विशिष्टाद्वैतवेदान्तः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
रामानुजाचार्यः

विशिष्टाद्वैतवेदान्तः (Vishishtadvaita) त्रिषु वेदान्तेषु अन्यतमः । रामानुजाचार्यः अस्य प्रवर्तकः विद्यते । अस्य सिद्धान्तस्य आधाराभूतानि प्रस्थानत्रयाणि । अतीवप्राचीनानाम् उपनिषद्विचारधाराणाम् अनुगुण्येन अयं सिद्धान्तः ’चिदचिद्विशिष्टम् एकं ब्रह्मतत्वम्’ अस्ति इति प्रतिपादितः । अस्मिन् सिद्धान्ते जीवात्मानां प्रकृतेः च सतत्वं स्वीकृतम् अस्ति । तथापि, ब्रह्मादीनमेव ब्रह्मतत्वं विना नभवन्ति । ब्रह्मवस्तूनः अपृथक्सिद्धानि विशेषणानि भवन्ति इति प्रतिपादितम् अस्मिन् । चेतनाचेतनविशिष्टः ब्रह्मा एकः एव इति स्फुटसिद्धान्तः । उपनिषद्प्रतिपाद्यः ब्रह्मवस्तु श्रीमन्नारायणः एव इति अस्य सिद्धान्तस्य अर्थः । अस्मिन् सिद्धान्ते प्रतिपादिता या ईश्वरभावना सा पाञ्चरात्रागमेषु प्रतिपादितस्य भागवतसम्प्रदायस्य अनुगुणम् अस्ति । अस्मिन् सिद्धान्ते पाञ्चरात्रागमौपदेशस्य उपनिषदामुपदेशस्य च समन्वयः दृश्यते । अतीवप्राचीनस्य अस्य सिद्धान्तस्य पुनस्समर्थनं भगवान् रामानुजाचार्यः कृतवान् । जीवः ब्रह्मापेक्षया प्रत्येकः सत्यः च इति प्रतिपादितम् अस्मिन् दर्शने । अस्य रामानुजाचार्यस्य अपेक्षया दक्षिणभारते जातः ’आळ्वासन्तः’ तमिळुभाषायां विद्यमानलोकोक्तिषु श्रीमन्नारायणस्य परत्वम्, जीवब्रह्मभेदम्, भगवदवताराणां सत्यत्वम्, मोक्षप्राप्त्यादि उपायञ्च उपदिष्टवान् आसीत् । 'द्राविडप्रबन्धाः' इति नाम्ना प्रसिद्धाः अस्य उपदेशाः ’तमिळुवेदः’ इत्येव अङ्गीकृताः सन्ति । अस्य वेदान्तस्य समर्थने ’तमिळुवेदस्य’ (अस्य उपदेशाः) मुख्यं पात्रम् अस्ति । अस्य सिद्धान्तस्य स्थापने प्रस्थानत्रयस्य प्रामुख्यता यथा वर्तते तथैव द्राविडवेदान्तस्यापि अस्ति । अतः ’उभयवेदान्तः’ इति अस्य सिद्धान्तस्य नामान्तरम् अपि श्रूयते ।

इतिहासः[सम्पादयतु]

