एतत् पुस्तकं युवजनम् स्वातन्त्र्यसाधकं वीरं करिष्यति । एतत् पुस्तकं मुद्रितं भविष्यति चेत् अवश्यम् आङ्ग्लसर्वकारः निषेत्स्यति, लेखकम् अवश्यं दण्डयिष्यति च" इति भवितव्यतामुक्तवान् । तत् अक्षरशः सत्यमभवत् । माजिनीपुस्तकं सर्वकारः न्यषेधत् । विनायकस्य कार्येषु गूढचर्याऽपि आरब्धा ।

प्रथमस्वातन्त्र्यसङ्ग्रामः[सम्पादयतु]

भारतीयेषु स्वातन्त्र्यभावनाजागरणाय सावरकरः ईशवीये १८५७तमे वर्षे सम्भूतस्य स्वतन्त्र्यसाधनसङ्ग्रामस्य चरितं समग्रं सप्रमाणं लिखितवान् । तस्य पुस्तकस्य नामाऽपि "१८५७ प्रथमस्वात्न्त्र्यसङ्ग्रामः" इति कृतवान् । आङ्ग्लपालकाः एतस्य सङ्ग्रामस्य गौरवं न्यूनीकर्तुमेव एतं सैनिकद्रोहमिति प्रचारितवन्तः । किन्तु सावरकरस्य पुस्तकेन तस्य सङ्ग्रामस्य सत्यस्वरूपं सर्वैः ज्ञातम् । १८५७ प्रथमस्वातन्त्र्यसाधनसङ्ग्रामस्य समाप्त्यनन्तरं ५० वत्सराणि समाप्तप्रायाणि । तस्मिन् सन्दर्भे आङ्ग्लराजधान्यां लण्डन् नगर्याम् एकं कार्यक्रमम् आयोजितवन्तः | एतस्य स्वातन्त्र्यसाधनङ्ग्रामस्य रजतोत्सवाय बारिष्टराणां, पण्डित श्यामजी कृष्णवर्मा, मेडम् कामा इत्यादिभ्यः अपि उत्तमः सहकारः लब्धः । प्रथमस्वातन्त्र्यसाधनसङ्ग्रामस्य गौरवचिह्नम् एकं निर्मितवन्तः| तत् चिह्नं भारतीयछात्राः, भारतदेशस्वातन्त्र्यानुरागिणः सर्वे वक्षःस्थले धृत्वा लण्डन् नगरवीथीषु सोत्साहम् अटितवन्तः । एतत् गौरवचिह्नं सगर्वं धृत्वा अटितेषु छात्रेषु मदनलाल् धिङ्ग्रा अन्यतमः । तद् धृत्वा यदा सः विद्यालयप्राङ्ग्णे अटन्नासीत्, तदा केचन आङ्ग्लेयछात्राः तम् परिहसितुं प्रयत्तवन्तः । धिङ्ग्रा कोपेन स्वछुरिकां हस्ते स्वीकृतवान्, तदा ते पलायिताः । अस्मिन् रजतोत्सवकार्ये लण्डन्-नगरे अभिनवभारतस्य कार्यक्रामाणां वेगः अभिवृध्दः । एतस्याः संस्थायाः सभ्याः रहसि विस्फोटनगोलिकाः निर्मान्ति स्म । लक्ष्यवेधने गोलकास्त्रप्रयोगस्य अभ्यासमपि आरब्धवन्तः ।

सावरकरेण लिखितं " १८५७ प्रथमस्वातन्त्र्यसङ्ग्रामः " इति ह्स्तलिखितपुस्तकं निगूढं भारतदेशम् आगतम् । तस्य पुस्तकस्य गूढतया मुद्रापण्स्य प्रचारनस्य च भार: गणेशेन स्वीकृत: । एषः विषयः सर्वकारेण ज्ञातः । एतत् पुस्तकं राजद्रोहवर्धकं भावयन् आङ्ग्लसर्वकारः मुद्रणार्थं स्वीकृतं मुद्रणालयं पिहितवान् लिखितपुस्तकमपि सर्वकारः स्वायत्तीकुर्यादिति विचिन्त्य गणेशः गूढतया फ्रान्सदेशं प्रेषितवान् । भारतीयभाषायां स्थितस्य तस्य पुस्तकस्य फ्रान्सदेशे मुद्रणम् असाध्यम् । अतः तत् आङ्ग्लभाषया अनूद्य मुद्रापणीयम् अभवत् । अनन्तरं तस्य पुस्तकस्य प्रतिकृतयः रहसि भारते प्रविष्टाः । अल्पदिनेष्वेव एतस्य विषयस्य वार्ता सर्वकारेण ज्ञाता । सार्वकार: झटिति पुस्तकस्य निषेधम् अकरोत् । गणेशसावरकरे राजद्रोहदोषम् आरोप्य अभियोगम् अरचयत् च । न्यायालयः तं दोषिणं निर्णीय आजीवनकारावासं प्राकटयत् ।

