विवाहाग्निपरिग्रहसंस्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


आश्रमेषु गृहस्थाश्रमः विशिष्टः अस्ति । अस्मिन् प्रवेशार्हता विवाहसंस्कारेण भवति । तस्मिश्च संस्कारे अग्निः प्रधानदेवता । तस्य परिग्रहः एव अस्मिन् संस्कारे विशिष्टं कर्म । धर्मशास्त्रानुगुणम् आह्निकाचारयोः महत्त्वपूर्णं स्थानम् आस्ते । गृहस्थानां प्रमुखे कर्तव्ये आयाति अग्निपरिग्रहः । अग्न्याथानं नित्यकर्म भवति गृहस्थस्य । वेदाध्ययनम् अग्नौ समिधनिक्षेपणं वास्तविकः यज्ञः अस्ति ।

गृहस्थस्तु षडग्निः स्यात्पञ्चाग्निचतुरग्निकः ।
स्याद् द्वित्र्यग्निरथैकाग्निः नाग्निहीनः कथञ्चन ॥

इति स्मृत्यर्थसारस्य (पृ १४) कथनानुगुणं गृहस्थः कथमपि अग्निहीनः न स्यात् । यः आहवनीयः गार्हपत्य-दक्षिणाग्निभिः औपासनं, सभ्यं, लौकिकं च अग्निं साधारणाग्नीन् स्थापयति सः षडग्निः इति कथ्यते । यस्य च त्रेता, औपासनसभ्यगनयोः भवन्ति स पञ्चाग्निः इत्येवं कथ्यते ।
यश्च त्रेतौपासनाग्नीन स्थापयति सः चतुरग्निः केवलम् औपासानं लौकिकं चाग्निं स्थापयति सः द्व्यग्निः इति उच्यते । यश्च लौकिकाग्निं स्थापयति सः एकाग्निरिति । स्व-स्व वेदशाखायाः गृह्यसूत्रानुगुणम् औपासनाग्नौ कुर्वन्ति स्म ।

सम्बद्धाः लेखाः[सम्पादयतु]