विशिष्टाद्वैतस्य सिद्धान्तस्य समर्थने त्रयः आचार्याः मुख्याः । ते क्रमशः नाथमुनिः, यामुनमुनिः, रामानुजाचार्यः च भवन्ति । नाथमुनेः कालः क्रि.श.९ शतमानस्य उत्तरार्धम् इति । अनेन रचिताः ग्रन्थाः नैवोपलभ्यन्ते । यमनमुनिः क्रि.श. १०५० तमे संवत्सरे आसीत् । अयं नाथमुनेः पौत्रः भवति । अस्य सिद्धान्तस्य निर्दिष्टस्वरूपम् एषः एव दत्तवान् । आगमप्रामाण्यम्, सिद्धित्रयम्, गीतार्थसङ्ग्रहः, स्तोत्ररत्नादयः ग्रन्थाः अनेनैव रचिताः । अस्य समनन्तरं रामानुजाचार्यः अस्य मतस्य प्रचारं सुस्थापनञ्च कृतवान् । अस्य कालः क्रि.श. १०१७-११३७ (शतकमिति) भवति। अनेन रचिताः ग्रन्थाः श्रीभाष्यम्, वेदान्तसारः, वेदान्तदीपम्, वेदार्थसङ्ग्रहः, भगवद्गीताभाष्यादयः भवन्ति । एतैः ग्रन्थैः स्वोपदेशेन च एनं सिद्धानतं समर्थितवान् अस्ति रामानुजाचार्यः । अनेन यशोऽपि प्राप्तः । अतः अस्यैव सिद्धान्तस्य नाम ’रामानुजदर्शनम्’ इत्यपि ख्यातिः अस्ति । रामानुजाचार्यस्य समनन्तरं नैके दर्शनिकाः ग्रन्थान् रचितवन्तः । केचन ग्रन्थाः न प्राप्ताः। तथापि केचन विशिष्ठाः ग्रन्थाः उपलभ्यन्ते । ग्रन्थरचयितारः प्रसिद्धाः दार्शनिकाः च एते भवन्ति,

नाम कालः (क्रि.श)
श्रीवत्साङ्क मिश्रः १२ शतकम्
श्रीपराशरभट्टः क्रि.श १२००
वात्स्यवरदाचार्यः १३ शतकम्
सुदर्शनभट्टारकः १३ शतकम्
अत्रेयः रामानुजः १३ शतकम्
वेदान्तदेशिकः/श्रीमद्वेङ्कटनाथः क्रि.श १२६८-१३६९

श्रीसुदर्शनभट्टारकः श्रीभाष्यस्य "श्रृतप्रकाशिका" नामकं व्याख्यानं रचितवान् । रामानुजस्य अनन्तरकालीनेषु सुप्रसिद्धेषु सिद्धान्तप्रतिपादकेषु अन्यतमः वेदान्तदेशिकः इत्येव सुपरिचितः श्रीमद्वेङ्कटनाथः । अस्य समकालीनः "मेघनाचारिसूरि" नामकः दार्शनिकः ’नयद्युमणि’ नामकं व्याख्यानं रचितवान् । अस्मिन् अस्य सिद्धान्तस्य प्रमाणानि, प्रमेयाः च निरूपिताः सन्ति । क्रि.श.१६तमे शतके रङ्गरामानुजः उपनिषदानां व्याख्यानं कृतवान् । क्रि.श १७ तमे शतके ’श्रीनिवासनामकः’ ’यतीन्द्रमतदीपिका’ नामकं पुस्तकं रचितवान् । अद्यत्वे अपि नैके ग्रन्थाः रचिताः रचयिष्यमाणाः च सन्ति ।

तत्त्वस्वरूपम्[सम्पादयतु]

अस्मिन् सिद्धान्ते तत्त्वस्वरूपविषये एवं निरूपितम् अस्ति, अशेषचिदचित्प्रकारं ब्रह्म एकमेव तत्त्वम्, तत्र प्रकारप्रकारिणोः प्रकाराणां च मिथोऽत्यन्तभेदेऽपि वैशिष्ट्यादिविवक्षया एकव्यपदेशः तदितर निषेधश्च[१] इति । चेतनाचेतनयोः मिलितः ब्रह्मवस्तु एकमेव । तत्त्वविशेष्यविशेषणयोः भेदः सत्याम्, विशेषणेषु परस्परभेदः अस्तिचेदपि एतैः विशेषैः मिलितम् वस्तु एकमेव इत्यतः तत्त्वम् एकमेवेति । अनेन सिद्धान्तेनैव एषः वेदान्तः विशिष्टाद्वैतवेदान्तेन प्रथितः इति । अस्य दर्शनस्य असाधारणानि वैशिष्ट्यानि एतानि भवन्ति,

  1. श्रुतिवाक्यानां मुख्यार्थमेव कथनम् ।
  2. चिदचिद्विशिष्टः ब्रह्मा एकः एव । चेतनः, अचेतनः, ब्रह्मवस्तुनः च स्वरूपस्वभावाः विलक्षणाः भवन्ति ।
  3. शरीरस्य दोषः आत्मसम्बन्धितः, अतः ब्रह्मवस्तु निर्विकारः ।
  4. परमात्मा कर्माध्यक्षः, अतः अस्य शरीरादुत्पन्नानां सुखदुःखानां सम्बन्धः न भवति ।