कवित्वम्[सम्पादयतु]

लण्डन्-नगरे स्थितः सावरकरः भ्रातृजायया लिखितेन पत्रेण ज्ञातवान् यत् "बाबारावम् आरक्षकाः बध्दवन्तः, तस्य आजीवनकारावासद्ण्ड:अपि दत्त: " इति । तस्य मनः परितप्तम् । " अग्रजः कठिनकारावासदण्डम् अनुभवन् अस्ति, अहं लण्डन् नगरे कथं सुखेन निवसामि ? भ्रातृजायाम् एतस्मिन् कष्टसमये कथं वा अनुनयेयम् ?"इति व्यथामनुभूतवान् । तीव्रमालोच्य स्वदुःखमेव कवित्वरूपेण परिवर्त्य प्रजावतीं प्रति लेखं लिखितवान् । "अनेकानि पुष्पाणि विकसन्त्येव कदाचित् कुत्रचित् गलन्ति, शुष्काणि च भवन्ति । तादृशानां गणना वा, प्रामुख्यं वा क्व ? किन्तु कश्विद् गजः कदाचिद् एकं कमलं त्रोटयित्वा स्वशिरसि वहन् श्रीहरेः पादसन्निधौ समर्पयति । तथा समर्पितस्य कमलस्य जीवनमेव धन्यं, पावनं, सार्थकञ्च । अस्माकं कुटुम्बस्थाः सर्वे एतादृशसार्थक-पावन-धन्यजीवनप्राप्तये प्रयतमानाः समः । एषः अत्यन्तगर्वप्रदः विषयः ।" - प्रजावत्यै तेन लिखितस्य पत्रस्य सारांशः एषः ।

प्रतीकाराग्निः[सम्पादयतु]

बाबाराव(गणेश) सावरकारस्य आजन्मकारावासदण्डं श्रुत्वा लण्डन् नगरे स्थिताः अभिनवभारतसभ्याः पुच्छे मृदितनागाः इव फणां कृतवन्तः । मदनलालधिङ्ग्रा ’ एतस्य योग्यं प्रतीकारं करोमि’ इति शपथं कृतवान् । लण्डन् नगरे स्थितानां भारतीयविप्लवकाराणां कार्यकलापेषु गूढदृष्टिं दत्तवतः आङ्ग्लेयाधिकारिणः नाम कर्जनवैली । तं मदनलालधिड्ग्रा भुशुण्डिना मारितवान् । आरक्षकाः मदनलालं बध्दवन्तः । अनन्तरं तस्मै कण्ठपाशेन मरणदण्डं विहितवन्तः । इतो भारतदेशेऽपि स्वातन्त्र्यवीराणां स्थितिः तादृशी एव आसीत् । सावरकरः, तस्य अभिनवभारतसभ्याः च भारतदेशस्थानां क्रान्तिकाराणां कृते निगूढतया आयुधानि प्रेषयन्ति स्म । बाबारावसावरकराय अन्याय्यं दण्डं विहितवतः नासिकजनपदस्य आङ्ग्लाधिकारिणः नाम जाक्सन् । तम् एकस्यां वेश्याशालायाम् अनन्तलक्ष्मणकन्न्हेरेनामा क्रान्तिकारः भुशुण्डिना मारितवान् । अनन्तः आरक्षकैः गृहीतः । तेन सह अन्ये अपि केचन तैः गृहीताः । एतान् क्रान्तिकारिणः आङ्ग्लसर्वकारः अवर्णनीयया रीत्या अपीडयत्। कर्जन्वैली, जाक्सन् इत्यादीनाम् अनेकेषाम् आङ्ग्लाधिकारिणां हननस्य पृष्ठतः विनायकसावरकरस्य प्रेरणा अस्तीति आङ्ग्लसर्वकारः दॄढं विश्वसिति स्म । मदनलालधिङ्ग्रा स्वीये मरणसन्देशे गर्जितवान्, यत् ’भारतीययुवकानां कठिनकारावासदण्डः विधीयते चेत्, ते मरणशूलेषु आरोप्यन्ते चेदपि, तत्प्रतिक्रियारूपेण आङ्ग्लेयानां रक्तं प्रवाहयितुं वयं निश्चितवन्तः । ’इति। एतं सन्देशं सवरकरः एव रचितवान् । एष एव सावरकरस्य सिध्दान्तः इति ज्ञातवन्तः आङ्ग्लेयाः । आङ्ग्लसर्वकारस्यापि तथैव समाभात् । अतः सावरकरं विरुध्द्य न्यायालये अभियोग: रचित: सर्वकारेण ।

