विरुदुनगरमण्डलम्
| विरुदुनगरमण्डलम् விருதுநகர் மாவட்டம் |
|||||||
| — मण्डलम् — | |||||||
|
|
|||||||
|
|
|||||||
| निर्देशाङ्काः | |||||||
| देशः | भारतम् | ||||||
| राज्यम् | तमिळ्नाडु | ||||||
| उपमण्डलानि | अरुप्पुकोट्टै, करियपट्टिः, राजपाळैयम्, सातूरुः, शिवकाशी, श्रीविल्लिपुत्तूरुः, तिरुच्चूलिः, विरुदुनगरम् | ||||||
| केन्द्रप्रदेशानि | विरुदुनगरम् | ||||||
| Collector | एम् बालाजि, IAS | ||||||
| Taluks | 8 | ||||||
| Panchayat Unions (Blocks) | 11 | ||||||
| Municipalities | 7 | ||||||
| व्यावहारिकभाषा(ः) | तमिळ् | ||||||
|---|---|---|---|---|---|---|---|
| समयवलयः | IST (UTC+05:30) | ||||||
|
सङ्केताः
|
|||||||
| जालस्थानम् | विरुदुनगरमण्डलस्य व्यावहारिकजालपुटम् | ||||||
विरुदुनगरमण्डलं (तमिऴ्:விருதுநகர்மாவட்டம் आङ्ग्लम्: Virudhunagar District) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम्। अस्य केन्द्रस्थानं विरुदुनगरपत्तनम्। एतन्मण्डलं प्राक् कर्मवीरकामराजमण्डलम् इतिज्ञातम् आसीत् । इदं मण्डलं तिरुनेल्वेली - मधुरैमण्डलाभ्यां भागान्स्वीकृत्य निर्मितम्।
अन्तर्विषयाः |
भौगोलिकम् [सम्पादयतु]
विरुदुनगरमण्डलस्य विस्तारः३४४५.७३चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे शिवगङ्गामधुरैमण्डलेस्तः, आग्नेयदिशि तिरुनेल्वेलीमण्डलम् अस्ति, पश्चिमे केरलराज्यम्, वायव्ये तेनीमण्डलं च अस्ति।
जनसंख्या [सम्पादयतु]
२०११वर्षस्य जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या १,९४३,३०९। भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २४२ तमंस्थानम्। अस्मिन्मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ४५४ (११८०प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेःप्रमाणं १०.९६% आसीत्। विरुदुनगरे पुं-स्त्री अनुपातः १०००:१००९ अस्ति, साक्षरताप्रमाणंच ८०.७५% ।
उपमण्डलानि [सम्पादयतु]
अस्मिन्मण्डले अष्ट उपमण्डलानि सन्ति
- १. अरुप्पुकोट्टै
- २. करियपट्टिः
- ३. राजपाळैयम्
- ४. सातूरुः
- ५. शिवकाशी
- ६. श्रीविल्लिपुत्तूरुः
- ७. तिरुच्चूलिः
- ८. विरुदुनगरम्
कृषिः वाणिज्यं च [सम्पादयतु]
जनसंख्यायाः बहुभागः कृषिकार्ये उद्यमेषु च रताः । विरुदुनगरे तैलोद्यमः कार्पासोद्यमः च अभिवृद्धः अस्ति । विरुदुनगरात् २०किलोमीटर् दूरे विद्यमानं शिवकाशीपत्तनं स्फोटकनिर्माणेन, मुद्रणालयैः च प्रसिद्धम् । अरुप्पुकोट्टै तन्तुवायैः प्रसिद्धम् अस्ति ।
वीक्षणीयस्थलानि [सम्पादयतु]
श्रीविल्लिपुत्तूरुः [सम्पादयतु]
इदं पत्तनं मधुरैतः ७४ किलोमीटर् दूरे अस्ति । श्रीवैष्णवानां पवित्रेषु १०८ दिव्यदेशेषु इदम् अपि अन्यतमम् । इदं श्रीवैष्णवसम्प्रदायस्य प्रसिद्धसतोः द्वयोः जन्मस्थानम् – पेरियाऴ्वार् तथा आण्डाळ् अत्र जातौ । अस्य पत्तनस्य प्रमुखः देवालयः आण्डाळ् देवालयः । आराध्यदेवः वटपत्रशायी । अस्य देवालयस्य ११-स्तरीयं गोपुरं १९२ पादोन्नतम् अस्ति । तमिऴ्नाडुसर्वकारस्य अधिकृतमुद्रायाम् इदम् एव गोपुरं चिह्नितम् अस्ति ।
शेन्बागतोप्पु चिक्रोडसंरक्षणकेन्द्रम् [सम्पादयतु]
श्रीविल्लिपुत्तूरुतः ८ किलोमीटर् दूरे विद्यमानम् इदम् अरण्यम् । इदं पश्चिमघट्टानां भागः । अत्र ‘ग्रिज़ल्ड् स्क्विरल्’ (Grizzled Squirrel) इत्याख्यस्य चिक्रोडप्रभेदस्य संरक्षणकेन्द्रम् अस्ति ।
बाह्यसम्पर्कतन्तुः [सम्पादयतु]
उद्धरणे दोषः : <ref>शृङ्खला विद्यते, किन्तु <references/> शृङ्खला न प्राप्ता