विमलादेवी (किरीटकोनम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एतत् क्षेत्रं भारतदेशस्य पश्चिमबङ्गालराज्ये विद्यमानेषु शक्तिपीठेषु अन्यतमम् ।

सम्पर्कः[सम्पादयतु]

मुर्शिदाबादमण्डलस्य लालबाग् कोर्ट् रेलनिस्थानकतः ३ की.मी. दूरे अस्ति । अजीमगञ्जतः अपि रेलयानेन अत्र प्राप्तुं शक्यम् ।

वैशिष्ट्यम्[सम्पादयतु]

दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः किरीटम् अस्मिन् स्थाने पतितम् इति ऐतिह्यम् अस्ति । अत्रत्या देवी किरीटेश्वरी अथावा विमलादेवी इति नाम्ना पूज्यते । अत्रत्यः शिवः भैरवः संवर्तः इति च नाम्ना पूज्यते । अत्र देव्याः विग्रहः नास्ति । रक्तवर्णस्य काञ्चित् शिलां देवी इति पूजयन्ति । प्राचीनं देवालयम् अक्बरः निर्मितवान् इति केषाञ्चित् मतम् । अष्टादशे शतके अत्र अनेके ऋषयः मुनयः तपः आचरितवन्तः साधनानि कृतवन्तः च । राजा राजवल्लभः यदा मीर् जाफरस्य हननं कारितवान् तदा अत्रत्यशिवलिङ्गं स्वयं भग्नम् अभवत् इति ज्ञायते । मीर् जाफरः यदा मरणसन्नद्धः आसीत् तदा देव्याः किरीटेश्वर्याः पादोदकम् आनाय्य सेवितवान् आसीत् इति कथा श्रूयते ।