साहसपूर्णः प्रयत्नः[सम्पादयतु]

सावरकरस्य अनुयायिनः अनेके निर्बन्धे आसन् । धिङ्ग्रासदृशाः केचन अमराः सञ्जाताः । अग्रजः अण्डमाने कारावासमनुभवति स्म । एतादृशस्थितौ सावरकराय लण्डन् नगरे निवासः न अरोचत । भारतदेशः प्राप्तव्यः इति तस्य मन: अतप्यत । तदर्थं प्रयत्नाः अपि आरब्धाः । एतादृशविपत्करस्थितिष्वपि स्वराजतन्त्रकार्याणि वर्धयन्नेव सः बारिष्टर् परिक्षायाम् उत्तीर्णः ।

सावरकरः भारतदेशप्रयाणाय व्यवस्थां कृत्वा लण्डन्- नगरस्थं विक्टोरियारेलस्थानकं प्राप्तवान् । ततः भारतदेशः प्रयातव्यः इति तस्य चिन्तनम् । सर्वकारः रेलस्थानके एव तं निरबध्नात् । तस्मिन् राजद्रोहापराधः, आङ्ग्लेयाधिकारिणां वधापराधश्च आरोपितः । तस्मिन् आरोपितानाम् अपराधानां न्यायालये यथाकथञ्चित् परिशीलनं समाप्य दण्डनार्थं तं बन्दिनं कृत्वा भारतं प्रेषणीयः इति अधिकारिणां चिन्तनम् आसीत् । किन्तु, मयि आरोपिताः अपराधाः सर्वेऽपि लण्डन् नगरे एव विचारणीयाः, यतः अहं तदा लण्डन्-नगरे एव आसम् इति सावरकरः अक्तवान् । आङ्ग्लसर्वकारेण तत् न अङीकृतम् । सावरकरं बन्दिनं कृत्वा मोरिया इति नौकया भारतं प्रैषयत् च । मोरियानौकायां बन्दीरूपेण भारतं प्रति आगमनसमये एव फ्रान्स् देशस्थे मार्सेल्स् इति नौकाश्रये नौका कीलिता स्थिता । तदा शौचालयस्य रन्ध्रतः बहिः समुद्रे कूर्दित्वा सावरकरः तरन् पलायितुं प्रयत्नं कृतवान् । शौचालयस्य रन्ध्रतः बहिरागमनसमये तस्य शरीरे अनेकस्थानेषु विदारणेन रक्तं सृतम् । शिरसि अपघाताः अभवन् । रक्तसिक्तशरीरेण समुद्रस्य लवणजले तरन् आसीत् तदा तस्य शरीरे सर्वत्र बाधा । तथापि तां सहमानः एव सः तरन् फ्रान्स् भूभागे पदं निक्षिप्तवान् । पट्टणे प्रवेशार्थं प्रयतमानः नौकाश्रयस्य कुड्यम् आरोहत् । तदा रक्षकनौकायां सिध्दाः आङ्ग्लेयरक्षकाः सावरकरं पुनः बध्दवन्तः । फ्रान्स् भूभागे पदं निक्षिपन्तं मां बन्धुम् अधिकारः फ्रान्स् आरक्षकाणाम् अस्ति, न तु आङ्ग्लेयारक्षाणाम् इति सावरकरः गर्जितवान् । किन्तु तस्य वचनानि श्रोतुं न सिध्दाः आसन् आङ्ग्लाधिकारिणः । तं बध्द्वा पूर्वतः अपि अप्रमत्ताः भारतदेशम् आनीतवन्तः । आङ्ग्लरक्षकैः यद्यपि सः पुनर्बध्दः, तथापि सावरकरस्य अद्भुतं साहसमेतत् विश्वेतिहासे अपूर्वयत्नत्वेन परिगणितम् ।

आजन्मकारावासदण्डद्वयम्[सम्पादयतु]