प्रमाणानि[सम्पादयतु]

अस्मिन् दर्शने केवलं त्रीणि प्रमाणानि अङ्गीकृतानि सन्ति । तानि, प्रत्यक्षम्, अनुमानम्, शब्दञ्चेति । अन्यै दार्शनिकैः उक्तानि प्रमाणानि त्रिषु एव अन्तर्भवन्ति । इन्द्रियार्थसन्निकर्षात् उत्पन्नं ज्ञानं प्रत्यक्षं भवति । इदम् द्विविधं, नित्यमनित्यञ्चेति । ईश्वरस्य नित्यमुक्तस्य च प्रत्यक्षं नित्यम् । बद्धावस्थायां विद्यमानानां प्रत्यक्षम् अनित्यम् । अनित्यप्रत्यक्षं द्विविधम् । योगिप्रत्यक्षम्, अयोगिप्रत्यक्षञ्चेति । योगिप्रत्यक्षं प्रकृष्टादृष्टविशेषजं तत् युक्तावस्थायां मनोमात्रजन्यम् [२] । केवलं योगिनाम् एव मानसप्रत्यक्षम् इति । अयोगिनां जनसामान्यानां प्रत्यक्षं तु पञ्चेन्द्रियाणाम् अनुसारं पञ्चविधप्रत्यक्षं भवति । अस्मिन् सिद्धान्ते प्रत्यक्षम् एवमपि विभागं कृतं अस्ति, सविकल्पकम्, निर्विकल्पकम् इति । एकजातीयवस्तु प्रथमवारदर्शनेन यत् प्रत्यक्षं जायते तत् निर्विकल्पकप्रत्यक्षमित्युच्यते । पूर्वदृष्टस्य वस्तुनः, विशेषणसहितस्य वस्तुनः च दर्शनेन यत् प्रत्यक्षं जायते तत् सविकल्पकप्रत्यक्षमित्युच्यते । अनुमानप्रमाणविषये एतेषां दार्शनिकानाम् आशयः, अनुमानप्रमाणम् स्वार्थानुमाने एव पर्यवस्यति अतः अनुमानस्य स्वार्थं परार्थमिति विभागः न करणीयः इति । ’केवलव्यतिरेकि’ अनुमानम् एते नाङ्गीकुर्वन्ति । अनङ्गीकारे कारणं, सपक्षसत्वं नास्ति एवं साध्यसाधनयोः व्याप्तिः न गृह्यते । तर्कः अनुमुनस्यापेक्षया अभिन्नः इति एतेषां सिद्धान्तः । शब्दप्रमाणं ब्रह्मवस्तु ज्ञातुम् एकमेव साधनम् । पदनां विशिष्टार्थाभिधायित्वं प्रतिपादयन्ति । सर्वाणि शब्दानि ईश्वरमेव बोधयन्ति इति एतेषां सिद्धान्तः ।

जीवात्मा[सम्पादयतु]

जीवात्मानः चैतन्यस्वरूपाः। देह-इन्द्रिय-मन-प्राण-बुद्ध्यादिभिः भिन्नः । जीवात्मानः नित्याः,सत्यभूताः च भवन्ति । या कापि वा अवस्था भवतु, ईश्वरभिन्नाः एनं जीवात्मानं विहाय न भवन्ति । एते अनन्ताः भवन्ति । प्रत्येकस्मिन्नपि शरीरे भिन्नाः भवन्ति । यथा ज्ञानस्वरूपाः तथैव ज्ञानाश्रयाः अपि भवन्ति । कर्तृत्त्व, भोक्तृत्व, ज्ञातृत्त्वसहिताः एते अणुस्वरूपाः भवन्ति । ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मनः इति । (परमात्मनः शेषभूताः) आत्मानः विभागः, बद्धः, मुक्तः, नित्यः च इति ।

