विलियं हार्वे

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
विलियं हार्वे

विलियं हार्वे
जननम् 1 April 1578
Folkestone
मरणम् फलकम्:Dda
Roehampton
देशीयता English
कार्यक्षेत्राणि Medicine
Anatomy
संशोधनमार्गदर्शी Hieronymus Fabricius
विशयेषु प्रसिद्धः Systemic circulation
हस्ताक्षरम्

(कालः – ०१. ०४. १५७८ तः ०३. ०६. १६५७)

अयं विलियं हार्वे (William Harvey) शरीरे रक्तस्य परिचलनक्रमस्य संशोधकः । एषः १५७८ तमे वर्षे एप्रिल्मासस्य प्रथमे दिनाङ्के इङ्ग्लेण्ड् देशस्य पोक्स्टोन् इति प्रदेशे जन्म प्राप्नोत् । अस्य पिता थामस् हार्वे पुरसभायाः अध्यक्षः आसीत् । अयं विलियं हार्वे केम्ब्रिड्ज्–विश्वविद्यालये पदविशिक्षणं समापयत् । तदनन्तरम् इटलीदेशं गत्वा तत्रत्ये पादुअ–विश्वविद्यालये अध्ययनं कृत्वा वैद्यपदवीं प्राप्नोत् । ततः पुनः लण्डन् नगरं प्रतिनिवृत्य वैद्यवृत्तिम् आरभत । अयं विलियं हार्वे गृहस्य अन्तरट्टम् एव प्रयोगालयं कृत्वा वैद्यकीयान् प्रयोगान् अकरोत् । सः सजीवान् एव प्राणीन् प्रयोगार्थम् उपयुक्तवान् । हृदयस्य स्थाने शरीरस्य चर्म विदार्य हृदयस्य अध्ययनम् अकरोत् । ’हृदयं तदा तदा किञ्चित् कालं यावत् विश्रम्य पुनः कार्यारम्भं करोति । विश्रामावसरे हृदयं कठिनं भवति । पुनः कार्यारम्भे मृदु भवति । हृदयं यदा कठिनं भवति तदा लघु भवति । यदा मृदु भवति तदा च बृहत् भवति । तदवसरे हृदयस्य वर्णः अपि परिवर्तते । यदा हृदयं लघु कठिनं च भवति तदा हृदयं श्वेतवर्णीयं भवति । यदा च बृहत् मृदु च भवति तदा रक्तवर्णीयं भवति ।’ इति अंशान् अयं विलियं हार्वे संशोधितवान् । बहुवारं वीक्षणस्य अनन्तरं तेन ज्ञातं यत् हृदयं नाम कश्चन मांसपिण्डः । यदा हृदयं लघु भवति तदा तत् रक्तं बहिः सम्प्रेष्य श्वेतवर्णीयं भवति । यदा च रक्तं हृदयं प्रविशति तदा तत् बृहत् रक्तवर्णीयं च भवति । अतः हृदयं किञ्चित् जलयन्त्रम् इव । रक्तं स्वीकृत्य पुनः बहिः प्रेषयति ।


अयं विलियं हार्वे यदा हृदयं जलयन्त्रम् इव इति ज्ञातवान् तदनन्तरं शरीरे रक्तस्य सञ्चारम् अभ्यस्तवान् । ’शुद्धरक्तनाडीषु रक्तं यदा प्रवहति तदा यदि आघातः भवति तर्हि रक्तम् अत्सवत् बहिरागच्छति । मलिनरक्तनाडीषु यदा प्रवहति रक्तं तदा आघातः भवति चेत् तथा न भवति’ इति विषयं प्रथवारं संशोधितवान् । रक्तनाडीषु प्रवहतः रक्तस्य प्रमाणम् अपि अयं विलियं हार्वे संशोधितवान् । प्रतिवारम् अपि हृदयं बौन्सद्वयमितं रक्तं प्रवाहयति । एषा प्रक्रिया प्रतिनिमेषं ७२ वारं प्रचलति । हृदयं प्रतिनिमेषम् एक-ग्यालन् अपेक्षया अधिकं, प्रतिदिनं १५०० ग्यालन् च रक्तं प्रवाहयति । रक्तं हृदयात् बहिः गत्वा पुनः हृदयम् एव प्रतिनिवर्तते इत्यपि प्रयोगाणां द्वारा संशोधितवान् अयं विलियं हार्वे । शुद्धाः तथा अशुद्धाः च रक्तनाड्यः एकस्याम् एव दिशि रक्तं प्रवाहयन्ति, रक्तं पुनः तेनैव मार्गेण प्रतिगन्तुं न शक्नोति इत्यपि सः संशोधितवान् । अस्य विलियं हार्वेस्य एतेषां प्रयोगाणां कारणतः एव हृदयस्य चिक्त्सा आरब्धा ।


अण्डेषु कुक्कुटशावकानां वर्धनं, सन्तानोत्पत्तिः, श्वासोच्छ्वासः इत्यादिषु विषयेषु अपि विलियं हार्वे संशोधनम् अकरोत् । जीवनस्य अन्तिमकालं सः एकान्ते वैज्ञानिकाध्ययनैः अयापयत् । १६५७ तमे वर्षे जून् मासस्य ३ दिनाङ्के सन्धिवातस्य तथा मूत्रकोशस्य पाषाणरोगस्य च कारणतः विलियं हार्वे दिवं गतः ।

"http://sa.wikipedia.org/w/index.php?title=विलियं_हार्वे&oldid=262949" इत्यस्माद् पुनः प्राप्तिः