भारतदेशे सावरकरविषये न्यायविचारणं कृतम् । तस्मिन् अपराधद्वय्म् आरोपितम् । प्रथमः- क्रान्तिद्वारा सः भारतदेशे आङ्ग्लराज्यं समूलमुन्मूलयितुं प्रयतते इति, द्वितीयः- आङ्ग्लाधिकारिणः संहर्तुं जनान् प्रेरयतीति च । एतस्य अपराधद्वयस्य दण्डरुपेण पृथक् पृथक् आजन्मकारावासद्वयम् विहितम् । आङ्ग्लाधिकारिभिः विहितं दण्डद्वयं श्रुत्वा सावरकरः " अहो ! आङ्ग्लेयानामपि हिन्दूनां पुनर्जन्मसिध्दान्ते विश्वासः अस्तीत्यत्र एतद् दण्डद्वयविधानमेव निदर्शनम् ।" इति छलोक्त्या व्याख्यातवान् । सावरकरस्य सर्वस्वं सर्वकारेण स्वायत्तीकृतम् । कारावासदण्डद्वयम् इत्यस्य अर्थः अण्डमाने पञ्चाशद्वर्षपर्यन्तं कठिनदण्डनानि अनुभोक्तव्यानीति । अण्डमान्-कारागारः दुर्भरयातनानां, पीडानां विषये ख्यातः । अण्डमान् पूर्वसमुद्रे स्थितः द्वीपविशेषः । तत्रत्यः कारागारः अत्यन्तकठिनदण्डनानां केन्द्रम् इति सर्वविदितम् । तत्र प्रेषितैः बन्दिभिः अनेकविधानि दण्डनानि एककाले अनुभोक्तव्यानि भवन्ति । तत्र तैलयन्त्रे वृषभस्थाने सावरकरं बध्द्वा आटयन्तः तिलं निष्पेषयन्ति स्म । प्रातः आरभ्य सायं पर्यन्तं यन्त्रम् आकृष्य सावरकरस्य शरीरं श्रान्तं भवति स्म । निर्णीतपरिमाणस्य तैलस्य निष्कासनसमये करतलं विदीर्णं भवतु, रक्तं स्रवतु नाम, तैलनिष्कासनानन्तरं तन्तुभिः निर्णीतपरिमाणा रज्जुः अपि तेन अवश्यं वयनीया भवति स्म । अन्यथा कशाघाताः अनुभोक्तव्याः भवन्ति स्म ।

भ्रात्रोः कारागृहवासः[सम्पादयतु]

एकस्मिन् दिने सावरकरः अग्रजं गणेशसावरकरं दूरतः अपश्यत् । ततः पूर्वमेव गणेशसावर्करः तत्र दण्डनम् अनुभवति स्म । सः स्वस्य अनुजः विनायकः अपि तत्रैव अस्तीति न जानाति स्म । सोदरौ परस्परं अपश्यताम् । किन्तु परस्परं भाषितुम् अवकाशः नासीत् । कस्यचन रक्षकभटस्य साहाय्येन बाबूरावः विनायकं प्रति एकस्मिन् पत्रे " तात्या ! (अनुज !) भवानपि आगतवान् वा ? तर्हि बहिः क्रान्तिकार्याणि के पश्यन्ति ? " इति स्वसन्देहं लिखित्वा प्रेषितवान् । तस्य समाधानरूपेण " एषः विधिनिर्णयः । निर्भयेन कष्टानां स्वागतीकरणमेव सामर्थ्यस्य निरूपणमिति वदन्ति खलु आर्याः । भवान्, अहं, बहिः स्थिताः अस्माकं सुहृदश्च इदानीं तदेव निरूपयामः ।" इति लिखित्वा प्रेषितवान् विनायकः । रक्षकद्वारा सन्देशपत्रप्रेषणं मुहुः साध्यं न भवति स्म । अतः सावरकरसोदरौ एकं नूतनं मार्गं आविष्कृतवन्तौ । तौ स्वहस्तस्थौ निगडौ एकस्योपरि एकं ताडयन्तौ तत्र जातेन शब्देन स्वीयभावान् परस्परं श्रावयन्तौ आस्ताम् । अनन्तरकाले एषः निगडशब्दः एव भाषारूपेण परिवर्तितः । एतया साङ्केतिकभाषया सर्वे बन्दिनः परस्परभाषणम् आरब्धवन्तः ।

समाजसेवा[सम्पादयतु]