  • बद्धः- अनादेः कर्मकारणवशात् प्रकृतिसम्बन्धसहिताः एवं संसारे ये च भवन्ति ते बद्धाः भवन्ति ।
  • मुक्तः- साधनानुष्ठानैः ईश्वरं ये प्राप्तवन्तः, एवं संसारात् विरक्ताः ते मुक्ताः भवन्ति ।
  • नित्यः- केवलं प्रकृत्या सह सम्बद्धाः नित्याः भवन्ति ।

जगत्[सम्पादयतु]

अस्मिन् सिद्धान्ते जगतः सत्यत्वं प्रतिपादयन्ति । भौतजगत् प्रकृतेः परिणामः भवति । अस्यैव अव्यक्तम्, अक्षरम्, मूलप्रकृतिः, अविद्या, मायादीनि पर्यायवाचकानि भवन्ति । सततपरिणामस्तु प्रकृतेः स्वभावः भवति । अस्य स्थितिः प्रवृत्तिश्च ईश्वराधीनं भवति । प्रकृत्याः सत्वरजस्तमादयः त्रयोगुणाः भवन्ति । एतान् गुणान् प्रकृत्या विभजयितुं न शक्यते किन्तु प्रकृत्यपेक्षया भिन्नाः । ईश्वरस्य सङ्कल्पानुसारेणैव प्रकृतौ परिवर्तानादिकं शक्यम् ।

नित्यविभूतिः[सम्पादयतु]

नित्यविभूति नाम शुद्धसत्वम् इति अर्थः । केवलं नित्यविभूतिः सत्वेन सह एव भवति । त्रिगुणात्मिकायाः प्रकृत्याः अपेक्षया विलक्षणा एषा । नित्यविभूतिः नित्या, अपरिच्छिन्ना च भवति । रजसः पराके इति श्रुतिः । नित्यविभूतिं वैकुण्ठमिति प्रतिपादयन्ति । नित्याः मुक्ताः च निरन्तरतया भगवदनुभवं सम्प्राप्य आनन्देन रमणीयं दिव्यदामं स्थलं भवति ।

मोक्षः[सम्पादयतु]

जीवाः प्रकृतिसम्बन्धेन मुक्ताः, पुनर्जन्मरहिताश्च भूत्वा भगवन्तं प्राप्य आनन्दानुभवम् एव मोक्षः । अनेन दर्शनेन अनुसारं देशविशेषप्राप्तिपूर्वकं मुक्तिः लभ्यते । जीवन्मुक्तिम् अस्मिन् सिद्धान्ते नाङ्गीकुर्वन्ति । मुक्ते पुरुषे अपहतपाप्मत्वादि अष्टगुणाः आविर्भवन्ति । तदा सः सहजज्ञानस्वरूपे स्थितः भवति इति प्रतिपादयन्ति । भगवतः समानगुणकत्वप्राप्तिः सायुज्यम् । अस्मिन् दर्शने ऐक्यं नास्ति । जीवाः यावदात्मभावित्वेन देवं सेवयन्ति । मुक्तस्य निरूपणे सायुज्य-सार्ष्टितायोः पदयोः श्रुतिः प्रतिपादयति । आनन्दानुभवे जीवाः देवाः च समानतया भागं वहन्ति इति सायुज्यपदं सूचयति । जीवदेवयोः आनन्दानुभवे तारतम्यभावः नास्ति इति सार्ष्टिता इति पदं सूचयति ।

प्रसिद्धाः आचार्याः[सम्पादयतु]

बोधायनः[सम्पादयतु]

बोधायनः बादरायणस्य ब्रह्मसूत्राणां वृत्तिं रचितवान् अस्ति । अनया एव वृत्याधारेण रामानुजाचार्यः भाष्यं रचितवान् । एनं विषयं श्रीभाष्ये रामानुजाचार्यः उल्लेखितवान् अस्ति । भगवद्भोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्तिम् इति । एषः उपवर्षः च एकव्यक्तिः इति केचन इतिहासकाराणाम् अभिप्रायः । अस्य कालादीनां विषये कुत्रापि उल्लेखाः न प्राप्ताः । एषा वृत्तिः अद्यत्वे नोपलभ्यते ।

टङ्काचार्यः[सम्पादयतु]