सहबन्दिनः घातुकाः अथवा चोराः वा भवन्ति चेदपि सावरकरः तैः सह प्रेम्णा सादरं व्यवहारति स्म तेषां कृते अक्षरज्ञानं जनयति स्म । भारतदेशेतिहासम्, तस्य गौरवञ्च अधिकृत्य तेषां कृते कथाः कथयति स्म । बन्दिषु हिन्दवः, महम्मदीयाः च आसन् । प्रमादेन हिन्दुबन्दी महम्मदीयबन्दिनः स्थालिकां स्पृशति चेत् अन्यसोदरबन्दिनः सर्वे तं बहिष्कुर्वन्ति स्म । फलतः सः हिन्दुः महम्मदीयः भवति स्म । कारागाराधिकारिणः यथेच्छं हिन्दुबन्दिभिः कठिनकार्याणि कारयन्ति स्म महम्मदीयबन्दिनः दैनन्दिनकार्याणि न कुर्वन्ति चेदपि तान् न दृष्टवन्त इव तेषु मौनेन अकठिनं व्यवहरन्ति स्म। कारागारस्य एतां स्थितिं परिवर्तयितुं सावरकरः उद्यतः अभवत् ।

महम्मदीयानां स्थालिकास्पर्शमात्रेण हिन्दुत्वं नश्यतीति भावना केवलं मूर्खता एव इति तान् अनुनीतवान् । एतया अपभावनया महम्मदीयरूपेण परिणतान् हिन्दून् पुनः हिन्दून् कृतवान् । कारागारे महम्मदीयानां कृते नमाज् (प्रार्थनां) कर्तुम् अनुमतिः आसीत्, हिन्दूनां कृते तादृशः अवकाशः कोऽपि नासीत् । सावरकरः हिन्दुबन्दिनां कृते श्लोकान्, प्रार्थनाः, भजनानि पाठितवान् । तेषाम् अपि प्रतिदिनं पारायणं कर्तुम् अवसरम् अनुमतिञ्च सम्पादितवान् । प्रथमं कारागाराधिकारिणः हिन्दूनाम् एताम् इच्छाम् मतधर्मीयामुक्त्वा नाङ्गीकृतवन्तः । सावरकरः सत्याग्रहं कृत्वा महम्मदीयैः समानतया हिन्दूनां कृते अपि एतम् अधिकारं साधितवान् । सावरकरस्य एतेन प्रयत्नेन हिन्दुबन्दिनां मध्ये न्यूनाधिकताभावभेदाः, जातिमतदुरभिमानानि, वैषम्याणि च अपगतानि । सावरकरः स्वदण्डनम् अनुभवन् लब्धे स्वल्पे समये सहबन्दिनां श्रेयसे निर्विरामं चिन्तयति स्म ।

कृतयः[सम्पादयतु]

सावरकरः जन्मतः कविः । कारागारे मनः क्लेशम् अनुभवन्नपि सः तूष्णीं न उपविष्टवान् । अत्यन्तस्फूर्तिप्रदानां रचनानां निर्माणे मनः लग्नं कृतवान् । शरीरं तु बध्दमासीत्, मनः, बुध्दिः, प्रज्ञा, कल्पनाशक्तिः च तस्य स्वतन्त्राः एव आसन् । शङ्कुसहायेन कारागारभित्तिषु काव्यरचनां करोति स्म सः । लिखितानि पद्यानि कण्ठस्थानि करोति स्म। तानि यदा बुध्दौ स्थिराणि भवन्ति स्म तदा अन्यान् अंशान् लिखति स्म । एवं सः अण्डमान्कारागरे एव ’कमलगोमन्तक’, ’महासागर’ इत्यादीनि अनेकानि काव्यानि रचितवान् । भूमेः सुगन्धस्य प्रसारकाणि काव्यानि अनेकानि भवन्तु नाम, अण्डमानकारागारभित्तिशिलानां सुगन्धस्य प्रसारकाणि वीरसावरकरस्य काव्यानि तु अपूर्वाण्येव ।

रत्नगिरौ निर्बन्धः[सम्पादयतु]

अण्डमान् परिसरप्रभावेण, कारागारे दीयमानेन निकृष्टेन अन्नेन च सावरकरस्य स्वास्थ्यम् अत्यन्तं क्षीणम् । ईशवीये १९१९ तमे वर्षे अनुजः नारायणरावः, पत्नी यमुना च सावरकरं द्रष्टुम् अण्डमान् आगतवन्तौ । तयोः आगमनेनैव अग्रजस्य बाबूरावस्य पत्नी दिवाङ्गता इति शोकवार्ता अपि आगता । पत्नी मृता इति वार्तां बाबूरावः आपि तदैव ज्ञातवान् । कांश्चन क्षणान् एव मेलितुं लब्धः उत्तमः अवकाशः आनन्दम्, अनुनयञ्च तेषां न अदात्, किन्तु आवेदनां, दुःखमेव अवर्धयत् । सावरकरस्य अस्वास्थ्यं श्रुत्वा भारतप्रजासमूहेन मनोविकलता प्राप्ता । तं विमुक्तं कर्तुं देशस्य चतसृभ्यः दिग्भ्यः सर्वकारस्य पीडनम् अभवत् । अन्ततः सर्वकारः अङ्गीकृतवान् । फलतः ईशवीये१९२१तमे वर्षे अण्डमानतः सोदरद्वयं भारतदेशम् आनीतवान् । किञ्चित्कालं कोलकात्ताकारागारे स्थापयित्वा ईशवीये १९२२तमे वर्षे उभयो: अपि मोचनं कृतं सर्वकारेण । किन्तु वीरसावरकरस्य रत्नगीरिजनपदतः बहिः गमनं निषिध्दम् । राजतन्त्रकार्येषु भागः न वहनीयः इत्यादिष्टम् । वीरसावरकरः ईशवीय १९२४वर्षतः १९३७वर्षपर्यन्तं रत्नगिरिजनपदे स्वगृहे एव स्थितवान् । सावरकरस्य विवाहः यद्यपि ईशवीये १९०१तमे वर्षे सम्पन्नः, तथापि २४,२५ वर्षपर्यन्तं प्रथमं लण्डनन् नगरे अनन्तरं अण्डमाने च सः एकाकी एव जीवनं यापितवान् । इदानीमेव तस्य पुनर्जीवनम् आरब्धवान् सः । तस्य प्रभाता इति पुत्री, अनन्तरं विश्वास: इति पुत्रश्च जातौ । सर्वकारस्य अनुमतिं प्राप्य सावरकरः एकवारं स्वस्य बाल्यकालीननगरं नासिकं गतवान् । तत्र प्रजाः तम् आदरपूर्वकं स्वागतीकृतवत्य: । उत्तमां सम्मानसभामपि आयोजितवत्य: । एकलक्षरूप्यकाणां निधिमपि तस्मै समर्पितवत्य:+ । सावरकरः तं निधिं समाजसेवायै अर्पितवान् । सः स्वीयं जीवनमपि समाजसेवायै अर्पितवान् ।

एकताभावः[सम्पादयतु]

अस्पृश्यता हिन्दुसमाजस्य एकः कलङ्कः । अस्पृश्यता, न्यूनाधिकता इत्यादिभावनाभिः हिन्दुसमाजः भेदम् अभजत । अनेके हिन्दुधर्मं त्यक्त्वा परधर्मं भजन्ते स्म । अतः अस्पृश्यतां विरुध्द्य समरः करणीयः इति सङ्कल्पितवान् सावरकरः । सत्याग्रहं कृत्वा सः रत्नगिरिस्थे विठलेश्वरदेवालये अस्पृश्यानां प्रवेशं कल्पितवान् । रत्नगिरौ पतितपावनमन्दिरं निर्माय श्रीशङ्कराचार्यैः तस्य प्रारम्भोत्सवं कारितवान् । अस्पृश्यतां विहाय सर्वे हिन्दवः एकत्र मिलित्वा सहभोजनं कर्तुं कार्यक्रमान् आयोजितवान् । विद्यालयेषु छात्राः भेदभावं विस्मृत्य एकत्र उपवेष्टुम् अवकाशं कल्पयन्तु इति उपाध्यायान् प्रार्थयति स्म सः । ’अस्माकं बन्धुः यः अस्पृश्यः कृतः तं दूरीकृत्य शत्रुं न कुर्वन्तु’ इति प्रजानाम् अवगमनानुगुणं विशदीकृत्य बोधयति स्म सः । एवं हिन्दुधर्मं त्यक्त्वा अन्यमतधर्मेषु गतवतः जनान् शुध्दिकार्यक्रमैः पुनः हिन्दुधर्मे आनेतुं प्रयत्नमपि करोति स्म । हिन्दुधर्मे स्थितान् अनेकान् दोषभावान् अपाकर्तुं सावरकरः प्रयत्नं कृतवान् । भारतीयभाषासु प्रविष्टानाम् अनेकेषाम् आङ्ग्लपदानां, तेषां प्रयोगाणाञ्च अपाकरणेन भाषाशुध्दिकार्यमपि आरब्धवान् ।

हिन्दुमहासभा[सम्पादयतु]