अस्मिन् सम्प्रदाये टङ्काचार्यस्य एव ’वाक्यकारः’ इति प्रसिद्धिः अस्ति । टङ्काचार्यः ब्रह्मनन्दिः च भिन्नौ इत्यत्र मतभेदाः सन्ति । ’कल्पतरुः’ नामके ग्रन्थे ब्रह्मनन्दिः अद्वैतं पुरस्कृतवान् अतः उभौ अपि भिन्नौ इति । अस्य नाम यमुनाचार्यः उल्लेखितवान् अस्ति । एषः छान्दोग्योपनिषदः भाष्यं रचितवान् आसीत् इति प्रथा अस्ति । अस्य कालादि विषये उल्लेखाः नसन्ति ।

नाथमुनिः[सम्पादयतु]

विशिष्टाद्वैतवेदान्तस्य सिद्धान्तस्थापकेषु त्रिषु आचार्येषु नाथमुनिः अन्यतमः । तमिळुनाडुराज्यस्य वीरनारायणपुरे अजायत । नम्माळ्वार् वर्यस्य प्रबन्धसाहित्यं संरक्षितवान् इति कथयन्ति । अस्य कृतयः ’न्यायतत्त्वम्’, ’पुरुषनिर्णयः’, ’योगरहस्यम्’ च भवन्ति । ’वेङ्कटनाथः’ स्व न्यायपरिशुद्धिनामके ग्रन्थे न्यायतत्त्वग्रन्थस्य उल्लेखं कृतवान् अस्ति । यमुनाचार्यः स्वकृतस्तोत्रे नाथमुनिं स्तुतिं कृतवान् आसीत् । तद्यथा,

भूयो नमोऽपरिमित्च्युत भक्तितत्त्वज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।
लोकेऽवतीर्ण-परमार्थ-समग्रभक्ति-योगाय नाथमुनये यमिनां वराय ॥

रामानुजाचार्यः[सम्पादयतु]

रामानुजाचार्यः (क्रि.श.१०१७तः११३७पर्यन्तम्) विशिष्टाद्वैतस्य आद्यः प्रवर्तकः । अस्य वैष्ण्वस्य भक्तिपरम्परायां महान् प्रभावः अस्ति । वैष्णवाचार्याणां परम्परायाम् एव रामानुजाचार्यस्य शिष्यः रामानन्दः आगतः यस्य शिष्यौ कबीरः सूरदासः च आस्ताम् । रामानुजः वेदान्तदर्शनाधारितं स्वस्य नूतनं विशिष्टाद्वैतवेदन्तं लिखितवान् । वेदान्तम् अतिरिच्य श्री रामानुजः ६-१०शताब्दस्य रहस्यवादिनां भक्तिमार्गिणाम् आल्वार् सताम् भक्तिमार्गं, दक्षिणस्य पञ्चरात्रपरम्परां स्वस्य विचाराणाम् आधारम् अकरोत् ।

यमुनाचार्यः[सम्पादयतु]

एषः यमुनाचार्यः ’नाथमुनेः’ पौत्रः । अस्य गुरुः माहाभाष्यभट्टः । १२ वयसि एव अक्कियाळ्वापण्डितं वादे पराजितवान् आसीत् । कालान्तरे यामुनाचार्यः सन्यासदीक्षां स्वीकृतवान् । श्रीरङ्गे आचार्यपीठम् अलङ्कृतवान् । अस्य कृतयः ’आगमप्रामण्यम्’, ’महापुरुषनिर्णयः’, ’आत्मसिद्धिः’, ’ईश्वरसिद्धिः’, ’संवित्सिद्धिः’, ’गीतार्थसङ्ग्रहः’, ’चतुश्लोकि’, ’स्तोत्ररत्नम्’, च भवन्ति । ’महापुरुषनिर्णयः’ नामकः ग्रन्थः न उपलभ्यते ।

अन्ये आचार्याः[सम्पादयतु]

प्रसिद्धग्रन्थाः[सम्पादयतु]

आधाराः[सम्पादयतु]

  1. न्यायसिद्धाञ्जनम्, वेङ्कटनाथः
  2. न्यायपरिषुद्धिः, वेङ्कटनाथः

बाह्यानुबन्धाः[सम्पादयतु]