ईशवीये १९३८तमे वर्षे सावरकरे स्थितं निषेधद्वयम् अपगतम् । सः राजकीयतन्त्रे प्रविष्टः । हिन्दुमहासभायाः अध्यक्षरूपेण चितः । स्वतन्त्रतायाः पूर्वं निजामस्य हैदराबादराज्ये हिन्दवः सर्वदा अत्याचारपीडिताः भवन्ति स्म । एतान् अत्याचारान् विरुध्द्य सावरकरः उद्यमम् आरब्धवान् । अधिकसङ्ख्यया हिन्दुयुवकान् भारतीयसेनायां प्रवेष्टुम् सः प्रचारं करोति स्म| भारतात् विभक्तं पाकिस्थानं पृथग् भवेदिति महम्मदीयानाम् इच्छां सः तीव्रं आक्षिपति स्म । ईशवीये १९४७तमे वर्षे भारतेन स्वातन्त्र्यं प्राप्तम् । पाकिस्थानस्य आविर्भावेण कोटिशः हिन्दवः भारतदेशं प्रति शरणार्थिरूपेण आगताः । सहस्रात् वर्षेभ्यः अस्यामेव भूमौ निवसन्तः जनाः स्वदेशे एव विदेशीया भूत्वा बहिष्कृताः सन्तः मातृदेशे एव अन्यत्र शरणार्थिनः सञ्जाताः । तेषाम् आर्तनादैः, दीनदुःखगाथाभिः अव्यथितं हृदयमेव नासीत् ।सावरकरस्य मनः एतादृशसन्दर्भे पर्यतप्यत इति तस्य स्वाभाविकः विषयः । ईशवीये १९४८तमे वर्षे गान्धीमहाभागस्य हननमभवत् । भारतसर्वकारः सावरकरं बध्द्वा तस्य कारणं सः एवेति विचारणं अकरोत् । विचारणे सः निर्दोषी, निष्कलङ्कः इति निरूपितः ।

स्वातन्त्र्यवीरसावरकरः[सम्पादयतु]

ईशवीयं १९४७तमं वर्षम् भारतस्य अविस्मरणीयं दिनम्। स्वतन्त्रभारतदेशस्य प्रथमस्वातन्त्र्यदिनोत्सवः सवैभवं सम्पन्नः । भारतराजधान्यां देहल्यां समायोजिते महोत्सवे तस्मिन् महानायकः विनायकसावरकरः सगर्वं भागं गृहीतवान् । अत्यन्तावेशेन प्रथमस्वातन्त्र्यसाधनसङ्ग्रामम् अधिकृत्य विवृण्वन् स्वीयभाषणे " भारतमं सर्वदा स्वतन्त्रमेव भवेत्, तदर्थम् आयुधसामग्रीसम्पादनम् अत्यावश्यकम् " इति प्रतिपादितवान् । ईशवीयं १९६० तमं वत्सरम् सावरकरस्य जीवने अविस्मरणीयम् । सावरकरः स्वस्मै विहितं आजन्मकारावासदण्डद्वयं यदि अन्वभविष्यत्, तर्हि तस्य अस्मिन् १९६०तमे वर्षे एव विमुक्तिः अभविष्यत् । अतः सावरकरस्य अभिमानिनः एतस्मिन् १९६०तमे वत्सरे डिसेम्बरमासस्य २४ दिनाङ्के ’मृत्युञ्जयदिनम्’ आचरितवन्तः । तेन साधितान् विजयान् पुरस्कृत्य विनायकसावरकरम् वैभवपुरस्सरं सम्मानितवन्तः । अण्डमाने वीरसावरकरः बन्दिरूपेण यत्र स्थापितः, तस्मिन प्रकोष्ठे तस्य ज्ञापनाय भारतसर्वकारेण एकं फलकं प्रतिष्ठापितम् । तत् प्रकोष्ठं जातीयस्मारकचिह्न्म् इति प्रकटितम् । ईशवीये १९६४तमे वर्षे महाराष्ट्रसर्वकारः, भारतसर्वकारश्च तस्मै ’ अप्रतिहतस्वातन्त्र्यवीरः’ इति बिरुदं प्रदाय सत्कृतवन्तौ ।

भारतेतिहासे षट् स्वर्णपत्राणि[सम्पादयतु]

विनायकरावः वृध्दः सञ्जातः । तथापि तस्य मेधा, विवेचनाशक्तिः च तीक्ष्णा एव आसीत् । क्षीणे वयस्यपि तस्य रचनाकार्ये रुचिः न गता । ’भारतदेशेतिहासे षट् स्वर्णपत्राणि’ इति नाम्ना एकं ग्रन्थं स विरचितवान् । तत्र भारतगौरववर्धकाः काश्चन घटनाः वर्णिताः । एताभिः भारतीयेषु स्वाभिमानः जागरणीयः इति सः चिन्तितवान् । विशालसागरस्यापि सीमा भवति, तां वेला इति वदन्ति । सागरः एतां वेलाम् अतिक्रामति चेत् प्रलय एव । एतद् उपमानम् उदाहरन् सः गभीरम् आलोचनीयमिति एकं विषयं प्रतिपादितवान् । भारतीयानां मनस्सु विशालता, क्षमा, शत्रूणां विषये उदारता इत्यादीनां सद्गुणानामपि सीमा आवश्यकी इति। एतं विषयं सर्वे जानीयुः इति तस्य उद्देशः । अतः एतद् अस्माभिः अवश्यम् आलोचनीयम्, आचरणीयम् च ।

स्वतन्त्रतादेव्याः सतताराधकः[सम्पादयतु]

सावरकरस्य जीवनं सर्वमपि सङ्घर्षमयम् आसीत् । सः युध्दवीरः? कविवीरश्च तस्य प्रतिभा अनेकक्षेत्रेषु यद्यपि प्रस्फुटा तथापि सदा तस्य प्राथमिकं चिन्तनन्तु एकमेव । सः स्वतन्त्रतादेव्याः आराधकः । तां देवीं सः मनःसिंहासने प्रतिष्ठापितवान् । मुनयः ऋषयश्च मोक्षः इति यद् वदन्ति स्म योगिनः वेदान्तिनश्च यद परब्रह्म इति भावयन्ति स्म तदेव तत्त्वं सावरकरः स्वातन्त्र्यलक्ष्मीरिति स्वहृदये सथापयित्वा आजीवनं कीर्तितवान् । तस्य प्रतिभापाटवानि यस्यां कस्यामपि दिशि प्रवहन्तु नाम, तेषाम् अन्तिमलक्ष्यं तु स्वातन्त्र्यसाधनमेव । सः कष्टानि बहूनि अनुभूतवान् तेषां परिणामः स्वातन्त्र्यमेव । तस्य आराध्यदेवी स्वतन्त्रता । तस्य अभिप्रायानुसारम् उन्नतम्, उत्तमेषु उतमम्, उदातेषु उदात्तं, श्रेष्ठेषु श्रेष्ठं यत्किमपि अस्ति चेत् तत् स्वातन्त्र्यमेव । वीरसावरकरः देशस्वातन्त्र्यार्थमेव जीवितवान् । तस्य प्राप्ते: अनन्तरं रक्षणार्थं परितप्तवान् । अत एव तस्य नाम ’ स्वातन्त्र्यवीरसावरकर’ इति प्रख्यातम् अमरञ्चाभवत् । तेनानुष्ठितः नित्यगायत्रीमन्त्रः -- जयोऽस्तु ते श्रीमहन्मङ्गले शिवास्पदे शुभदे ! स्वतन्त्रते भगवति ! त्वामहं यशोयुतां वन्दे !!

जीवनकार्यं समाप्तम्[सम्पादयतु]

सावरकरस्य अग्रजः गणेशसावरकरः ईशवीये १९४५तमे वर्षे , अनुजः नारायणसावरकरः १९५०तमे वर्षे, पत्नी यमुनाबायी १९६४तमे वर्षे स्वर्गवासिनः अभवन् । पुत्र्याः प्रभातायाः विवाहोऽपि सम्पन्नः । जीवने कार्याणि सर्वाणि सम्पूर्णतया, सफलतया समाप्तानि । शरीरमपि तस्य श्रान्तं शिथिलमासीत् । स्वास्थ्यमपि क्षीयमाणमासीत् । तस्य जीवने अवशिष्टाः आशयाकाङ्क्षाः केऽपि न आसन् । हिन्दूनां हिन्दुशब्ददात्री सिन्धुनदी अन्यदेशं गता इति, हिन्दूनां पवित्रवेदानां प्रसादकः आर्यावर्तप्रदेशः भारतदेशाद् विभक्तः पाकिस्थान् नाम्ना अन्यदेशः जातः इति विषयद्वयं तु सः न सहते स्म । एतत् त्यक्त्वा तस्य अन्याः आशाः आकाङ्क्षाः नैव आसन् । सर्वविधां तृप्तिं सः अनुभूतवान् । जीवनस्य अन्तिमदिनेषु आहारं त्यक्त्वा स्वस्य ८६तमे वर्षे ईशवीये १९६६त्मे वर्षे फेब्रवरीमासे २६ दिनाङ्के इहलोकलीलाभ्यः विमुक्तिं प्राप्तवान् विनायकदामोदरसावरकरः।

"http://sa.wikipedia.org/w/index.php?title=विनायक_दामोदर_सावरकर&oldid=268594" इत्यस्माद् पुनः प्राप्तिः